सूत उवाच
आनर्तान स उपव्रज्य स्वृद्धाजंनपदान स्वकान ।
दध्मौ दरवरं तेषां विषादं शमयन्निव ॥१॥
स उच्चकाशे धवलोदरो दरोऽप्युरुक्रमस्याधरशोणशोणिमा ।
दाध्यायमानः करकंजसम्पुटे ज्यथाब्जखण्डे कलहंस उत्स्वनः ॥२॥
तमुपश्रुप्य निनंदं जगद्भयभयावहम ।
प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्श्गनलालसाः ॥३॥
तत्रोपनीतबलयो रवेर्दीपमिवादृताः ।
आत्मारामं पुर्णकामं निजलाभेन नित्यदा ॥४॥
प्रीत्यत्फुल्लमुखाः प्रोचुर्हर्षगद्रदया गिरा ।
पितरं सर्वसुहृदमवितारमिवार्भकाः ॥५॥
नताः स्म ते था सदांघ्रिपंकज विरिज्चवैरिच्यसुरेण्द्रवन्दितम ।
परायणं क्षेममिहेच्छतां परं न यत्र कालः प्रभवेत परः प्रभुः ॥६॥
भवाय नस्त्वं भव विश्वभावन त्वमेव माताथ सुहृत्पतिः पिता ।
त्वं सदगुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभुविम ॥७॥
अहो सनाथा भवता स्म यद्वयं त्रैविष्ठपानामपि दुरदर्शनम ।
प्रेमस्मितस्निग्धनिरीक्षणाननं पश्चेम रुपं तव सर्वसौभगम ॥८॥
यर्हाम्बुजाक्षापससार भो भवान कुरुन मधुन वाथ सुहृद्दीदृक्षया ।
तत्राद्बकोटिप्रतिमः क्षणो भवेद रविं विनाक्ष्णोरिव नस्तवाच्युत ॥९॥
इति चोदीरिता वाचः प्रजानां भक्तवत्सलः ।
श्रृण्वानोऽनुग्रहं दृष्टा वितन्वन प्राविशत्पुरीम ॥१०॥
मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभिः ।
आत्मतुल्यबलैर्गुप्तां नागैर्भोगवतीमिव ॥११॥
सर्वर्तुसर्वविभवपुण्यवृक्षलताश्रमैः ।
उद्यानोपवनारामैर्वृतपद्माकरश्रियम ॥१२॥
गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम ।
चित्रध्वजपताकाग्रैरन्तः प्रतिहतातपाम ॥१३॥
सम्मार्जितमहामार्गरथापणकचत्वराम ।
सिंक्तां गन्धजलैरुप्ता फलपुष्पाक्षतांकुरैः ॥१४॥
द्वारी द्वारि गृहांनां च दध्यक्षतफलेक्षुभिः ।
अलंकृतं पुर्णकुम्भैर्बलिभिर्धूपदीपकैः ॥१५॥
निशम्य प्रेष्ठमायान्तं वसुदेवो महामनाः ।
अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः ॥१६॥
प्रद्युम्रश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः ।
प्रहर्षवेगोच्छशितशयनासनभोजनाः ॥१७॥
वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमंगलै ।
शंखतुर्यनिनादेन ब्रह्माघोषेण चादृताः ।
प्रत्युज्जग्न्मु रथैर्हृष्टाः प्रणयागतसाध्वसाः ॥१८॥
वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुकः ।
लसत्कृन्डनिर्भातकपोलवदनश्रियः ॥१९॥
नटनर्तकगन्धर्वा सूतमागधबन्दिनः ।
गायन्ति चोत्तमश्लोकचारितान्यद्भुतानि च ॥२०॥
भगवांस्तत्र बन्धुनां पौराणामनुवर्तिनम ।
यथाविध्युपसंगम्य सर्वेषां मानमादधे ॥२१॥
प्रह्लाभिवादनाश्लेषकरस्पर्शस्मितेक्षणैः ।
आश्वास्य चाश्वपाकेभ्यो वरैश्चाभिमतैर्विभुः ॥२२॥
स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि ।
आशीर्भिर्युज्यमानोऽन्यैर्बन्दिभिश्चाविशत्पुरम ॥२३॥
राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियाः ।
हर्म्याण्यारुरुहॄर्विप्र तदीक्षनमहोत्सवः ॥२४॥
नित्यं निरीक्षमाणंना यदपि द्वारकौकसाम ।
नैव तृप्यन्ति हि दृशः श्रियोधामांगमच्युतम ॥२५॥
श्रियो निवासो यस्योरः पानपत्रं मुखं दृशाम ।
बाहवो लोकपालानां सारगांणा पदाम्बुजम ॥२६॥
सितातपत्रव्यजनैपस्कृतः प्रसुनवर्षैरभिवर्षितः पथि ।
पिशगंवासा वनमालया बभौ घनो यथार्कोडुपचापवैद्युतैः ॥२७॥
प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः ।
ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा ॥२८॥
ताः पुत्रमंगमारोप्य स्नेहस्न्तुतपायोधराः ।
हर्षविह्वलितात्मानः सिषिचुर्नेत्रजैर्जलैः ॥२९॥
अथाविशत स्वभवनं सर्वकाममनुत्तमम ।
प्रासादा यत्र पत्नीनां सहस्त्राणि च षोडश ॥३०॥
पत्न्यः पतिं प्रोष्य गृहानुपागतं विलोक्य संजातमनोमहोत्सवाः ।
उत्तस्थुरारात सहसऽऽसनाशयात साकं व्रतैर्व्रीडितलोचनाननाः ॥३१॥
तमात्मजैर्दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम ।
निरुद्धमप्यास्त्रवदम्भु नेत्रयो र्विलज्जतीनां भृगृवर्य वैक्लवात ॥३२॥
यद्यप्यसौ पार्श्वगतो रहोगतस्तथापि तस्यांघियुगं नवं नवम ।
पदे पदे का विरमेत तत्पदा च्चलपि यच्छ्रीर्न जहाति कर्हिचित ॥३३॥
एवं नृपाणां क्षितिभारजन्मना मक्षौहिणीभिः परिवृत्ततेजसाम ।
विधाय वैर श्वसनो यथानलं मिथो वधेनोपरतो निरायुधः ॥३४॥
स एष नरलोकेऽस्मिन्निवतीर्णः स्वमायया ।
रेमे स्त्रीरत्नकूटस्थो भगवान प्राकृतो यथा ॥३५॥
उद्दमभवापिशुनामकलल्गुहास वीडावलोमनिहतो मदनोऽपि यासाम ।
सम्मुहा चापमजाअत्प्रमदोत्तमास्ता यस्येन्द्रियं विमथितूं कुहकैर्न शेकुः ॥३६॥
तमयं मन्यते लोको ह्र्यासंगमपि संगिनम ।
आत्म्यौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः ॥३७॥
एतदीशनमीशस्य प्रकृतिस्थोऽपि तदगुणैः ।
न युज्यते सदाऽऽत्मस्थैर्यथा बुद्धीस्तदाश्रया ॥३८॥
तं मेनिरेऽबला मुढाः स्त्रैण चानुव्रतं रहः ।
अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥३९॥
इति श्रीमद्धागवते महापुराणे पारमहंस्या संहितांया प्रथमस्कन्धे नैमिषीयोपाख्याने कृष्णद्वारकाप्रवेशो नामैकादशोऽध्यायः ॥११॥