सुत उवाच
इति भीतः प्रजाद्रोहात्सर्वधर्मविवित्सया ।
ततो विनशनं प्रागाद यत्र देवव्रतोऽपतत ॥१॥
तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः ।
अन्वगच्छन रथैर्विप्रा व्यासधौम्यादयस्तथा ॥२॥
भगवानापि विप्रर्षे रथेन सधनत्र्जयः ।
स तैर्व्यरोचत नृप कुबेर इव गुह्याकैः ॥३॥
दृष्ट्वा निपतितं भूमौ दिवश्च्युमिवामरम ।
प्रणेम पाण्डवा भीष्मं सानुगाः सह चक्रिणा ॥४॥
तत्र ब्रह्मार्षयः सर्वे देवर्शयश्च सत्तम ।
राजर्षयश्चे तत्रासन द्रष्टुं भरतपुंगवम ॥५॥
पर्वतो नारदो धौम्यो भगवान बादरायणः ।
बृहदश्वो भरद्वजः सशिष्यो रेणुकासुतः ॥६॥
वसिष्ठ इन्द्रप्रमद्स्त्रितो गुप्समदोऽसितः ।
कक्षीवान गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः ॥७॥
अन्ये च मुनयो ब्रह्मान ब्रह्मारातादयोऽमलाः ।
शिष्यैरुपेता आजग्मुः कश्यपांगिरसादयः ॥८॥
तान समेतान महाभागानुपलभ्य वसुत्तमः ।
पूजयामास धर्मज्ञो देशकालविभागवित ॥९॥
कृष्णं च तत्प्रभावज्ञ असीनं जगदीश्वरम ।
हृदिश्थं पुजयमास माययोपात्तविग्रहम ॥१०॥
पान्डुपुत्रनौपासीना प्रश्रयप्रेमसंगतान ।
अभ्याचष्टानुरागास्त्रैरन्धीभूतेन चक्षुषा ॥११॥
अहो कष्टमहोऽन्याय्यं यद्युयं धर्मनन्दनाः ।
जीविंतु नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः ॥१२॥
संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधुः ।
युष्मत्कृ ते बहुत क्लेशान प्राप्त तोकवती मुहुः ॥१३॥
सर्व कालकॄतं मन्ये भवतां च यदप्रियम ।
सपालो यद्वशे लोको वायोरिव घनाविलः ॥१४॥
यत्र धर्मसुतो राजा गदापाणीर्वृकोदरः ।
कृष्णोऽस्त्री गाण्डिवं चापं सुहृत्कृष्णस्ततो विपत ॥१५॥
न ह्रास्य कर्हिचिद्राजन पुमान वेद विधित्सितम ।
यद्विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥१६॥
तस्मादिदं दैवतन्त्रं व्यवस्य भरतर्षभ ।
तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो ॥१७॥
एष वै भगवान साक्षादाद्यो नारायणः पुमान ।
मोहयन्मायया लोकं गुढश्चरति वृष्णिषु ॥१८॥
अस्यानुभाव भगवान वेद गुह्यातमं शिवः ।
देवर्षिर्नारदः साक्षाद्भगवान कपिलौ नृप ॥१९॥
यं मन्यसे मातुलेयं प्रिय मित्रं सुहृत्तमम ।
अकरोः सचिवं दुतं सौहृदादथ सारथिम ॥२०॥
सर्वात्मनः समदृशो ह्याद्वयस्यानहडकृतेः ।
तत्कृतं मतिवैष्म्यं निरवद्यस्य च क्वचित ॥२१॥
तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम ।
यन्मेसुस्त्यजतः साक्शात्कृष्णो दर्शनमागतः ॥२२॥
भक्त्याऽऽवेश्य मनो यस्मिन वाचा यन्नाम कीर्तयन ।
त्यजन कलेवरं योगी मुच्यते कामकर्मभिः ॥२३॥
स देवदेवो भगवान प्रतीक्षतां कलेवरं यावदिदं हिनोम्यहम ।
प्रसन्नहासारुणलोचनोल्लस न्मुखाम्बुजो ध्यानपथश्चतुर्भुज ॥२४॥
सुत उवाच
युधिष्ठिरर्स्तदाकर्ण्य शयानं शरपत्र्जरे \
अपृच्छद्विविधान्धर्मानृषींणां चानुश्रृण्वताम ॥२५॥
पुरुषस्वभावविहितान यथावर्ण यथाश्रमम ।
वैराग्यरागोपाधिभ्यामाम्नातोभयलक्षणान ॥२६॥
दानधर्मान राजधर्मान मोक्षधर्मान विभागशः ।
स्त्रीधर्मान भगवद्धर्मान समासव्यसयोगतः ॥२७॥
धर्मार्थकाममोक्षांश्च सहोपायान यथा मुने ।
नानाख्यानेतिहासेषु वर्नयामास तत्त्ववित ॥२८॥
धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः ।
यो योगिनश्छन्दमृत्योर्वात्र्छितत्स्तुत्तरायणः ॥२९॥
तदोपसंहृत्य गिरः सहस्त्रणी र्विमुक्तसंग मन आदिपुरुषे ।
कृष्णो लसत्पीतपटे चतुर्भुजे पुरः स्थितेऽमीलितदुग्वधारयत ॥३०॥
विशुद्धया धारणया हताशुभस्तदीक्षयैवाशु गतायुधव्यथः ।
निवृत्तसर्वेन्द्रियवृत्तिविभ्रम स्तुष्टाव जन्य विसृजज्जनार्दनम ॥३१॥
श्रीभीष्म उवाच
इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुंगवे विभुम्नि ।
स्वसुखमुपगते क्वचिद्विहर्तु प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥३२॥
त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं विजयसके रतिरस्तु मेऽनवद्या ॥३३॥
युधि तुरगरजोविधुम्रविष्वक कचलुलितश्रमवार्यकलंकृतास्ये ।
मम निशितशरैर्विभिद्यमान त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥३४॥
सपादि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य ।
स्थितवपि परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ॥३५॥
व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या ।
कुमतिमहरदात्मविद्यया य श्चरणरतिः परमस्य तस्य मेऽस्तु ॥३६॥
स्वनिगममपहाय मत्प्रतिज्ञाम ऋतमधिकर्तृमवप्लुतो रथस्थः ।
धृतरथचरणोऽभ्ययाच्चलदगु र्हरिरिवहन्तुमिभं गतोत्तरीयः ॥३७॥
शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे ।
प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान गति र्मुकुन्द ॥३८॥
विजयरथ कुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये ।
भगवति रतिरस्तु मे मुमुर्षो र्यमहि निरीक्ष्य हता गताः सरुपम ॥३९॥
ललितगतिविलासवल्गुहास प्रणयनिरीक्षकल्पितोरुमानाः ।
कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन किल यस्य गोपवध्वः ॥४०॥
मुनिगणनृपार्यसंकुलेऽन्त सदसि युधिष्ठिरराजसुय एषाम ।
अर्हणमुपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ॥४१॥
तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्मकल्पितानाम ।
प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोहः ॥४२॥
सुत उवाच
कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः ।
आत्मन्यात्मानमावेश्य सोऽन्तः श्वस उपारमत ॥४३॥
सम्पद्यमानमाज्ञाय भीष्मं ब्रह्माणि निष्कले ।
सर्वे बभुवृस्ते तूष्णीं वयांसीव दिनात्यये ॥४४॥
तत्र दुन्दुभयो नेदुर्देवमानववादिताः ।
शशंसुः साधवो राज्ञा खात्पेतुः पुष्पवृष्टयः ॥४५॥
तस्य निर्हरणादीनि सम्परेतस्य भार्गव ।
युधिष्ठिरः कारयित्वा मुहुर्तं दुःखितोऽभवत ॥४६॥
तुष्टुवुर्मुनयो हृष्टाः कृष्णं तदगुह्नानामाभिः ।
ततस्ते कृष्णहृदयाः स्वाश्रमन प्रययुः पुनः ॥४७॥
ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम ।
पितरं सान्त्वयामास गान्धारीं च तपस्विनीम ॥४८॥
पित्रा चानुमतो राजा वासुदेवानुमोदितः ।
चकार राज्यं धर्मेण पितृपैतामहं विभुः ॥४९॥
इति श्रीमद्भगवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे युधिष्ठिराराज्यप्रलम्भो नाम नवमोऽध्यायः ॥९॥