आकाशादिगताः पञ्च सात्विकांशाः परस्परम् ।
मिलित्वैवान्तःकरणमभवत्सर्वकारणम् ॥३४२॥
प्रकाशकत्वादेतेशां सात्विकांशत्वमिष्यते ।
प्रकाशकत्वं सत्त्वस्य स्वच्छत्वेन यतस्ततः ॥३४३॥
तदन्तःकरणं वृत्तिभेदेन स्याच्चतुर्विधम् ।
मनो बुद्धिरहङ्कारश्चित्तं चेति तदुच्यते ॥३४४॥
संकल्पान्मन इत्याहुर्बुद्धिरर्थस्य निश्चयात् ।
अभिमानादहङ्कारश्चित्तमर्थस्य चिन्तनात् ॥३४५॥
मनस्यपि च बुद्धौ च चित्ताहङ्कारयोः क्रमात् ।
अन्तर्भावोऽत्र बोद्धव्यो लिङ्गलक्षणसिद्धये ॥३४६॥
चिन्तनं च मनोधर्मः संकल्पादिर्यथा तथा ।
अन्तर्भावो मनस्येव सम्यक्चित्तस्य सिद्ध्यति ॥३४७॥
देहादावहमित्येव भावो दृढतरो धियः ।
दृष्यतेऽहङ्कृतेस्तस्मादन्तर्भावोऽत्र युज्यते ॥३४८॥
तस्मादेव तु बुद्धेः कर्तृत्वं तदितरस्य करणत्वम् ।
सिद्ध्यत्यात्मन उभयाद्विद्यात्संसारकारणं मोहात् ॥३४९॥