सुत उवाच
अथ ते सम्परेतानां स्वानमुदकमिच्छताम ।
दातुं सकृष्णा गंगायां पुरस्कृत्य ययुः स्त्रियः ॥१॥
ते निनीयोदकं सर्वे विलस्य च भॄशं पुनः ।
आप्लुता हरिपादाब्जरजः पूतसरिज्जले ॥२॥
तत्रासीन्सं कुरुपतिं धृतराष्ट्र सहानुजम ।
गान्धारी पुत्रशोकार्ता पृथां कृष्णां च माधवः ॥३॥
सान्त्वयामास मुनिभिर्हतबन्धूत्र्छुचार्पितान ।
भूतेषु कालस्य गतिं दर्शयन्नप्रतिक्रियाम ॥४॥
साधायित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम ।
घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः ॥५॥
याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः ।
तद्यशं पावनं दिक्षु शतमन्योरिवातनोत ॥६॥
आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुत ।
द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः ॥७॥
गन्तुं कृतमतिर्ब्रह्नान द्वारकां रथमास्थितः ।
उपलेभेऽभिधावन्तीमुत्तरां भयविह्वलाम ॥८॥
उत्तरोवाच
पाहि पाहि महायोगिन्देवदेव जगत्पते ।
नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम ॥९॥
अभिद्रवति मामीश शरस्तत्पायसो विभो ।
कामं दहतु मं नाश मा मे गर्भो निपात्यताम ॥१०॥
सुत उवाच
उपधार्य वचस्तस्या भगाअन भक्तवत्सलः ।
अपाण्दवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ॥११॥
तर्ह्रोवाथ मुनिश्रेष्ठ पाण्डवाः पंच सयाकन ।
आत्मनोऽभिमुखाण्दीप्तानालक्ष्यास्त्राण्युपाददुः ॥१२॥
व्यसनं वीक्ष्य तत्तेषामनन्यविषयात्मनम ।
सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः ॥१३॥
अन्तःस्थः सर्व भूतानामात्मा योगेश्वरो हरिः ।
स्वमायाऽऽवृणोद्गर्भावैराट्याः कुरुतन्तवे ॥१४॥
यद्यप्यस्त्र ब्रह्मशिरस्त्व मोघं चाप्रतिक्रियम ।
वैष्णव तेज आसद्य समशाम्यद भृगद्वह ॥१५॥
मा मंश्था ह्योतदाश्चर्य सर्वाश्चर्यामयेऽच्युते ।
य इदं मायया देव्या सृजत्यवति हन्त्तजः ॥१६॥
ब्रह्मतेजोविनिर्मुक्तैरात्मजैः सह कृष्णजा ।
प्रयाणाभिमुखं कृष्णामिदमाह पृथा सती ॥१७॥
कुन्त्युवाच
नमस्ते पुरुषं त्वाऽऽद्यमीश्वरं प्रकृतेः परम ।
अलंक्ष्य सर्वभुतानामन्तर्बहिरवस्थितम ॥१८॥
मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम ।
न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥१९॥
तथा परमहंसानां मुनीनाममलात्मम ।
भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः ॥२०॥
कृष्णाय वासुदेवाय देवकीनन्दनाय च ।
नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥२१॥
नमः पंकजनाभाय नमः पंकजामालिने ।
नमः पंकजनेत्राय नमस्ते पंकजाडघ्रये ॥२२॥
यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता ।
विमोचिताहं सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात ॥२३॥
विषान्महाग्न्रेः पुरुषाददर्शनादसत्सभाया वनवासकृच्छ्रतः ।
मृधे मृधेऽनेकमहारथास्त्रतो द्रौणस्त्रतो द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः ॥२४॥
विपदः सन्तु नः शश्वत्तत्र तत्र जगदगुरो ।
भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम ॥२५॥
जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः पुमान ।
नैवार्हत्याभिधातुं वै त्वामाकिंचनगोचरम ॥२६॥
नमोऽकिंचनवित्तया निवृत्तगुणवृत्तये ।
आत्मारामाय शान्ताय कैवल्यपतये नमः ॥२७॥
मन्ये त्वां कालमीशानमनादिनिधनं विभुम ।
समं चरन्तं सर्वत्र भुतांना यन्मिथः कलिः ॥२८॥
न वेद कश्चिद्भगवंश्चिकीर्षितं तवेहमानस्य नृणाविडम्बनम ।
न यस्य कश्चिद्दयितोऽस्ति कर्हिचिद द्वेष्यश्च यस्मिन विषमा मतिर्नृणाम ॥२९॥
जन्म कर्म च विश्वात्मन्नजस्याकर्तुरात्मनः ।
तिर्यंनृषिषु यादःसु तदत्यन्तविडम्बनम ॥३०॥
गोप्यददे त्वयि कृतागासि दाम तावद या ते दशाश्रुकलिलाज्जनअसम्भ्रमाक्षम ।
वक्त्रं नीनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्विभेति ॥३१॥
केचिदहुरजं जातं पुण्यश्लकस्य कीर्तये ।
यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम ॥३२॥
अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात ।
अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम ॥३३॥
भरावतारणायान्ये भुवो नाव इवोदधौ ।
सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः ॥३४॥
भवेऽस्मिन क्लिश्यमानानामविद्याकामकर्मभिः ।
श्रवणस्मरणार्हाणि करिष्यन्निति केचन ॥३५॥
श्रृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः ।
त एव पश्यन्त्यचिरेण तावकं भवप्रवहोपरमं पदाम्बुजम ॥३६॥
अप्यद्य नस्त्वं स्ककृतेहित प्रभो जिहाससि स्वित्सुहृदोऽनुजीविनः ।
येषां न चान्यद्भवतः पदाम्बुजात परायणं राजसु योजितांहसाम ॥३७॥
के वय नामरुपाभ्यां यदुभिः सह पाण्डवाः ।
भवतोऽदर्श्ब यर्हि हृषीकाणामिवेशितुः ॥३८॥
नेयं शोभिष्यते तत्र यथेदानीं गदाधन ।
त्वप्तदैरंकिता भाति स्वलक्षणविलक्षितैः ॥३९॥
इमे जनपदः स्वृद्धाः सुपक्वौषधिवीरुधः ।
वनाद्रिनद्युदन्वन्तो ह्रोधन्ते तव वीक्षितैः ॥४०॥
अथ विश्वेश विश्वात्मन विश्वमूर्ते स्वकेषु मे ।
स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥४१॥
त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत ।
रतिमुद्वहतादद्धा गंगेवौद्यमुदन्वति ॥४२॥
श्रीकृष्ण कृष्णसख वृष्णयृषभावनिध्रुगराजन्यवंशदहनानपवर्गवीर्य ।
गोविन्द गोद्विजसुरर्तिहरावतार योगेश्वराखिलगुरो भगवन्नमस्ते ॥४३॥
सूत उवाच
पृथयेत्थं कलपदैह परिणुताखिलोदयः ।
मन्दं जहास वैकुण्ठो मोहयन्निव मायया ॥४४॥
अथ विश्वेश विश्वात्मन विश्वमुर्ते स्वकेषु मे ।
स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥४१॥
त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत ।
रतिमुद्वहतादद्धा गंगेवौधमुदन्वति ॥४२॥
श्रीकृष्ण कृष्णसख वृष्णयृषभावनिध्रुग राजन्यवंशदहनानपवर्गवीर्य ।
गोविन्द गोद्विजसुरार्तिहरवतार योगेश्वराखिलगुरो भगवन्नमस्ते ॥४३॥
सुत उवाच पृथयेत्थं कलपदैह परिणुताखिलोदयः ।
मन्दं जहास वैकुण्ठो मोहयन्निव मायया ॥४४॥
तां बाढमित्युपामन्त्र्या प्रविश्य गजसाह्वयम ।
स्त्रियश्च स्वपूरं यास्यन प्रेम्णा राज्ञा निवारितः ॥४५॥
व्यासाद्यैरीश्चरेहाज्ञैः कृष्णेनाद्भूकर्मणा ।
प्रबोधितोऽपीतिहासैर्नबुध्यत शुचार्पितः ॥४६॥
आह रजा धर्मसुतश्चिन्तयन सुह्रदां वधम ।
प्राकॄते नात्मना विप्राः स्नेहमोहवंश गतः ॥४७॥
अहो मे पश्यतज्ञानं हृदि रूढं दुरात्मनः ।
पारक्यस्यैव देहस्य बह्वयो मेऽक्षौहिणीर्हताः ॥४८॥
बालद्विजसुहृन्मित्र पितृभ्रातृगुरुद्रुहः ।
न मे स्यान्निरयान्मोक्षी ह्यापि वर्षायुतायुतैः ॥४९॥
नैनो राज्ञः प्रजाभर्तुधर्मयुद्धे वधो द्विषाम ।
इति मे न तु बोधाय कल्पते शासनं वचः ॥५०॥
स्त्रीणां मद्धतबन्धुंना द्रोहो योऽसाविहोत्थितः ।
कर्मभिर्गृहमेधीयैर्नाहं कल्पो व्यपोहितुम ॥५१॥
यथा पंकेन पंकाम्भः सुरया वा सुराकृतम ।
भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुमर्हति ॥५२॥
इति श्रीमद्धागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे कृन्तीस्तुतिर्युष्ठिरानुतापो नामाष्टमोऽध्यायः ॥८॥