संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
कुमत खण्डनम्

सर्ववेदसारसंग्रहः - कुमत खण्डनम्

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


आत्मानात्मविवेकार्थं विवादोऽयं निरूप्यते ।

येनात्मानात्सनोस्तत्त्वं विविक्तं प्रस्फुटायते ॥५२०॥

मूढा अश्रुतवेदान्ताः स्वयं पण्डितमानिनः ।

ईशप्रसादरहितः सद्गुरोश्च बहिर्मुखाः ॥५२१॥

विवदन्ति प्रकारं तं श्रुणु वक्ष्यामि सादरम् ।

अत्यन्तपामरःकश्चित्पुत्र आत्मेति मन्यते ॥५२२॥

आत्मनीव स्वपुत्रेऽपि प्रबलप्रीतिदर्शनात् ।

पुत्रे तु पुष्टे पुष्टोऽहं नष्टे नष्टोऽहमित्यतः ॥५२३॥

अनुभूतिबलाच्चापि युक्तितोऽपि श्रुतेरपि ।

आत्मा वै पुत्रनामासीत्येवं च वदति श्रुतिः ॥५२४॥

दीपाद्दीपो यथा तद्वत्पितुः पुत्रः प्रजायते ।

पितुर्गुणानां तनये बीजाङ्कुरवदीक्षणात् ॥५२५॥

अतोऽयं पुत्र आत्मेति मन्यते भ्रान्तिमत्तमः ।

तन्मतं दूषयत्यन्यः पुत्र आत्मा कथं त्विति ॥५२६॥

प्रीतिमात्रात्कथं पुत्र आत्मा भवितुमहर्ति ।

अन्यत्रापीक्ष्यते प्रीतिः क्षेत्रपात्र धनादिषु ॥५२७॥

पुत्राद्विशिष्टा देहेऽस्मिन्प्राणिनां प्रीतिरिष्यते ।

प्रदीप्ते भवने पुत्रं त्यक्त्वा जन्तुः पलायते ॥५२८॥

तं विक्रीणाति देहार्थं प्रतिकूलं निहन्ति च ।

तस्मादात्मातु तनयो न भवेच्च कदाचन ॥५२९॥

गुणरूपादिसादृश्यं दीपवान्न सुते पितुः ।

अव्यङ्गाज्जायते व्यङ्गः सुगुणादपि दुर्गुणः ॥५३०॥

आभासमात्रास्ताः सर्वा युक्तयोऽप्युक्तयोऽपि च ।

पुत्रस्य पुत्रवद्गेहे सर्वकार्येषु वस्तुषु ॥५३१॥

स्वामित्वद्योतनायास्मिन्नात्मत्वमुपचर्यते ।

श्रुत्या तु मुख्यया वृत्त्या पुत्र आत्मेति नोच्यते ॥५३२॥

औपचारिकमात्मत्वं पुत्रे तस्मान्न मुख्यतः ।

अहंपदप्रत्ययार्थे देह एव न चेतरः ॥५३३॥

प्रत्यक्षः सर्वजन्तूनां देहोऽहमिति निश्चयः ।

एष पुरुषोऽन्नरसमय इत्यपि च श्रुतिः ॥५३४॥

पुरुषत्वं वदत्यस्य स्वात्मा हि पुरुषस्ततः ।

आत्मायं देव एवेति चार्वाकेण विनिश्चितम् ॥५३५॥

तन्मतं दूषवत्वन्योऽसहमानः पृथग्जनः ।

देह आत्मा कथं नु स्यात्परतन्त्रो ह्यचेतनः ॥५३६॥

इन्द्रियैश्चाल्यमानोऽयं चेष्टते न स्वतः क्वचित् ।

आश्रयचक्षुरादीनां गृहवद्गृहमेधिनाम् ॥५३७॥

बाल्यादिनानावस्थावाञ्शुक्लशोणितसम्भवः ।

अतः कदापि देहस्य नात्मत्वमुपपद्यते ॥५३८॥

बधिरोऽहं च काणोऽहं मूक इत्यनुभूतितः ।

इन्द्रियाणि भवन्त्यात्मा येषामस्त्यर्थवेदनम् ॥५३९॥

इन्द्रियाणां चेतनत्वं देहे प्राणाः प्रजापतिम् ।

एतमेतेत्यूचुरिति श्रुत्यैव प्रतिपाद्यते ॥५४०॥

यतस्तस्मादिन्द्रियाणां युक्तमात्मत्वमित्यमुम् ।

निश्चयं दूषयत्यन्योऽसहमानः पृथग्जनः ॥५४१॥

इन्द्रियाणि कथं त्वात्मा करणानि कुठारवत् ।

करणस्य कुठारादेश्चेतनत्वं न हीक्ष्यते ॥५४२॥

श्रुत्याधिदेवतामेवेन्द्रियेषुपचर्यते ।

न तु साक्षादिन्द्रियाणां चेतनत्वमुदीर्यते ॥५४३॥

अचेतनस्य दीपादेरर्था भासकता यथा ।

तथैव चक्षुरादीनां जडानामपि सिद्ध्यति ॥५४४॥

इन्द्रियाणां चेष्टयिता प्राणोऽयं पञ्चवृत्तिकः ।

सर्वावस्थास्ववस्थावान्सोऽयमात्मत्वमहर्ति ।

अहं क्षुधावांस्तृष्णावानित्याद्यनुभवादपि ॥५४५॥

श्रुत्यान्योऽन्तर आत्मा प्राणमय इतीर्यते यस्मात् ।

तस्मात्प्राणमस्यात्मत्वं युक्तं नो करणसंज्ञानां क्वापि ॥५४६॥

इति निश्चयमेतस्य दूषयत्यपरो जडः ।

भवत्यात्मा कथं प्राणो वायुरेवैष आन्तरः ॥५४७॥

बहिर्यात्यन्तरायाति भस्त्रिकावायुवन्मुहुः ।

न हितं वाऽहितं वा स्वमन्यद्वा वेद किञ्चन ॥५४८ ॥

जडस्वभावश्चपलः कर्मयुक्तश्च सर्वदा ।

प्राणस्य भानं मनसि स्थिते सुप्ते न दृश्यते ॥५४९॥

मनस्तु सर्वं जानाति सर्ववेदनकारणम् ।

यत्तस्मान्मन एवात्मा प्राणस्तु न कदाचन ॥५५०॥

संकल्पवानहं चिन्तावानहं च विकल्पवान् ।

इत्याद्यनुभवादन्योऽन्तर आत्मा मनोमयः ॥५५१॥

इत्यादिश्रुतिसद्भावाद्युक्ता मनस आत्मता ।

इति निश्चयमेतस्य दूषयत्यपरो जडः ॥५५२॥

कथं मनस आत्मत्वं करणस्य दृगादिवत् ।

कर्तृप्रयोज्यं करणं न स्वयं तु प्रवर्तते ॥५५३॥

करणप्रयोक्ता यः कर्ता तस्यैवात्मत्वमर्हति ।

आत्मा स्वतंत्रः पुरुषो न प्रयोज्यः कदाचन ॥५५४॥

अहंकर्तास्म्यहं भोक्ता सुखीत्यनुभवादपि ।

बुद्धिरात्मा भवत्येवबुद्धिधर्मो ह्यहंकृतिः ॥५५५॥

अन्योऽन्तर आत्मा विज्ञानमय इति वदति निगमः ।

मनसोऽपि च भिन्नं विज्ञानमयं कर्तृरूपमात्मानम् ॥५५६॥

विज्ञानं यज्ञं तनुते कर्मानि तनुतेऽपि च ।

इत्यस्य कर्तृता श्रुत्या मुखतः प्रतिपाद्यते ।

तस्माद्युक्तात्मता बुद्धेरिति बौद्धेन निश्चितम् ॥५५७॥

प्राभाकरतार्किकश्च तावुभावप्यमर्षया ।

तन्निश्चयं दूषयतो बुद्धिरात्मा कथं न्विति ॥५५८॥

बुद्धेरज्ञानकार्यत्वाद्विनाशित्वात्प्रतिक्षणम् ।

बुद्ध्यादीनां च सर्वेषमज्ञाने लयदर्शनात् ॥५५९॥

अज्ञोऽहमित्यनुभवादास्त्रीबालादिगोचरात् ।

भवत्यज्ञानमेवात्मा न तु बुद्धिः कदाचन ॥५६०॥

विज्ञानमयादन्यं त्वानन्दमयं परं तथात्मानम् ।

अन्योऽन्तर आत्मानन्दमय इति वदति वेदोऽपि ॥५६१॥

दुःखप्रत्ययशून्यत्वादानन्दमयता मता ।

अज्ञाने सकलं सुप्तौ बुद्ध्यादि प्रविलीयते ॥५६२॥

दुःखिनोऽपि सुषुप्तौ त्वानन्दमयता ततः ।

सुप्तौ किंचिन्न जानामीत्यनुभूतिश्च दृश्यते ॥५६३॥

यत एवमतो युक्ता ह्यज्ञानस्यात्मता ध्रुवम् ।

इति तन्निश्चयं भाट्टा दूषयन्ति स्वयुक्तिभिः ॥५६४॥

कथमज्ञानमेवात्मा ज्ञानं चाप्युपलभ्यते ।

ज्ञानाभावे कथं विद्युरज्ञोऽहमिति चाज्ञताम् ।

अस्वाप्सं सुखमेवाहं न जानाम्यत्र किंचन ॥५६५॥

इत्यज्ञानमपि ज्ञानं प्रबुद्धेषु प्रदृश्यते ।

प्रज्ञानघन एवानन्दमय इत्यपि श्रुतिः ॥५६६॥

प्रब्रवीत्युभयात्मत्वमात्मनः स्वयमेव सा ।

आत्माश्चिज्जडतनुः खद्योत इव संमतः ॥५६७॥

न केवलाज्ञानमयो घटकुड्यादिवज्जडः ।

इति निश्चयमेतेषां दूषयत्यपरो जडः ॥५६८॥

ज्ञानाज्ञानमयस्त्वात्मा कथं भवितुमर्हति ।

परस्परविरुद्धत्वात्तेजस्तिमिरवत्तयोः ॥५६९॥

सामानाधिकरण्यं वा संयोगो वा समाश्रयः ।

तमःप्रकाशवज्ज्ञानाज्ञानयोर्न हि सिद्ध्यति ॥५७०॥

अज्ञानमपि विज्ञानं बुद्धिर्वापि च तद्गुणाः ।

सुषुप्तौ नोपलभ्यते यत्किंचिदपि वापरम् ॥५७१॥

मात्रादिलक्षणं किं नु शून्यमेवोपलभ्यते ।

सुषुप्तौ नान्यदस्त्येव नाहमप्यासमित्यनु ॥५७२॥

सुप्तोत्थितजनैः सर्वैः शून्यमेवानुस्मर्यते ।

यत्ततः शून्यमेवात्मा न ज्ञानाज्ञानलक्षणः ॥५७३॥

वेदेनाप्यसदेवेदमग्र आसीदिति स्फुटम् ।

निरुच्यते यतस्तस्माच्छून्यस्यैवात्मता मता ॥५७४॥

असन्नेव घटः पूर्वं जायमानः प्रदृश्यते ।

न हि कुम्भः पुरैवान्तः स्थित्वोदेति बहिर्मुखः ॥५७५॥

यत्तस्मादसतः सर्वं सदिदं समजायत ।

ततः सर्वात्मना शून्यस्यैवात्मत्वं समर्हति ॥५७६॥

इत्येवं पण्डितमन्यैः परस्परविरोधिभिः ।

तत्तन्मतानुरूपाल्पश्रुतियुक्त्यनुभूतिभिः ॥५७७॥

निर्णीतमतजातानि खण्डितान्येव पण्डितैः ।

श्रुतिभिश्चाप्यनुभवैर्बाधकः प्रतिवादिनाम् ॥५७८॥

यतस्तस्मात्तु पुत्रादेः शून्यान्तस्य विशेषतः ।

सुसाधितमनात्मत्वं श्रुतियुक्त्यनुभूतिभिः ॥५७९॥

न हि प्रमाणान्तरबाधितस्य

याथार्थ्यमङ्गीक्रियते महद्ब्भिः ।

पुत्रादिशून्यान्तमनात्मतत्त्व -

मित्येव विस्पष्टमतः सुजातम् ॥५८०॥

शिष्यः :

सुषुप्तिकाले सकले विहीने

शून्यं विना नान्यदिहोपलभ्यते ।

शून्यं त्वमात्मा न ततः परः

कोऽप्यात्माभिधानस्त्वनुभूयतेऽर्थः ॥५८१॥

यद्यस्ति चात्मा किमु नोपलभ्यते

सुप्तौ यथा तिष्ठति किं प्रमाणम् ।

किं लक्षणोऽसौ स कथं न बाध्यते

प्रबाध्यमानेष्वहमादिषु स्वयम् ॥५८२॥

एतत्संशयजातं मे हृदयग्रन्थिलक्षणम् ।

छिन्धि युक्तिमहाखड्गधारया कृपया गुरो ॥५८३॥

श्रीगुरुः :

अतिसूक्ष्मतरः प्रश्नस्तवायं सदृशो मतः ।

सूक्ष्मार्थदर्शनं सूक्ष्मबुद्धिश्वेव प्रदृश्यते ॥५८४॥

श्रुणु वक्ष्यामि सकलं यद्यत्पृष्टं त्वयाधुना ।

रहस्यं परमं सूक्ष्मं ज्ञातव्यं च मुमुक्षिभिः ॥५८५॥

बुद्ध्यादि सकलं सुप्तावनुलीनं स्वकारणे ।

अव्यक्ते वटवद्बीजे तिष्ठत्यविकृतात्मना ॥५८६॥

तिष्ठत्येव स्वरूपेण न तु शून्याते जगत् ।

क्वचिदङ्कुररूपेण क्वचिद्बीजात्मना वटः ।

कार्यकारणरूपेण यथा तिष्ठत्यदस्तथा ॥५८७॥

अव्याकृतात्मनावस्थां जगतो वदति श्रुतिः ।

सुषुप्त्यादिषु तद्धेदं तर्ह्यव्याकृतमित्यसौ ॥५८८॥

इममर्तमविज्ञाय निर्णीतं श्रुतियुक्तिभिः ।

जगतो दर्शनं शून्यमिति प्राहुरतद्विदः ॥५८९॥

नासतः सत उत्पत्तिः श्रूयते न च दृश्यते ।

उदेति नरश्रुङ्गात्किं खपुष्पात्किं भविष्यति ॥५९०॥

प्रभवति न हि कुम्भोऽविद्यमानोमृदश्चेत्

प्रभवतु सिकताया वाथवा वारिणो वा ।

न हि भवति च ताभ्यां सर्वथा क्वापि तस्मा -

द्यत उदयति योऽर्थोऽस्त्यत्रतस्य स्वभावः ॥५९१॥

अन्यथा विपरीतं स्यात्कार्यकारणलक्षणम् ।

नियतं सर्वशास्त्रेषु सर्वलोकेषु सर्वतः ॥५९२॥

कथमसतः सज्जायेते श्रुत्या निषिद्ध्यते तस्मात् ।

असतः सज्जननं नो घटते मिथ्यैव शून्यशब्दार्थः ॥५९३॥

अव्यक्तशब्दिते प्राज्ञे सत्यात्मन्यत्र जाग्रति ।

कथं सिद्ध्यति शून्यत्वं तस्य भ्रान्तशिरोमणे ॥५९४॥

सुषुप्तौ शून्यमेवेति केन पुंसा तवेरितम् ।

हेतुनानुमितं केन कथं ज्ञातं त्वयोच्यताम् ॥५९५॥

इति पृष्टो मूढतमो वदिष्यति किमुत्तरम् ।

नैवानुरूपकं लिङ्गं वक्ता वा नास्ति कश्चन ।

सुषुप्तिस्थितशून्यस्य बोद्धा कोऽत्वात्मनः परः ॥५९६॥

स्वेनानुभूतं स्वयमेव वक्ति

स्वसुप्तिकाले स्थितशून्यभावम् ।

तत्र स्वसत्तामनवेक्ष्य मूढः

स्वस्यापि शून्यत्वमयं ब्रवीति ॥५९७॥

अवेद्यमानः स्वयमन्यलोकैः

सौषुप्तिकं धर्ममवैति साक्षात् ।

बुद्ध्याद्यभावस्य च योऽत्र बोद्धा

स एव आत्मा खलु निर्विकारः ॥५९८॥

यस्येदं सकलं विभाति महसा तस्य स्वयंज्योतिषः

सूर्यस्येव किमस्ति भासकमिह प्रज्ञादि सर्वं जडम् ।

न ह्यर्कस्य विभासकं क्षितितले दृष्टं तथैवात्मनो

नान्यः कोऽप्यनुभासकोऽनुभविता नातः परः कश्चन ॥५९९॥

येनानुभूयते सर्वं जाग्रत्स्वप्नसुषुप्तिषु ।

विज्ञातारमिमं को नु कथं वेदितुमर्हति ॥६००॥

सर्वस्य दाहको वह्निर्वह्नेर्नान्योऽस्ति दाहकः ।

यथा तथात्मनो ज्ञातुर्ज्ञाता कोऽपि न दृश्यते ॥६०१॥

उपलभ्येत केनायं ह्युपलब्धा स्वयं ततः ।

उपलब्ध्यन्तराभावान्नायमात्मोपलभ्यते ॥६०२॥

बुद्ध्यादिवेद्यविलयादयमेक एव

सुप्तौ न पश्यति श्रुणोति न वेत्ति किंचित् ।

सौषुप्तिकस्य तमसः स्वयमेव साक्षी

भूत्वात्र तिष्ठति सुखेन च निर्विकल्पः ॥६०३॥

सुषुप्तावात्मसद्भावे प्रमाणं पण्डितोत्तमाः ।

विदुः स्वप्रत्यभिज्ञामाबालवृद्धसंमतम् ॥६०४॥

प्रत्यभिज्ञायमानत्वाल्लिङ्गमात्रानुमापकम् ।

स्मर्यमाणस्य सद्भावः सुखमस्वाप्समित्ययम् ॥६०५॥

पुरानुभूतो नो चेएत्तु स्मृतेरनुदयो भवेत् ।

इत्यादितर्कयुक्तिश्च सद्भावे मानमात्मनः ॥६०६॥

यत्रात्मनोऽकामयितृत्वबुद्धिः

स्वप्नानपेक्षापि च तत्सुषुप्तम् ।

इत्यात्म सद्भाव उदीर्यतेऽत्र

श्रुत्यापि तस्माच्छ्रुतिरत्र मानम् ॥६०७॥

अकामयितृता स्वप्नाद्दर्शनं घटते कथम् ।

अविद्यमानस्य तत आत्मास्तित्वं प्रतीयते ॥६०८॥

एतैः प्रमाणैरस्तीति ज्ञातः साक्षितया बुधैः ।

आत्मायं केवलः शुद्धः सच्चिदानन्दलक्षणः ॥६०९॥

सत्त्वचित्त्वानन्दतादिलक्षणं प्रत्यगात्मनः ।

कालत्रयेऽप्य बाध्यत्वं सत्यं नित्यस्वरूपतः ॥६१०॥

शुद्धचैतन्यरूपत्वं चित्त्वं ज्ञानस्वरूतः ।

अखण्डसुखरूपत्वादानन्दत्वमितीर्यते ॥६११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP