शुद्धोऽहं बुद्धोऽहं प्रत्यग्रूपेण नित्यसिद्धोऽहम् ।
शान्तोऽहमनन्तोऽहं सततपरानन्दसिन्धुरेवाहम् ॥८६६॥
आद्योऽहमनाद्योऽहं वाङ्मनसा साध्यवस्तुमात्रोऽहम् ।
निगमवचोवेद्योऽहमनवद्याखण्डबोधरूपोऽहम् ॥८६७॥
विदिताविदितान्योऽहं मायातत्कार्यलेशशून्योऽहम् ।
केवलदृगात्मकोऽहं संविन्मात्रः सकृद्विभातोऽहम् ॥८६८॥
अपरोऽहमनपरोऽहं बहिरन्तश्चापि पूर्ण एवाहम् ।
अजरोऽहमक्षरोऽहं नित्यानन्दोऽहमद्वितीयोऽहम् ॥८६९॥
प्रत्यगभिन्नखण्डं सत्यज्ञादिलक्षणं शुद्धम् ।
श्रुत्यवगम्यं तथ्यं ब्रह्मैवाहं परं ज्योतिः ॥८७०॥
एवं सन्मात्रगाहिन्या वृत्त्या तन्मात्रगाहकैः ।
शब्दैः समर्पितं वस्तु भावयेन्निश्चलो यतिः ॥८७१॥
कामादिदृश्यप्रविलापपूर्वकं
शुद्धोऽहमित्यादिकशब्दमिश्रः ।
दृश्येव निष्ठस्य य एष भावः
शब्दानुविद्धः कथितः समाधिः ॥८७२॥
दृश्यास्यापि च साक्षित्वात्समुल्लेखनमात्मनि ।
निवर्तकमनोवस्था निर्विकल्प इतीर्यते ॥८७३॥
सविकल्पसमाधिं यो दीर्घकालं निरन्तरम् ।
संस्कारपूर्वकं कुर्यान्निर्विकल्पोऽस्य सिद्ध्यति ॥८७४॥
निर्विकल्पकसमाधिनिष्ठया
तिष्ठतो भवति नित्यता ध्रुवम् ।
उद्भवाद्यपगतिर्निरगला
नित्यनिश्चलनिरतनिर्वृतिः ॥८७५॥
विद्वानहमिदमिति वा किंचि -
द्बाह्य्याभ्यन्तरवेदनशून्यः ।
स्वानन्दामृतसिन्धुनिमग्न -
स्तूष्णीमास्ते कश्चिदनन्यः ॥८७६॥
निर्विकल्पं परं ब्रह्म यत्तस्मिन्नेव निष्ठिताः ।
एते धन्या एव मुक्ता जीवन्तोऽपि बहिर्दृशाम् ॥८७७॥
यथा समाधित्रितयं यत्नेन क्रियते हृदि ।
तथैव बाह्यदेशेऽपि कार्यं द्वैतनिवृत्तये ॥८७८॥
तत्प्रकारं प्रवक्ष्यामि निशामय समासतः ।
अधिष्ठनं परं ब्रह्म सच्चिदानन्दलक्षणम् ॥८७९॥
तत्राध्यस्तमिदं भाति नामरूपात्मकं जगत् ।
सत्त्वं चित्त्वं तथानन्दरूपं यद्ब्रह्मणस्त्रयम् ॥८८०॥
अध्यस्तजगतो रूपं नामरूपमिदं द्वयम् ।
एतानि सच्चिन्दानन्दनामरूपाणि पञ्च च ॥८८१॥
एकीकृत्योच्यते मूर्खैरिदं विश्वमिति भ्रमात् ।
शैत्यं श्वेतं रसं द्राव्यं तरङ्ग इति नाम च ॥८८२॥
एकीकृत्य तरङ्गोऽयमिति निर्दिश्यते यथा ।
आरोपिते नामरूपे उपेक्ष्य ब्रह्मणः सतः ॥८८३॥
स्वरूपमात्रग्रहणं समाधिर्बाह्य आदिमः ।
सच्चिदानन्दरूपस्य सकाशाद्ब्रह्मणो यतिः ॥८८४॥
नामरूपे पृथक्कृत्वा ब्रह्मण्येव विलापयन् ।
अधिष्ठानं परं ब्रह्म सच्चिदानन्दमद्वयम् ।
यत्तदेवाहमित्येव निश्चितात्मा भवेद्ध्रुवम् ॥८८५॥
इयं भूर्न सन्नापि तोयं न तेजो
न वायुर्न खं नापि तत्कार्यजातम् ।
यदेषामधिष्ठानभूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥८८६॥
न शब्दो न रूपं न च स्पर्शको वा
तथा न रसो नापि गन्धो न चान्यः ।
यदेषामधिष्ठानभूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥८८७॥
न सद्द्रव्यजातं गुणा न क्रिया वा
न जातिर्विशेषो न चान्यः कदापि ।
यदेषमधिष्ठानभूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥८८८॥
न देहो न चाक्षाणि न प्राणवायु -
र्मनो नापि बुद्धिर्न चित्तं ह्यहंधीः ।
यदेषमधिष्ठानभूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥८८९॥
न देशो न कालो न दिग्वापि सत्स्या -
न्न वस्त्वन्तरं स्थूलसूक्ष्मादिरूपम् ।
यदेषामधिष्ठानभूतं विशुद्धं
सदेकं परं सत्तदेवाहमस्मि ॥८९०॥
एतद्दृश्यं नामरूपात्मकं यः
अधिष्ठानं तद्ब्रह्म सत्यं सदेति ।
गच्छंस्तिष्ठन्वा शयानोऽपि नित्यं
कुर्याद्विद्वान्बाह्यदृश्यानुविद्धम् ॥८९१॥
अध्यस्तनामरूपादिप्रविलापेन निर्मलम् ।
अद्वैतं परमानन्दं ब्रह्मैवास्मीति भावयेत् ॥८९२॥
निर्विकारं निराकारं निरञ्जनमनामयम् ।
आद्यन्तरहितं पूर्णं ब्रह्मैवाहं न संशयः ॥८९३॥
निष्कलङ्कं निरातङ्कं त्रिविधच्छेदवर्जितम् ।
आनन्दमक्षरं मुक्तं ब्रह्मैवास्मीति भावयेत् ॥८९४॥
निर्विशेषं निराभासं नित्यमुक्तमविक्रियम् ।
प्रज्ञानैकरसं सत्यं ब्रह्मैवास्मीति भावयेत् ॥८९५॥
शुद्धं बुद्धं तत्त्वसिद्धं परं प्रत्यगखण्डितम् ।
स्वप्रकाशं पराकाशं ब्रह्मैवास्मीति भावयेत् ॥८९६॥
सुसूक्ष्ममस्तितामात्रं निर्विकल्पं महत्तमम् ।
केवलं परमाद्वैतं ब्रह्मैवास्मीति भावयेत् ॥८९७॥
इत्येवं निर्विकादिशब्दमात्रसमर्पितम् ।
ध्यायतः केवलं वस्तु लक्ष्ये चित्तं प्रतिष्ठति ॥८९८॥