ऐहिकामुष्मिकार्थेषु ह्यनित्यत्वेन निश्चयात् ।
नैःस्पृह्यं तुच्छबुद्ध्या यत्तद्वैराग्यमितीर्यते ॥२२॥
नित्यानित्यपदार्थविवेकात्पुरुषस्य जायते सद्यः ।
स्रक्चन्दनवनितादौ सर्वत्रानित्यवस्तुनि विरक्तिः ॥२३॥
काकस्यविष्ठावदसह्यबुद्धिर्भोग्येषु सा तीव्रविरक्तिरिष्यते ।
विरक्तितीव्रत्वनिदानमाहुर्भोग्येषु दोषेक्षणमेव सन्तः ॥२४॥
प्रदृश्यते वस्तुनि यत्र दोषो न तत्र पुंसोऽस्ति पुनः प्रवृत्तिः ।
अन्तर्महारोगवतीं विजानन्को नाम वेश्यामपि रूपिणीं व्रजेत् ॥२५॥
अत्रापि चान्यत्र च विद्यमानपदार्थसंमर्शनमेव कार्यम् ।
यथाप्रकारार्थगुणाभिमर्षनं सन्दर्शयत्येव तदीयदोषम् ॥२६॥
कुक्षौ स्वमातुर्मलमूत्रमध्ये स्थितिं तदा विट्कृमिदंशनं च ।
तदीयकौक्षेयकवह्निदाहं विचार्य को वा विरतिं न याति ॥२७॥
स्वकीयविण्मूत्रविसर्जनं तच्चोत्तानगत्या शयनं तदा यत् ।
बालग्रहाद्याहतिभाक्च शैशवं विचार्य को वा विरतिं न याति ॥२८॥
स्वीयैः परैस्ताडनमज्ञभावमत्यन्तचापल्यमसत्क्रियां च ।
कुमारभावे प्रतिषिद्धवृत्तिं विचार्य को वा विरतिं न याति ॥२९॥
मदोद्धतिं मान्यतिरस्कृतिं च कामातुरत्वं समयातिलङ्घनम् ।
तां तां युक्त्वोदितदुष्टचेष्टां विचार्य को वा विरतिं न याति ॥३०॥
विरूपतां सर्वजनादवज्ञां सर्वत्र दैन्यं निजबुद्धिहैन्यम् ।
वृद्धत्वसंभावितदुर्दशां तां विचार्य को वा विरतिं न याति ॥३१॥
पित्तज्वरार्शःक्षयगुल्मशूलश्लेष्मादिरोगोदिततीव्रदुःखम् ।
दुर्गन्धमस्वास्थ्यमनूनचिन्तां विचार्य को वा विरतिं न याति ॥३२॥
यमावलोकोदितभीतिकम्पमर्मव्यथोच्छ्वासगतीश्च वेदनाम् ।
प्राणप्रयाणे परिदृश्यमानां विचार्य को वा विरतिं न याति ॥३३॥
अङ्गारनद्यां तपने च कुम्भीपाकेऽपि वीच्यामसिपत्रकानने ।
दूतैर्यमस्य क्रियमाणबाधां विचार्य को वा विरतिं न याति ॥३४॥
पुण्यक्षये पुण्यकृतो नभःस्थैर्निपात्यमानान्शिथिलीकृताङ्गान् ।
नक्षत्ररूपेण दिवश्च्युतंस्तान्विचार्य को वा विरतिं न याति ॥३५॥
वाय्वर्कवह्नीन्द्रमुखान्सुरेन्द्रानीशोग्रभीत्या ग्रथितान्तरङ्गान् ।
विपक्षलोकैः परिदूयमानन्विचार्य को वा विरतिं न याति ॥३६॥
श्रुत्या निरुक्तं सुखतारतम्यं ब्रह्मान्तमारभ्य महीमहेशम् ।
औपाधिकं तत्तु न वास्तवं चेदालोच्य को वा विरतिं न याति ॥३७॥
सालोक्यसामीप्यसरूपतादिभेदस्तु सत्कर्मविशेषसिद्धः ।
न कर्मसिद्धस्य तु नित्यतेति विचार्य को वा विरतिं न याति ॥३८॥
यत्रास्ति लोके गतितारतम्यमुच्चावचत्वान्वितमत्र तत्कृतम् ।
यथेह तद्वत्खलु दुःखमस्तीत्यालोच्य को वा विरतिं न याति ॥३९॥
को नाम लोके पुरुषो विवेकी विनश्वरे तुच्छसुखे गृहादौ ।
कुर्याद्रतिं नित्यमवेक्षमाणो वृथैव मोहान्म्रियमाणजन्तूम् ॥४०॥
सुखं किमस्त्यत्र विचार्यमाणे गृहेऽपि वा योषिति वा पदार्थे ।
मायातमोऽन्धीकृतचक्षुषो ये त एव मुह्यन्ति विवेकशून्याः ॥४१॥
अविचारितरमणीयं सर्वमुदुम्बरफलोपमं भोग्यम् ।
अज्ञानमुपभोग्यं न तु तज्ज्ञानां योषिति वा पदार्थे ॥४२॥
गतेऽपि तोये सुषिरं कुलीरो हातुं ह्यशक्तो म्रियते विमोहात् ।
यथा तथा गेहसुखानुषक्तो विनाशमायाति नरो भ्रमेण ॥४३॥
कोशक्रिमिस्तन्तुभिरात्मदेहमावेष्ट्य चावेष्ट्य च गुप्तिमिच्छन् ।
स्वयं विनिर्गन्तुमशक्त एव संस्ततस्तदन्ते म्रियते च लग्नः ॥४४॥
यथा तथा पुत्रकलत्रमित्रस्नेहानुबन्धैर्ग्रथितो गृहस्थः ।
कदापि वा तान्परिमुच्य गेहाद्गन्तुं न शक्तो म्रियते मुधैव ॥४५॥
कारागृहस्यास्य च को विशेषः प्रदृश्यते साधु विचार्यमाणे ।
मुक्तेः प्रतीपत्वमिहापि पुंसः कान्तासुखाभ्युत्थितमोहपाशैः ॥४६॥
गृहस्पृहा पादनिबद्धशृङ्खला कान्तासुताशा पटुकण्ठपाशः ।
शीर्षे पतद्धूर्यशनिर्हि साक्षात्प्राणान्तहेतुः प्रबला धनाशा ॥४७॥