सुत उवाच
ततः परीक्षिदु द्विजवर्यशिक्षया महीं महाभागवतः शशास ह ।
यथा हि सूत्यामभिजातकोविदाः समादिशन विप्र महद्रुणस्तथा ॥१॥
स उत्तरस्य तनयामुपयेम इरावतीम ।
जनमेजयादींश्चतूरस्तस्यामुप्तादयत सुतान ॥२॥
आजहाराश्वमेधांस्त्रीन गंगायां भुरिदक्षिणान ।
शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः ॥३॥
निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित ।
नृपलिंगधरं शुद्रं घ्रन्तं गोमिथूनं पदा ॥४॥
शौनक उवाच
कस्य हेतोर्निजग्राह कलिं द्विग्विजये नूपः ।
नृदेवचिन्हधृक शुद्रः कोऽसौगायः पदाहनत ।
तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम ॥५॥
अथवास्य पदाम्भोजमकरन्दलिहं सताम ।
किमन्यैरसदालापैरायुषो यदसदव्ययः ॥६॥
क्षुद्रायुषां नृणामंगः मर्त्यानामृतामिच्छताम ।
इहोपहूतो भगवान मृत्युः शामित्रकर्मणि ॥७॥
न कश्चिम्न्रियते तावद यावदास्त इहान्तकः ।
एतदर्भ हि भगवानाहुतः परमर्षिभिः ।
अहो नृलोके पीयेत हरिलीलामृतं वचः ॥८॥
मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै ।
निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः ॥९॥
सूत उवाच
यदा परीक्षित कुरुजांगलेऽवसत कलिं प्रविष्टं निजचक्रवर्तिते ।
निशम्य वार्तामनातिप्रयां ततः शरासनं संयुगशौण्डिराददे ॥१०॥
स्वलंकॄतं श्यामतूरंगयोजितं रथं मृगेन्द्रध्वजमाश्रितः पुरात ।
वृतो रथाश्वद्विपपत्त्तियुक्तया स्वसेनया दिग्विजयय निर्गतः ॥११॥
भद्राश्चं केतूमालं च भारतं चोत्तरान कुरुन ।
किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम ॥१२॥
तत्र तत्रोपशृण्वानः स्वपूर्णषं महात्मनाम ।
प्रगीयमाणं च यशः कृष्णामाहात्म्यसुचकम ॥१३॥
आत्मानं च परित्रातमश्वत्थाम्रोऽस्रतेजसः ।
स्नेहं च वृष्णिपार्थांना तेषां भक्तिं च केशवे ॥१४॥
तेभ्यः परमसंतूष्टः प्रीत्युज्जृम्भितलोचनः ।
महाधनानि वासंसि ददौ हारान महामनाः ॥१५॥
सारथ्यपारषदसेवनसख्यदौत्य वीरासनानुगमन्स्तवनप्रणामान ।
स्निग्धेषु पाण्डूषु जगत्प्रणतिं च विष्णो र्भक्तिं करोति नृपतिश्चरणारविन्दे ॥१६॥
तस्यैवं वर्तमानस्य पुर्वेषां वृत्तिमन्वहम ।
नातिदूरे किलाश्चर्य यदासीत तन्निबोध मे ॥१७॥
धर्मः पदैकेन चरन विच्छायामुइपलभ्य गाम ।
पृच्छति स्माश्रुवदनां विवत्सामिव मातरम ॥१८॥
धर्म उवाच
कच्चिद्भद्रेऽनामयमात्मनस्ते विच्छायासि म्लायतेषन्मुखेन ।
आलक्षये भवतेमन्तराधिं दुरे बन्धुं शोचसि कत्र्चानाम्ब ॥१९॥
पादैर्न्युनं शोचासि मैकपाद मात्मानं वा वृषलैर्भोक्ष्यमाणम ।
आहो सुरादीन हृतयज्ञभागान प्रजा उतस्विन्मघवत्यवर्षति ॥२०॥
अरक्ष्यमाणाः स्त्रिय उर्वि बालान शोचस्यथो पुरुषादैरिवार्तान ।
वाचं देवीं ब्रह्माकुले कुकर्म ण्य़ब्रह्मण्ये राजकुले कुलाग्रयान ॥२१॥
किं क्षत्रबन्धुन कलिनोपसॄष्टान राष्ट्राणि वा तैरवरोपितानि ।
इतस्ततो वाशनपानवास स्नानव्यवायोन्मुखजेवलोकम ॥२२॥
यद्वाम्ब ते भुरिभरावतार कृतवतारस्य हरेर्धरित्रि ।
अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानि ॥२३॥
इदं ममाचक्ष्व तवाधिमुलं वसुन्धरे येन विकर्शितासि ।
कालेन वा ते बलिना बलियसा सुरर्चितं किं हृतमम्ब सौभगम ॥२४॥
धरण्युवाच
भवानु हि वेद तत्सर्व यन्मां धर्मानुपृच्छसि ।
चतूर्भ्रिर्वर्तसे येन पादैर्लोकसुखावहैः ॥२५॥
सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम ।
शमो दमस्तपः साम्य तितिक्षोपरतिः श्रुतम ॥२६॥
ज्ञानं विरक्तिरैश्वर्यं शौर्य तेजो बलं स्मृतिः ।
स्वातंन्त्र्य कौशल कान्तिधैर्य मार्दवमेव च ॥२७॥
प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।
गाम्भीर्य स्थैर्यमासिक्यं कीर्तिर्मानोऽनहंकृतिः ॥२८॥
एते चान्ये च भगवन्नित्या यत्र महागुणाः ।
प्रार्थ्या महत्वमिच्छद्भ्र्न वियन्ति स्म कर्हिचित ॥२९॥
तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम ।
शोचामि रहितं लोकं पाप्मना कलिनेक्षितम ॥३०॥
आत्मानं चानुशोचामि भवन्तं चामरोत्तमम ।
देवान पितृनृषीन साधुन सर्वान वर्णास्तथाश्रमान ॥३१॥
ब्रह्मादयो बहुतिषो यदपांगमोक्ष कामास्तपः समचरन भगात्प्रपन्नाः ।
सा श्रीः स्ववासमरविन्दवन विहाय यत्पादसौभगमलं भजतेऽनुरक्ता ॥३२॥
तस्याहमब्जकुलिशांगकुशकेतूकेतैः श्रीमत्पदैर्भगवतः समलंकृतांगी ।
त्रीनत्यरोच उपलभ्य ततो विभूतिं लोकान स मां व्यसृजदुत्स्मयंतीं तदन्ते ॥३३॥
यो वै ममातिभरमासुरांशराज्ञा मक्षौहिणीशतमपानुददात्मतन्त्रः ।
त्वां दुःस्थमुनपदमात्मनि पौरुषैण सम्पादयन यदुषु रम्यमबिभ्रदंगम ॥३४॥
का वा सहेत विरहं पुरुषोत्तमस्य प्रमावलोकरुचिरस्मितवल्गुजल्पैः ।
स्थैर्य समानमहरन्मधुमानिनीनां रोमोत्सवो मम यदंघ्रिविटिकिंतायाः ॥३५॥
पयोरेवं कथयतोः पृथिवीधर्मयोस्तद ।
परिक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् ॥३६॥
इति श्रीमद्भगवते महापुराणे पारमहंस्या संहितायं प्रथमस्कन्धे पाण्डवस्वर्गाहणं नाम षोडशोऽध्यायः ॥१५॥