सूत उवाच
एवं निशम्य भगवान्देवर्षेर्जन्म कर्म च ।
भूयः पप्रच्छ तं ब्रह्मान व्यासः सत्यवतीसुतः ॥१॥
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव ।
वर्तमानो वयस्याद्ये ततः किमकरोद्भवान ॥२॥
स्वायाम्भुव कया वृत्त्या वर्तित ते परं वयः ।
कथं चेदमुदस्त्राक्षी काले प्राप्ते कलेवरम ॥३॥
प्राक्कल्पविषयामेतां स्मृतिं ते सुरसत्तम ।
न ह्योष व्यवधात्काल एष सर्वनिराकृतिः ॥४॥
नारद उवाच
भिक्षुभिर्विप्रवासिते विज्ञानादेष्टृभिर्मम ।
वर्तमानो वयस्याद्ये तत एतदकारषम ॥५॥
एकात्मजा मे जननी योषिन्मुढा च किंकरी ।
मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबन्धनम ॥६॥
साऽस्वतन्त्रा न काल्पाऽऽसीद्योगक्षेमं ममेच्छती ।
ईशस्य हि वशे लोको योशा दारुमयी यथा ॥७॥
अहं च तदब्रह्माकुले ऊषिवांस्तदपेक्षाया ।
दिग्देशकलाव्युप्तन्नो बालकः पंचहायनः ॥८॥
एकदा निर्गतां गेहादृहन्ती निशि गां पथि ।
सर्पोऽदशात्पदा सृष्टःकुपनां कालचोदितः ॥९॥
तदा तदहमीशस्य भक्तांना शमभीप्सतः ।
अनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम ॥१०॥
स्फीतात्र्जनपदांस्तत्र पुरग्रामव्रजाकरान ।
खेटखर्वटवाटीश्च वनान्युपवनानि च ॥११॥
चित्रधातुविचित्राद्रीनिभभग्नभुजद्रुमान ।
जलाशयात्र्छिवजलान्नलिनीः सुरसेविताः ॥१२॥
चित्रस्वनैह पत्रनथैर्विभ्रमदभ्रमरश्रियः ।
नलवेणुशरस्तम्बकुशकीचकगह्वरम ॥१३॥
एक एवतियातोऽहमद्राक्षं विपिनं महत ।
घोर प्रतिभयाकारं व्यालोलुकशिवाजिरम ॥१४॥
परिश्रान्तेन्द्रियात्माहं तृटपरितो बुभुक्षितः ।
स्नात्वा पीत्वा ह्रदे नद्या उपसृष्टो गतश्रमः ॥१५॥
तस्मिन्निर्मनुजेऽण्ये पिप्पलोपस्थ आस्थितः ।
आत्मनाऽऽत्मानमात्मस्थं यथाश्रुतमचिन्तयम ॥१६॥
ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा ।
औत्कण्ठयाश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः ॥१७॥
पेमतिभरनिर्भिन्नपुलकांगोऽतिनिर्वृतः ।
आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने ॥१८॥
रूपं भगवतो यत्तन्मनः कान्तं शुचापहम ।
अपश्यन सहसोत्तस्थे वैक्लव्याद्दुर्मना इव ॥१९॥
दिदुक्षुस्तदहं भूयः प्रणिधाय मनो हृदि ।
वीक्षमाणोऽपि नापश्यमवितृम इवातुरः ॥२०॥
एवम यतत्नं विजने मामाहागोचरो गिराम ।
गम्बीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव ॥२१॥
हन्तस्मिज्तन्मनि भवान्मा मां द्रष्टुमिहार्हति ।
अविपक्ककषायाणां दुर्दर्शोऽहं कुयोगिनाम ॥२२॥
सकृद यद दशित रुपमेतत्कामाय तेऽनघ ।
मत्कामः शनकैः साधुः सर्वान्मुत्र्चति हृच्छयान ॥२३॥
सत्सेवयाऽदीर्घया ते जाता मयि दृढा मतिः ।
हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥२४॥
मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित ।
प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात ॥२५॥
एतावदुक्त्वोपरराम तन्महद भुतं नभोलिंगमलिंगमीश्वरम ।
अहंच तस्मै महतां महीयसे शीर्ष्णावनामं विदधेऽनुकम्पितः ॥२६॥
नामान्यनन्तस्य हतत्रप ; पठन गुह्नानि भद्राणि कृतानि च स्मरन ।
गां पर्यटंस्तुष्टमना गतस्पृहः कालं प्रतीक्षन विमदो विमत्सरः ॥२७॥
एवं कृष्णमतेर्ब्र ह्रान्नसक्तस्यामलात्मनः ।
कालः प्रादुरभुत्काले तदित्सौदामनी यथा ॥२८॥
प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम ।
आरब्धकर्मनिर्वाणो न्यपतत पात्र्चभौतिकः ॥२९॥
कल्पान्त इदमादाय शयानेऽम्भस्युदन्वतः ।
शिशायिषोरनुप्राण विविशेऽन्तरहं विभोः ॥३०॥
सहस्त्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः ।
मरीचिमिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे ॥३१॥
अन्तर्बहिश्च लोकांस्त्रीन पर्येम्यस्कन्दिव्रतः ।
अनुग्रहान्महाविष्णोरविघातर्गातिः क्वचित ॥३२॥
देवदत्तामिमां वीणां स्वरब्रह्मविभुषिताम ।
मूर्च्छियित्वा हरिकथां गायमानश्चरम्यहम ॥३३॥
प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः ।
आहुत इव मे शीघ्र दर्शन याति चेतासि ॥३४॥
एतद्धायातुरचित्तांनां मात्रास्पर्शेच्छया मुहुः ।
भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम ॥३५॥
यमादिभिर्योगापथैः कामलोभहतो मुहुः ।
मुकुन्दसेवया यद्वत्तथाऽऽत्माद्धा न शाम्यति ॥३६॥
सर्व तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ ।
जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम ॥३७॥
सुत उवाच
एवं सम्भाष्य भगवान्नारदो वासवीसुतम ।
आमन्त्र्या वीणां रनयन ययौ यादृच्छिको मुनिः ॥३८॥
अहो देवर्षिर्धन्योऽयं यत्किर्ति शार्गधन्वनः ।
गायन्माद्यन्निदं तन्त्र्या रमयत्यातुरं जगत ॥३९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां प्रथमस्कन्धे व्यासनारदसंवादे षष्ठोऽध्यायः ॥६॥