सूत उवाच
जगृहे पौरुषं रूपं भगवान्महदादिभिः ।
सम्भुतं षोडशकलमादौ लोकसिसृक्षया ॥१॥
यस्याम्भासि शयानस्य योगनिद्रां वितन्वतः ।
नाभिहृअदाम्बुदसीदब्रह्मा विश्वसृजां पतिः ॥२॥
यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः ।
तद्वै भगवतो रूपं विशुद्धं सत्वमूर्जितम ॥३॥
पश्यन्त्यदो रूपमदभ्रचक्षुषा सहस्त्रपादोरुभुजाननाद्भुतम ।
सहस्त्रमुर्धश्रवनाक्षिनासिकं सहस्त्रमौल्यम्बरकुण्डलोल्लसत ॥४॥
एतन्नानावताराणां निधानं बीजमव्ययम ।
यस्यांशांशेन सृज्यन्ते देवतिर्यंडनरादयः ॥५॥
स एव प्रथमं देवः कौमारं सर्गमास्थितः ।
चचार दृश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम ॥६॥
द्वितीय तु भवायास्य रसातलगतां महीम ।
उद्धरीष्यन्नुपादत्त यज्ञेशः सौकरं वपुः ॥७॥
तृतीयमृषिसर्ग च देवर्षित्वमुपेत्य सः ।
तन्त्रं सात्वतमाचष्ट नैष्कर्म्य कर्मणां यतः ॥८॥
तुर्ये धर्मकलासर्गे नरनारायणावृषी ।
भूत्वाऽऽत्मोपशमोपेतमकरोद दुश्चरं तपः ॥९॥
पंचमः कपिलोनाम सिद्धेशः कालविप्लुतम ।
प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम ॥१०॥
षष्ठे अत्रेरपत्यत्वं वृतः प्राप्तोऽनसुयया ।
आन्वीक्षिकीमलकार्य प्रह्लादादिभ्य ऊचिवान ॥११॥
ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्याजायत ।
स यामाद्यैः सुरगणैरपात्स्वायम्भुवान्तरम ॥१२॥
अष्टमे मेरुदेव्यों तु नाभेर्जात उरुक्रमः ।
दर्शनम वर्त्म धीरांणां सर्वाश्रमनमस्कृतम ॥१३॥
ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ।
दुग्धेमामोषर्विप्रास्तेनाय स उशत्तमः ॥१४॥
रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे ।
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम ॥१५॥
सुरासुराणामुदधिं मथ्नतां मन्दराचलम ।
दध्रे कमठरुपेण पृष्ठ एकादशे विभुः ॥१६॥
धान्वन्तरं द्वादशमं त्रयोदशममेव च ।
अपाययत्सुरानन्यान्मोहिन्या मोहयन स्त्रिया ॥१७॥
चतुर्दशं नारसिंह बिभ्रदैत्येन्द्रमूर्जितम ।
ददार करजैर्वक्षस्येरकां कटकृद्यथा । \१८॥
पंचदशं वामनकं कृत्वागादध्वरं बलेः ।
पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम ॥१९॥
अवतारे षोडशमे पश्यन ब्रह्माद्रुहो नृपान ।
त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम ॥२०॥
ततः सप्तदेश जातः सत्यवत्यां पराशरात ।
चक्रे वेदतरोः शाखा दृष्टा पुंसोऽल्पमेधसः ॥२१॥
नरदेवत्वमापन्नः सुरकार्यचिकीर्षया ।
समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम ॥२२॥
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।
रामकृष्णाविति भुवो भगवानहरद्भरम ॥२३॥
ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम ।
बुद्धो नाम्नाजनसुतः कीकटेषु भविष्यति ॥२४॥
अथासौ युगसंध्यायां दस्युप्रायेषु राजसुः ।
जनिता विष्णुयशसो नाम्रा कल्किर्जगत्पतिः ॥२५॥
अवतार ह्यासंख्येया हरेः सत्त्वनिधेर्द्विजाः ।
यथाविदासिनः कुल्याःसरसः स्युः सहस्त्रशः ॥२६॥
ऋषयो मनवो देवा मनुपुत्रा महौजसः ।
कलः सर्वे हरेरेव सप्रजापतयस्तथा ॥२७॥
एते चांशकलाः पुंस कृष्णस्तु भगवान स्वयम ।
इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥२८॥
जन्मगुन्हां भगवतो व एतत्प्रयतो नरः ।
सायंप्रातर्गृणन भक्त्य दुःखग्रामाद्विमुच्यते ॥२९॥
एतद्रूपं भगवातो ह्रारूपस्य चिदात्मनः ।
मायागुणैर्विरचितं महदादिभिरात्मनिः ॥३०॥
यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले ।
एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः ॥३१॥
अतः परं यदव्यक्तमव्युढगुणव्यूहितम ।
अदृष्टाश्रुतास्तुत्वात्स जीवो यत्पुनर्भवः ॥३२॥
यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा ।
अविद्यायऽऽत्मनि कृते इति तदब्रह्मदर्शनम ॥३३॥
यद्येषोपरता देवी माया वैशारदी मतिः ।
सम्प्रन्न एवेति विदुर्महिम्नि स्वे महीयते ॥३४॥
एवं जन्मानि कर्माणि ह्याकार्तुरजनस्य च ।
वर्णयन्ति स्म कवयो वेदगुह्नानि हृत्पतेः ॥३५॥
स वा इदं विश्वममोघलीलः सृजत्यवत्यत्ति न सज्जतेऽस्मिन ।
भुतेषु चान्तर्हित आत्मतन्त्रः षाडवर्गिकं जिघ्रति षडगुणेशः ॥३६॥
न चास कश्चिन्निपुणेन धातु रवैति जन्तुः कुमनीष ऊतीः ।
नामनिरूपाणि मनोवचोभिः सन्तन्वतो नटचर्यामिवाज्ञः ॥३७॥
स वेद धातुः पदवीं परस्य दुरन्तवीर्यस्य रथांगपाणेः ।
योऽमायया संततयानुवृत्या भजेत तत्पादसरोजगन्धम ॥३८॥
अथेह धन्या भगवन्त इत्थं यद्वासुदेवऽखिललोकनाथे ।
कुर्वन्ति सर्वात्मकमात्मभावं न यत्रभुयः परिवर्त उग्रः ॥३९॥
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम ।
उत्तमश्लोकचरितं चकार भगवानृषिः ॥४०॥
निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत ।
तदिदं ग्राह्यामास सुतमात्मवतां वरम ॥४१॥
सर्ववेदेतिहासानां सारं सारं समृदधृतम ।
स तु संश्रावयामास महाराज परीक्षितम ॥४२॥
प्रायोपविष्टं गंगायां परितं परमार्षिभिः ।
कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह ॥४३॥
कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः ।
तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः ॥४४॥
अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात ।
सोऽहं वः श्रावयिष्यामि यथाधीतं यथामति ॥४५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने तृतीयोऽध्यायः ॥३॥