सूत उवाच
महीपतिस्त्वथ तत्कर्म गर्ह्या विचिन्तयन्नात्मकृतं सुदुर्मनाः ।
अहो मया नीचमनार्यवत्कृतं निरागसि ब्रह्मणि गुढतेजसि ॥१॥
ध्रुवं ततो मे कृतदेवहेलनाद दुरत्ययं व्यसनं नातिदीर्घात ।
तदस्तू कामं त्वघनिष्कृताय मे यथा न कुर्यां पुनरेवमद्धा ॥२॥
अद्यैव राज्यं बलमृद्धकोशं प्रकोपितब्रह्माकुलानलो मे ।
दहत्वभद्रस्य पुननि मेऽभूत पापीयसी धीर्द्विजदेवागोभ्यः ॥३॥
स चिन्तयन्नित्थमथाश्रृणॊद यथा मुनेः सुतोक्तो निऋतिस्तक्षकाख्यः ।
स सधु मेने नचिरेण तक्षका नलं प्रसक्तस्य विरक्तिकारणम ॥४॥
अथो विहयेमममुं च लोकं विमर्शितो हेयतया पुरस्तात ।
कृष्णांड्घ्रिसेवामधिमन्यामन उपाविशत प्रायममर्त्यनद्याम ॥५॥
या वै लसच्छ्रीतूलसीविमिश्र कृष्णाड्घ्रिरेण्वभ्यधिकाम्भुनेत्री ।
पुनाति लोकानुभ्यत्र सेशान कास्तां न सेवेत मरिष्यमाणः ॥६॥
इति व्यवच्छिद्य स पाण्डवेयः प्रायोपवेशं प्रति विष्णूपद्याम ।
दध्यौ मुकुन्दाड्घ्रिमन्न्यभावो मुनिव्रतो मुक्तसमस्तसंगः ॥७॥
तत्रोपजग्मुर्भुवनम पुनानां महानुभावा मुनयः सशिष्याः ।
प्रायेणा तीर्थाभिगमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः ॥८॥
अत्रिर्वसिष्ठश्चवनः शरद्व नरिष्ठनेमिर्भुगुरंगिराश्च ।
पराशरो गाधिसुतोऽथराम उतथ्य इन्द्रप्रमदेध्यमवाहौ ॥९॥
मेधातिथिर्देवल आर्ष्टिपेणो भारद्वजो गौतमः पिप्पलदः ।
मैत्रेय और्वः कवषः कुम्भयोनि द्वैंपायनो भगवान्नारदश्च ॥१०॥
अन्ये च देवर्षिह्रह्मार्षिवार्या राजर्षिवर्या अरुणादयश्च ।
नानार्षेयप्रवरान समेता नभ्यर्च्य राजा शिरसा ववन्दे ॥११॥
सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिइकीर्षितं यत ।
विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभिगृहितपाणिः ॥१२॥
राजोवाच
अहो वयं धन्यतमा नृपाणाम महत्तमानुग्रहणीयशीलाः ।
राज्ञां कुलं ब्राह्मणपादशौचादु दुराद विसृष्टं बत गर्हाकर्म ॥१३॥
तस्यैव मेऽघसुय परावरेशो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम ।
निर्वेदमुलो दिवजशापरुपो यत्र प्ररक्तो भयमाशु धत्ते ॥१४॥
तं मोपयातं प्रतियन्तू विप्रा गंगा च देवी धृतचित्त मीशे ।
द्विजोपसृष्टः कुहकस्तक्षणो वा दशत्वलं गायत विष्णूगाथाः ॥१५॥
पुनश्च भुयाद्भगवत्यनन्ते रतिः प्रसंगंश्च तदश्रयेषु ।
महस्यु यां यामुपयामि सृष्टिं मैत्र्यस्तू सर्वत्र नमो द्विजेभ्यः ॥१६॥
इति स्म राजाध्यवसाययुक्तः प्राचीनमुलेषु कुशेषु धीरः ।
उदडमुखो दक्षिणकुल आस्ते । समुद्रपत्न्याः स्वसुतन्यस्तभारः ॥१७॥
एवं च त्स्मिन्नरदेवदेवे प्रयोपविष्टे दिवि देवसंघः ।
प्रशस्य भूमौ व्याकिरन प्रसुनै र्मुदा मुहुर्दुन्दुभयश्च नेदुः ॥१८॥
महर्षयो वै समुपागता ये पशस्य साद्वित्यनुम्प्दमानाः ।
ऊचुः प्रजानुग्रहशीलसारा यदुत्पमश्लोकगुणभिरुपम ॥१९॥
नवा इदं राजर्षिवयं चित्रं भवत्सु कॄष्णं समनुव्रतेषु ।
येऽध्यासनं राजकिरीटजुष्ठं सद्यो जहुर्भगवत्पार्श्वकामाः ॥२०॥
सर्वे वयं तावदिहास्महेऽद्य कलेवरं यावदसौ विहाय ।
लोकं परं विरजस्कं विशोकं यास्यत्ययं भागातप्रधानः ॥२१॥
आश्रुत्य तदृषिगणवचः परेक्षित सम मधुच्युद गुरु चाव्यलीकम ।
आभाषतैनानभिनन्द्य युक्तान शुश्रुषमणश्चरितानि विष्णोः ॥२२॥
समागताः सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे ।
नेहाथवामुत्र च कश्चनार्थ ऋते परनुग्रहमात्मशीलम ॥२३॥
ततश्चः वः पृच्छमिमं विपृच्छे विश्रभ्य विप्रा इतिकृत्यतायाम ।
सर्वात्माना म्रियमानैश्च कृत्यं शुद्धं च तत्रामृशताभियुक्ताः ॥२४॥
तत्राभवद्भगवान व्यासपुत्रो यदृच्छया गामटमनोऽनपेक्षः ।
अलक्ष्यलिंगौनिजलाभतूष्टो वृतश्च बालैरवधुतवेषः ॥२५॥
तं द्वयष्टवर्ष सुकुमारपाद करोरुबाह्नंसकपोलगात्रम ।
चार्वायताक्षोन्नसतूल्यकर्ण सुभ्रवाननं कम्बुसुताजकण्ठम ॥२६॥
निगुढजंत्रुं पृथूतूंगवक्षम मावर्तनाभिं वलिवल्गुदरं च ।
दिगंम्बरं वक्तविकीर्णकेशं प्रलम्बबाहुं स्वमरोत्तमाभम ॥२७॥
श्यामं सदापीच्यवयोऽगंलक्ष्म्या स्त्रीणां मनोज्ञं रुचिरस्मितेन ।
प्रत्युत्थितास्ते मुनयः स्वासनेभ्यस्तल्लक्षणज्ञा अपि गुढवर्चवसम ॥२८॥
स विष्णूरातोऽतिथय आगताय तस्मेअई सपर्या शिरसाऽऽजहार ।
ततो निवृत्ता ह्राबुधाः स्त्रियोऽर्भका महासने सोपविवेश पुजितः ॥२९॥
स संवृस्तत्र महान महीयसां व्यरोचतालं भगवान यथेन्दु र्ग्रहर्क्षतारनिकरैः परीतः ॥३०॥
प्रशान्तमासीनमकुण्ठमेधसं मुनिं नृपो भागवतोऽभ्युपेत्य ।
प्रणम्य मूर्धावहितः कृतात्र्जलि र्नत्वा गिरा सूनृतयन्वपृच्छत ॥३१॥
परिक्षिदुवाच
अहो अद्य वयं ब्रह्मण सत्सेव्याः क्षत्रबन्धवः ।
कृपयातिथिरुपेण भवद्भिस्तिर्थकाः कृताः ॥३२॥
येषं संस्मारणात पुंसां सद्यः शुद्धयन्ति वै गृहाः ।
किं पुनर्दर्शनस्पर्शपादशौचासनादिभिः ॥३३॥
सानिध्यात्ते महायोगिन्पातकानि महान्त्यापि ।
सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः ॥३४॥
अपि मे भगवान प्रीतः कृष्णः पाण्डूसुतप्रियः ।
पैतूष्वसेयप्रीत्यर्थं तद्रौत्रस्यात्तबान्धवः ॥३५॥
अन्यथा तेऽव्यक्तगतेदर्शनं नः कथं नृणाम ।
नितरां म्रियमाणानां संसिद्धस्य वनीयसः ॥३६॥
अतः पृच्छमि संसिद्धिं योगिनां परमं गुरुम ।
पुरुशस्येह यत्कार्य म्रियमाणस्य सर्वथा ॥३७॥
यच्छ्रोतव्यमथो जप्यं यत्कर्तव्यं नृभिः प्रभो ।
स्मर्तव्यं भजनीयं वा बुहि यद्वा विपर्ययम ॥३८॥
नुनं भगवतो ब्रह्मान गृहेषु गृहमेधिनाम ।
न लक्ष्यते ह्यावस्थानमपि गोदोहनं क्वचित ॥३९॥
सुत उवाच
एवमाभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा ।
प्रत्यभाषत धर्मज्ञो भगवान बादरायणिः ॥४०॥
इति श्रीमद्भागवते महपुराणे वैयासिक्यामष्टादशासाहस्रहयां पारमहंस्यां संहिताय़ां प्रथमस्कन्धे सुकागमनं नाम एकोनविंशोऽध्यायः ॥१९॥