आचार्य : कश्चिद्विप्रो वा यजमानानुज्ञया ह्स्ते जलं गृहीत्वा । अस्मिन्कुण्डे (यजमानानुज्ञया) पञ्चभूसंस्कारपूर्वकम् अग्निप्रतिष्ठां करिष्ये । इति संकल्प्य दक्षिणहस्ते दर्भपुञ्जं गृहित्वोत्थाय दक्षिणत आरभोदक्संस्थं पश्चिमत: प्रागन्तं त्रिवारं परिसमूहनं कुर्यात् । तद्यथा । दर्भै: परिसमूहय परिसमूहय परिसमूहय । एवं परिसमूहनं विधाय कुण्डाद्बहि: पूर्वस्यामीशान्यां वा दर्भत्यागं कुर्यात् । ततो दक्षिणहस्तेन गोमयमादाय पूर्ववत् दक्षिणत आरभ्योदक्संस्थं पश्चिमत: प्रागन्तं गोमयेनोपलिंपेत् ॥ तद्यथा । गोमयेन उपलिप्य उपलिप्य उपलिप्य । एवं त्रिवारम् उपलेपनं कृत्वा हस्तं प्रक्षाल्य दक्षिणहस्तेन स्रुवमादाय पूर्ववद्दक्षिणत
आरभ्य्होदक्संस्थं पश्चिमत: प्रागन्तं स्रवमूलेन त्रिरुल्लेखनं कुर्यात् ॥ तद्यथा । सुरवमूलेन उल्लिख्य उल्लिख्य उल्लिख्य । एवं त्रिवारमुल्लेखनं कृत्वाऽनामिकाङगुष्ठेन पूर्ववत् कुण्डत: पांसूनामुद्धरणं विदध्यात् । तद्यथा । अनामिकाङ्गुष्ठेन उद्धृत्य उद्धृत्य उद्धृत्य । एवं त्रिवारम् अभ्युक्षणं कुर्यात् ॥ तद्यथा । उदकेन अभ्युक्ष्य अभ्युक्ष्य अभ्युक्ष्य । ततोऽग्निं स्थापयेत् । बहुपशोर्वैश्यस्य गृहात् श्रोत्रियागारात् सूर्यकान्तसम्भूतात् स्वकीयगृहाद्वा सुवासिन्या स्त्रिया आनीतं निर्धूमम् अन्यताम्रादिपात्रेणाच्छादितम् अग्निं कुण्डस्य आग्नेय्यां दिशि निधाय आच्छादितं पात्रम् उद्घाटय “हुं फट” इति क्रव्यादांशम् अग्निं नैऋत्यां दिशि परित्यज्य अग्निं कुण्डस्य उपरि त्रिवारं भ्रामयित्वा । ॐ अग्निं दूतं पुरो दधे हव्यवाहमुप ब्रुवे । देवाँ २ आ सादयादिह ॥ मन्त्रं पठन् कुण्डे स्वात्मामिमुखं शातमङ्गलनामानम् अग्निं स्थापयेत् ॥ ततोऽग्न्यानीतपाते साक्षतोदकं निषिच्य तत्र शिष्टाचाराक्तिञ्चद्यथाशाक्ति हिरण्यं रौप्यद्रव्यं वा निक्षिप्य तत् द्रव्यं यजमानपत्न्यै दद्यात् । ततोऽग्नौ आवाहनादिमुद्रा: प्रदर्शयेत् ॥ भो अग्ने त्वम् आवाहितो भव । भो अग्ने त्वं संन्निरुद्धो भव ।भो अग्ने त्वं सकलीकृतो भव ॥ भो अग्ने त्वग् अवगुण्टितो भव । भो अग्ने त्वम् अमृतीकृतो भव । भो अग्ने त्वं परमीकृतो भव ॥ इति ता: ता: मुद्रा: प्रदर्श्य । अग्निम् इन्धनप्रक्षेपेण प्रज्वलितं कृत्वा करसम्पुटौ विधाय अग्निध्यानं कुर्यात्
ॐ चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।
त्रिधा बद्धो वृषभो रोरवितिमहो देवो मर्त्या २ आ विवेश ॥
रुद्रतेज: समुद्भूतं द्विमूर्धानं द्विनासिकम् । षण्णेत्रं च चतु:श्रोत्रं त्रिपादं सप्तहस्तकम् ॥१॥ याम्यमागे चतुर्हस्तं सव्यभागे त्रिहस्तकम् । स्रुवं स्रुचञ्च शाक्तिञ्च हयक्षमालाञ्च दक्षिणे ॥२॥ तोमरं व्यजनं चैव घृतपात्रञ्च वामके । बिभ्रतं सप्ताभिर्हस्तैर्द्विमुखं सप्तजिव्हाकम् ॥३॥ याम्यायने चतुर्जिव्हं त्रिजिव्हं चोत्तरे मुखम् । द्वादशकोट्मूर्ताख्यं द्विपञ्चाशत्कलायुतम् ॥४॥
आत्माभिमुखामासीनं धायेच्चैवम हुताशनम् ॥ गोत्रमग्नेस्तु शाण्डिल्यं शाण्डिल्यासितदेवला: ॥५॥ त्रयोऽमी प्रवरा माता त्वरणी वरुण: पिता । रक्तमाल्याम्बरधरं रक्तपद्यासनस्थितम् ॥६॥ स्वाहास्वधावषटकारैरङ्कितं मेषवाहनम् । शातमङलनामानं वहिरमावाहयाम्यहम् ॥७॥ त्वं मुखं सर्वदेवानां सप्तार्चिरमितद्युते । आगच्छ भगवन्नग्ने कुण्डेऽस्मिन्सन्निधो भव ॥८॥ भोवैश्वानर शाण्डिल्यगोत्र शाण्डिल्यासितदेवलेतित्रिप्रवरान्वित भूमिमात: वरुणपित: ललाटजिव्ह मेषध्वज प्राङमुख मम सम्मुखो भव ॥ इति ध्यत्वा हस्तेऽक्षतान् गृहीत्वाऽवाहयेत् । तद्यथा । ॐ मनोजूतिर्जु० ॥९॥ ॐ शात्मङगलनामाग्ने सुप्रतिष्ठितो वरदो भव ॥ ततो गन्धाक्षतपुष्पाण्यादाय पूजनं कुर्यात् । ॐ भूर्भुव: स्व: शतमङ्गलनाम्ने वैश्वानराय नम: सर्वोपचारार्थे गन्धाक्षतपुष्पाणि सम० । इति कुण्डस्य नैऋत्यकोणे मध्ये वा अग्निं सम्पूज्य प्रार्थयेत् ॥ अग्निं प्रज्वलितं वन्दे जातवेदं हुताशानम् । हिरण्यवर्णममलं समिद्धं विश्वतोमुखम् ॥ इति अग्निप्रतिष्ठापनम् ॥
N/A
References : N/A
Last Updated : May 24, 2018
TOP