सुत उवाच
विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम ।
ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सितः ॥१॥
यावतः कृतवान प्रश्नान क्षत्ता कौषारवाग्रतः ।
जातैकभाक्तिर्गोविन्दे तेभ्यश्चोपरराम ह ॥२॥
तं बन्धुमागतं दृष्टा धर्मपुत्रः सहानुजः ।
धृतरष्ट्रो युयुत्सुश्च सुतः शारद्वतः पृथा ॥३॥
गान्धारी द्रौपदी ब्रह्मन सुभद्रा चोत्तरा कृपी ।
अन्याश्च जामय्ह पाण्डोर्ज्ञातयः ससुताः स्त्रियाः ॥४॥
प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम ।
अभिसंगम्य विधिवत परिष्वंगाभिवादनैः ॥५॥
मुमुचुः प्रेमबाष्पौघं विरहौत्कण्ठ्यकातराः ।
राजा तमर्हयांचक्रे कृतासनपरिग्रहम ॥६॥
तं भुक्तवन्तं विश्वान्तमासीनं सुखमासने ।
प्रश्रयावनतो राजा प्राह तेषां च श्रुण्वताम ॥७॥
युधिष्ठिर उवाच
अपि स्मरथ नो युष्मत्पक्षच्छयासमेधितान ।
विपद्गणाद्विषाग्न्यादेर्मोचिता यत्समातृकाः ॥८॥
कयावृत्या वर्तितां वचरिद्धिअः क्षितिमण्डलम ।
तीर्थानि क्षेत्रामुख्यानि सेवितानीह भुतले ॥९॥
भवद्विधा भागवतास्तीर्थभुताः स्वयं विभो ।
तीर्थोकुर्वन्ति तीर्थानि स्वान्तः स्थेन गदाभृता ॥१०॥
अपिनः सुहृदस्तात बान्धवाः कृष्णदेवता ।
दृष्टाः श्रुता वा यादवः स्वपुर्यां सुखमसते ॥११॥
इत्युक्तो धर्मराजेन सर्वं तत समवर्णयत ।
यथानुभूतं क्रमशो विना यदुकुलक्षयम ॥१२॥
नन्वप्रियं दुर्विषहं नृणां स्वयमुपस्थितम ।
नावेदयत सकरुणो दुःखितान द्रष्टुमक्षमः ॥१३॥
कंचित्कालमथावात्सीत्सत्कृतो देववत्सुखम ।
भ्रातूर्ज्येष्ठस्य श्रेयस्कृत्सर्वेषां प्रीतिमावहन ॥१४॥
अबिभ्रदार्यमा दण्डं यथावदघकारिषु ।
यावद्दधार शूद्रत्वं शापाद्वर्षशतं यमः ॥१५॥
युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलंधरम ।
भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया ॥१६॥
एवं गृहेषु सत्कांना प्रमत्तानां तदीहया ।
अत्यक्रामदविज्ञातः कालः परमदुस्तरः ॥१७॥
विदुरस्तदभिप्रेत्य धृतराष्ट्रमभाषत ।
राजन्निर्गम्यतां शीघ्र पश्येदं भयमागतम ॥१८॥
प्रतिक्रिया न यस्येह कूतश्चित्कर्हिचिप्रभो ॥
स एव भगवान कालः सर्वेषां नः समागतः ॥१९॥
येन चैवाभिपन्नोऽयं प्राणैः प्रियतमैरपि ।
जन सद्या वियुज्येत किमुतान्यैर्धानादिभिः ॥२०॥
पितृभ्रातृसुहृप्त्पुत्रा हतास्ते विगतं वयः ।
आत्मा च जरया ग्रस्तः परगिहमुपाससे ॥२१॥
अहो महीयसी जन्तोर्जीविताशा यया भवान ।
भीमापवर्जितं पिण्डमादत्ते गृहपालवत ॥२२॥
अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दुषिताः ।
हृतं क्षेत्रं धनं येषां तद्दतैरसुभिः कियत ॥२३॥
तस्यापि तव देहोऽयं कॄपणस्य जिजीविषोः ।
परईत्यनिच्छते जीर्णो जरया वाससी इव ॥२४॥
गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धन ।
अविज्ञातगतिह्यात स वै धीर उद्दहृतः ॥२५॥
यः स्वकात्परतो वेह जातनिर्वेद आत्मवाद ।
हृदि कृत्वा हरिं गेहात्प्रव्रजेत्स नरोत्तमः ॥२६॥
अथोदीचीं दिशं यातू स्वैरज्ञातगतिर्भवान ।
इतोऽर्वाक्य्प्रायशः कालः पुंसां गूणाविकर्षणः ॥२७॥
एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित आजमीढ ।
छित्वा स्वेषु स्नेहपाशान्द्रढिम्नो निश्चक्राम भ्रातृसंदर्शिताध्व ॥२८॥
पतिं प्रयान्तं सुबसस्य पुत्री पतिव्रता चनुजगाम साध्वी ।
हिमालयं न्यस्तदण्डप्रहर्षं मनस्विनामिव सत्यम्प्रहारः ॥२९॥
अजातशत्रुः कृतमैत्रो हुताग्निर्विप्रान नत्वा तिलगोभुमिरुक्मैः ।
गृहं प्रविष्टो गुरुवन्दनाय न चापश्यत्पितरौ सौबलीं च ॥३०॥
तत्र सत्र्जयमासीनं पप्रच्छोद्विग्रमानसः ।
गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः ॥३१॥
अम्बा च हतपुत्राऽऽर्ता पितृव्यः क्व गत सुहृत ।
अपि मय्यक्रुतप्रज्ञे हतबन्धुः स भार्यया ।
आशंसमानः शमलं गंगायां दुःखितोऽपतत ॥३२॥
पितर्युपरते पाण्डौ सर्वात्रः सृहृदः शिशुन ।
अरक्षनं व्यसनतः पितृव्यौ क्व गतावितः ॥३३॥
सूत उवच
कृपया स्नेहवैक्लव्यात्सुतो विरहकर्शितः ।
आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडितः ॥३४॥
विमृज्याश्रुणि पाणिभ्याविष्टभ्यात्मानमात्माना ।
अजातशत्रुप्रत्युचे प्रभो पादावनुस्मरनः ॥३५॥
संजय उवाच
नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन ।
गान्धार्या वा महाबाहो मुषितोऽस्मि महात्मभिः ॥३६॥
अथाजगाम भगवान नारदः सहतूम्बुरुः ।
प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन्निव ॥३७॥
युधिष्ठिर उवाच
नाहं वेद गतिं पित्रोर्भगवन क्व गतावितः ।
अम्बा वा हतपुत्राऽऽर्ताक्वगता च तपस्विनी ॥३८॥
कर्णधार इवापारे भगवान पारदर्शकः ।
अथाबभाषे भगवान नारदो मुनिसत्तमः ॥३९॥
मा कांचन शुचो राजन यदीश्वरवशं जगत ।
लोकाः सपाला यस्मेमे वहन्ति बलिमीशितूः ।
स संयुनक्ति भूतानि स एव वियुनक्ति च ॥४०॥
यथा गावो प्रोतास्तन्त्यांन्त्यां बद्धाः स्वदामभिः ।
वाक्तन्त्यां नामाभिर्बद्धा वहन्ति बलिमीशितूः ॥४१॥
यथा क्रीडोपस्कराणां संयोगविगमाविह ।
इच्छया क्रीडितूः स्यातां तथैवेशेच्छयानृणाम ॥४२॥
यन्मन्यसे ध्रुवंलोकमध्रुवं वा न चोभयम ।
सर्वथा न हि शोच्यस्ते सेनहादन्यत्र मोहजात ॥४३॥
तस्याज्जहांगः वैक्यव्यमज्ञानकृतमात्मनः ।
कथं त्वनाथाः कृपणा वर्तेरस्ते च मां विना ॥४४॥
कालकर्मगुणाधीनो देहोऽयुअं पांचभौतिकः ।
कथमन्यांस्तू गोपायेत्सर्पग्रस्तो यथा परम ॥४५॥
अहस्तानि सहस्तानामपदानि चतूष्पदाम ।
फल्गुनि तत्र महतां जीवो जीवस्य जीवनम ॥४६॥
तदिदं भगवान राजन्नेक आत्माऽऽत्मनां स्वदृक ।
अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा ॥४७॥
सोऽयमद्या महाराज भगवान भूतभावनः ।
कालरूपोऽवतीर्णोऽस्यामभवाय सुरद्विषाम ॥४८॥
निष्पादितं देवकृत्यमवशेषं प्रतीक्षते ।
तावद युयमवेक्षध्वं भवेद यावदिहेश्वरः ॥४९॥
धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया ।
दक्षिणेन हिमवत ऋषीणामाश्रमं गतः ॥५०॥
स्त्रोताभिः सत्पभिर्या वै स्वर्धुनी सप्तमा व्याधात ।
सप्तानां प्रीतये नाना सप्तस्त्रोतः प्रचक्षते ॥५१॥
स्नात्वानुसवनं तस्मिन्हुत्वा चाग्नीन्यथाविधि ।
अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः ॥५२॥
जितासनो जितश्वासः प्रत्याहृतषडिन्दियः ।
हरिभावनया ध्वस्तरजः सत्त्वतमोमलः ॥५३॥
विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविल्याप्य तम ।
ब्रह्माण्यात्माज्नमाधारे घटाम्बरमिवाम्बरे ॥५४॥
ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः ।
निवर्तिताखिलाहार आस्ते स्थाणूरिवाचलः ।
तस्यान्तरायो मैवाभुः संन्यस्ताख्लकर्मणः ॥५५॥
स वा अद्यतनाद राजन परतः पंचज्मेऽहनि ।
कलेवर हास्याति स्वं तच्च भस्मीभविष्यति ॥५६॥
दह्यामानेऽग्निभेर्देहे पत्युः पत्नी सहोटजे ।
बहिः स्थिता पंतिं साध्वी तमग्निमनुवेक्षयति ॥५७॥
विदुरस्तू तदाश्चर्य निशाम्य कुरुनन्दन ।
हर्षशोकयुतस्तस्माद गन्ता तीर्थनिषेवकः ॥५८॥
इत्युक्त्वाथारुहत स्वर्गं नारदः सहतूम्बुरुः ।
युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुचः ॥५९॥
इति श्रीमद्द्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्घे नैमिषीयोपाख्याने त्रयोदशोऽध्यायः ॥१३॥