शौनक उवाच
निर्गते नारदे सुत भगवान बादरायणः ।
श्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुः ॥१॥
सुत उवाच
ब्रह्मानद्यां सरस्वत्यामश्रमः पश्चिम तटे ।
शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ॥२॥
तस्मिन स्व आश्रमे व्यासो बदरीषण्डमण्डिते ।
असोनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम ॥३॥
भक्तियोगेन मनसि सम्यक प्रणिहितेऽमले ।
अपश्यत्पुरुषं पूर्व मायां च तदपाश्रयाम ॥४॥
यया सम्मोहितो जीव आत्मानं त्रिगुनात्मकम ।
परोऽपि मुनतेऽनर्थं तत्कृतं चाभिपद्यते ॥५॥
अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे ।
लोकस्याजानतो विद्वांश्वक्रे सात्वतसंहिताम ॥६॥
यस्यां वै श्रूयमाणायां कृष्णे परमपुरुषे ।
भक्तिरुप्तद्यते पुंसः शोकमोहभयापहा ॥७॥
स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम ।
शुकमध्यापयमास निवृत्तिनिरतं मुनिः ॥८॥
शौनक उवाच
स वै निवत्तिनिरतः सर्वत्रोपेक्षको मुनिः ।
कस्य वा बृहतीमेतामात्मरामः समभ्यसत ॥९॥
सूत उवाच
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।
कुर्वन्त्यहैतुकी भक्तिमिथ्थाम्भुतगुणो हरिः ॥१०॥
हरेर्गुणाक्षित्पमरिर्भगवान बादरायणिः ।
अध्यगान्महदाख्यानं नित्यं विष्णुजनाप्रियः ॥११॥
परीक्षितोऽथ राजर्षेर्जन्मकर्मविलापनम ।
संस्थां च पाण्डुपुत्रांणा वक्ष्ये कृष्णकथोदयम ॥१२॥
यदा मृधे कौरवसृज्त्रयांना वीरेष्वथो वीरगतिं गतेषु ।
वृको दराविद्धगदाभिमर्श भग्नोरुदण्डे धृतराष्ट्रपुत्र ॥१३॥
भर्तुः प्रिय द्रौणिरिति स्म पश्यन कृष्णासुतांना स्वपतां शिरांसि ।
उपाहृरद विप्रियमेव तस्य तद जुगुउप्सित कर्म विगर्हयन्ति ॥१४॥
माता शिशुंना निधनं सुतांना निशम्य घोरं परितप्यमाना ।
तदऽरुदद्वाष्पकलाकुलांक्षी तां सान्त्वयन्नाह कीरीटमाली ॥१५॥
तदा शुचस्ते प्रमृजामि भद्रे यदब्रह्माबन्धोः शिरो आततायिनः ।
गाण्डिवमुक्तैर्विशिखैरौपाहरे त्वाऽऽक्रम्य यत्स्नास्यसि दग्धपुत्रा ॥१६॥
इति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाच्युतामित्रसुतः ।
अन्वाद्रवद्दंशित उग्रध्रन्वा कपिध्वजो गुरुपुत्र रथेन ॥१७॥
तमापतन्तं स विलक्ष्य दुरात कुमारहोद्विग्नमना रथेन ।
पराद्रवत्प्राणपरीत्सुरुर्व्या यावद्गमं रुरभयाद्यथार्कः ॥१८॥
यदाशरणमात्मानमैक्षत श्रान्तवाजिनम ।
अस्त्रं ब्रह्माशिरो मेने आत्मत्राण द्विजात्मजः ॥१९॥
अथोपस्पृश्य सलिलं संदधे तत्समाहितः ।
अजानन्नुपसंहारं प्राणकृच्छ्र उपस्थिते ॥२०॥
ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतोदिशम ।
प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥२१॥
अर्जुन उवाच
कृष्ण कृष्ण महाबाहो भक्तनामभयंकर ।
त्वमेको दह्यामानानामपवर्गोऽसि संसृतेः ॥२२॥
त्वमाद्यः पुरुषः साक्षादीश्वरः प्रकृतेः परः ।
मायांव्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥२३॥
स एव जीवलोकस्य मायामोहितचेतसः ।
विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षनम ॥२४॥
तथायं चावतारस्ते भुवो भारजिहीर्षया ।
स्वानां चानन्यभावानामनुध्यायान चासकृत ॥२५॥
किमिदं स्वित्कृतो वेति देवदेव न वेदम्यहम ।
सर्वतोमुखमायाति तेजः परमदारूणम ॥२६॥
श्रीभगवानुवाच
वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम ।
नैवासौ वेद संहांर प्राणबाध उपस्थिते ॥२७॥
न ह्रास्यान्यतमं कित्र्चिदस्त्रं प्रत्यवकर्शनम ।
जह्यास्त्रतेज उन्नद्धमस्त्रज्ञो ह्रास्त्र तेजसा ॥२८॥
सुत उवाच
श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा ।
स्पष्टा पस्तं परिक्रम्य ब्रह्मां ब्राह्मय संदधे ॥२९॥
संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते ।
आवृत्य रोदसी खंच ववृधातेऽर्कवह्निवत ॥३०॥
दृष्टास्त्रतेजस्तु तयोस्त्रींल्लोकान प्रदहन्महत ।
दह्यामानाः प्रजाः सर्वाः सांवर्तकममंसत ॥३१॥
प्रजोपप्लवमालक्ष्य लोकव्यतिकरं च तम ।
मतं च वादुदेवस्य संजहारार्जुनो द्वयम ॥३२॥
तत आसाद्य तरसा दारुणं गौतमीसुतम ।
बबन्धामर्षताम्राक्षः पशुः रशनया यथा ॥३३॥
शिबिराय निनीषन्तं दाम्ना बदध्वा रिपुं बलात ।
प्राहार्जुनं प्रकुपितो भगवानाम्बुजेक्षणः ॥३४॥
मैनं पार्थार्हसि त्रातुं ब्रह्माबन्धुमिमं जहि ।
योऽसावनागसः सुप्तानवधीन्निशि बालकान ॥३५॥
मत्तं प्रमत्तमुन्मतं सुप्तं बालं स्त्रियं जडम ।
प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित ॥३६॥
स्वप्राणानयं परप्राणैः प्रपुष्णात्यघृणः खलः ।
तद्वधस्तस्य ही श्रेयो यद्दोषाद्यात्यधः पुमान ॥३७॥
प्रतिश्रुतं च भवता पाचाल्यै श्रृण्वतो मम ।
आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा ॥३८॥
तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा ।
भर्तुश्च विप्रियं वीर कृतवान कुलपांसनः ॥३९॥
एवं परिक्षता धर्म पार्थः कृष्णेन चोदितः ।
नैच्छद्धन्तु गुरुसुतं यद्यप्यात्महनं महान ॥४०॥
अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथिः ।
न्यवेदयत्तं प्रियायै शोचन्त्या आत्मजान हतान ॥४१॥
तथाऽऽहृतं पशुवत पाशबद्ध मावडमुखं कर्मजुगुप्सितेन ।
निरीक्ष्य कृष्णापकृत गुरो सुतं वामस्वभावा कॄपाया ननाम च ॥४२॥
उवाच चासहन्त्यस्य बन्धननयनं सती ।
मुच्यतां मुच्यतामेष ब्राह्मणो नितरां गुरुः ॥४३॥
सरहस्यो धनुर्वेदः सविसर्गोपसंयमः ।
अस्त्रग्रामक्ष्च भवता शिक्षितो यदनुग्रहान ॥४४॥
स एष भगवान द्रोणः प्रजारुपेण वर्तते ।
तस्यात्मनोऽर्ध पत्न्यास्ते नान्वगाद्वीरसुः कृपी ॥४५॥
तद धर्मज्ञ महाभाग भवद्भिगौरवं कुलम ।
वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः ॥४६॥
मा रोदीदस्य जननी गौतमी पतिदेवता ।
यथाहं मृतवत्साऽऽर्ता रोदिम्यश्रुमुखी मुहुः ॥४७॥
यैः कोपितं ब्रह्माकुलं राजन्यैरजितात्मभिः ।
तत कुलं प्रदहत्याशु सनुबन्धुं शुचार्पिताम ॥४८॥
सूत उवाच
धर्म्य न्याय्यं सकरुणं निर्व्यलीकं समं महत ।
राजा धर्मसुतो राज्ञयाः प्रत्यनन्दद्वचो द्विजाः ॥४९॥
नकुलः सहदेवश्च युयुधानो धनंजयः ।
भगवान देवकीपुत्रो ये चान्ये याश्च योषितः ॥५०॥
तत्राहामर्षितो भीमास्तस्य श्रेयान वधः स्मृतः ।
न भर्तृर्नात्मनश्चार्थ योऽहन सुप्तान शिशुन वृथा ॥५१॥
निशम्य भीमगदित्त द्रौपद्याश्च चतुर्भुजः ।
आलोक्य वदनं सख्युरिदमाह हसन्निवः ॥५२॥
श्रीकृष्ण उवाच
ब्रह्माबन्धुर्न हन्तव्य आततायी वधार्हणः ।
मयैवोभ्यमान्मतं परिपाह्यानुशासनम ॥५३॥
कुरु प्रतिश्रुतं सत्यं यत्तत्सान्त्वयता प्रियाम ।
प्रियं च भीमसेनस्य पांचाल्या महामेव च ॥५४॥
सूत उवाच
अर्जुनः सहसाऽऽज्ञाय हरेर्हार्दमथासिना ।
मर्णिं जहर मूर्धन्यं द्विजस्य सहमुर्धजम ॥५५॥
विमुच्च रशनबद्धं बालहत्याहतप्रभम ।
तेजसा मणिना हीनं शिबिरान्निरयापयत ॥५६॥
वपनं द्रविणादानं स्थानान्निर्यपणं तथा ।
एष ही ब्रह्माबन्धुनं वधो नान्योऽस्ति दैहिकः ॥५७॥
पुत्रशोकातुराः सर्वे पाण्डवः सह कृष्णया ।
स्वानां मृतांना यत्कृत्यं चक्रुर्निर्हनादिकम ॥५८॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्यां संहितायां प्रथमस्कन्धे द्रौणिनिग्रहो नाम सप्तमोऽध्यायः ॥७॥