सुत उवाच
अथ तुं सुखमासीन उपासीनं बृहच्छृवाः ।
देवर्षी प्राह विप्रर्षि वीणापाणिः स्मयन्निव ॥१॥
नारद उवाच
पाराशर्य महाभाग भवतः कच्चिदात्मना ।
परितुष्यति शारीर आत्मा मानस एव वा ॥२॥
जिज्ञासितं सुसम्पन्नमपि ते महदद्भुतम ।
कृतवान भारतं यस्त्वं सर्वार्थपरिबृहितम ॥३॥
जिज्ञासितमधीतं च यत्तद ब्रह्मा सनातनम ।
अथापि शोचस्यत्मनमकृतार्थ इव प्रभो ॥४॥
व्यास उवच अस्त्येव मे सर्वमि त्वयोक्त तथापि नात्मा परितुष्यते मे ।
तन्मुलमव्यक्तमगाधबोधं पृच्छामहेत्वाऽऽत्मभवत्मभूतम ॥५॥
स वै भवान वेद समस्तुगुहा मुपासितो यत्पुरुषः पुराणः ।
परावरेशो मनसैव विश्वं सृजत्यवत्यति गुणैरसंगः ॥६॥
त्वं पर्यटन्नर्क इव त्रिलोकी मन्तश्चरो वायुरिवात्मसाक्षी ।
परावरे ब्रह्माणि धर्मातो व्रतैः स्नातस्त मे न्युमलं विचक्ष्व ॥७॥
भवतानुदितप्रायं यशो भगवतोऽमलम ।
यनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम ॥८॥
यथा धर्मादय श्रचार्था मुनिवर्यानुकीर्तिताः ।
न तथा वासुदेवस्य महिमा ह्नानुवर्णितः ॥९॥
न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित ।
तद्वायसं तीर्थमुशान्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥१०॥
तद्वाग्विसर्गो जनताघविप्लवो यस्मिन प्रतिश्लोकमबद्धवत्यपि ।
नामान्यनन्तस्य यशोऽकिंतानि य च्छृण्वन्ति गायन्ति गृणान्ति साधवः ॥११॥
नैष्कर्म्य प्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरत्र्जनम ।
कुतःपुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम ॥१२॥
अथो महाभाग भवानमोघदृक शुचिश्रवाः सत्यरतो धृतव्रतः ।
उरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम ॥१३॥
ततोऽन्यथा किंचन यद्विवक्षतः पृथग्दुस्तत्कृतरूपनामभिः ।
न कृत्रचित्क्वपि च दुःस्थिता मतिर्लभेत वाताहरनौरिवास्पंदम ॥१४॥
जुगुप्सिंतं धर्मकृतेऽनुशासतः स्वभावरक्तच्य महानु व्यतिक्रमः ।
यद्वाक्यतो धर्म इतीतरः स्थितो न मन्यते तस्य निवारणं जनः ॥१५॥
विचक्षणोऽस्यार्हति वेदितूं विभो रनन्तपारस्य निवृत्तितः सुखम ।
प्रवर्तमानस्य गुणैरनात्मन सततो भवान्दर्शन चेष्टितं विभोः ॥१६॥
त्यक्त्वा स्वधर्म चरणाम्बुजं हरे र्भजन्नपक्कोऽथ पतेत्ततो यदि ।
यत्र क्व वाभद्रमभूदमुष्य किं को वार्थ आत्पोऽभजतां स्वधर्मतः ॥१७॥
तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यदभ्रमतामुपर्यधः ।
तल्लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गंभीररंहसा ॥१८॥
न वै जनो जातु कथंचनाव्रजेन्मुकुन्दसेव्यन्यवदंग संसृतिम ।
स्मरन्मुकुन्दांगघ्रयुपगूहनं पुन र्विहातुमिच्छेन्न रसग्रहो यतः ॥१९॥
इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भवाः ।
तद्धि स्वयं वेद भवांस्तथापि वै प्रादेशमात्रं भवतः प्रदर्शितम ॥२०॥
त्वमात्सनाऽऽत्मानमवेह्यामोघदृक परस्य पुंसः परमात्मन कलाम ।
अजं प्रजातं जगतः शिवाय त न्महानुभावाभ्युदयोऽधिगण्यताम ॥२१॥
इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सुक्तस्य च बुद्धिदत्तयोः ।
अविच्यतोऽर्थ कर्विभिर्निरुपितो यदुत्तमश्लोकगुणानुवर्णनम ॥२२॥
अहं पुरातीतभवेऽभवं मुने दास्यास्तु कस्याश्चन वेदवदिनाम ।
निरूपितो बालक एव योगिनां शुश्रुषन प्रावृषि निर्विविक्षताम ॥२३॥
ते मय्यपेताखिलचापलेऽर्भके दान्तेऽधृतक्रीडनकेऽनुवर्तिनि ।
चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रुषमाणे मुनयोऽल्पभाषिणि ॥२४॥
उच्छिष्टलेपानमनुमोदितो द्विजैः सकृत्स्म भुत्र्जे तदपास्तकिल्बिषः ।
एवं प्रवृत्तस्य विषुद्धचेतसस्तद्धर्म एवात्मरुचिः प्रजायते ॥२५॥
तत्रान्वहं कृष्णाकथाः प्रगायतामनुग्रहेणाश्रृणवं मनोहराः ।
ताः श्रद्धाया मेऽनुपदं विश्रृण्वतः प्रियश्रवस्यगं ममाभद्रुचिः ॥२६॥
तस्मिंस्तदा लब्धरुचेर्महामुने प्रियश्रवस्यस्खलिता मर्तिर्मम ।
ययाहमेतत्सदसत्स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे ॥२७॥
इत्थं शरत्प्रावृषिकावृत हरे र्विश्रृण्वतो मैंऽनुसवं यशोऽमलम ।
संकीर्त्यमानं मुनिभिर्महात्मभि र्भक्तिः प्रवृत्ताऽऽत्मरजस्तमोपहा ॥२८॥
तस्यैव मेऽनुरक्तस्य प्रश्रितस्य हतैनसः ।
श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥२९॥
ज्ञानं गुह्नातमं यत्तत्साक्षाद्भगवतोदितम ।
अन्ववोचन गमिष्यन्तः कृपया दीनवत्सलाः ॥३०॥
येनैवाहं भगवतो वासुदेवस्य वेधसः ।
मायानुभावमविदं येन गच्छन्ति तत्पदम ॥३१॥
एतत्संसूचितं ब्रह्मांस्तापत्रचिकित्सितम ।
यदीश्वरे भगवति कर्म ब्रह्माणि भावितम ॥३२॥
आमयो यश्च भुतानां जायते येन सुव्रत ।
तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम ॥३३॥
एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः ।
त एवत्मविनाशाय कल्पन्ते कल्पिताह परे ॥३४॥
यदत्र क्रियते कर्म भगवत्परितोषणम ।
ज्ञान यत्तदधीनं हि भक्तियोगसमन्वितम ॥३५॥
कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत ।
गृणन्ति गुणनामनि कृष्णस्यानुस्मरन्ति च ॥३६॥
नमो भगवते तुभ्यं वासुदेवाय धीमहि ।
प्रद्युम्नायनिरुद्धाय नमः संकर्षणाय च ॥३७॥
इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम ।
यजते यज्ञपुरुषं स सम्यग्धर्शनः पुमान ॥३८॥
इमं स्वानिगमं ब्रह्मन्नवेत्य मदनुष्ठितम ।
अदान्मे ज्ञानमैश्वर्य स्वस्मिन भावं च केशवः ॥३९॥
त्वमप्यदभ्रश्रुत विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम ।
आख्याहि दुःखैर्मुहुरर्दितात्मनां संक्लेशनिर्वाणमुशन्ति नान्थथा ॥४०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां प्रथमस्कन्धे व्यासनारदसंवादे पंचोमोऽध्यायः ॥५॥