श्रीगुरुः -
मुख्यगौणादिभेदेन विद्यन्तेऽत्राधिकारिणः ।
तेषं प्रज्ञानुसारेणाखण्डा वृत्तिरुदेष्यते ॥७९५॥
श्रद्धाभक्तिपुरःसरेण विहितेनैवेश्वरं कर्मणा
संतोष्यार्जिततत्प्रसादमहिमा जन्मान्तरष्वेव यः ।
नित्यानित्यविवेकतीव्रविरतिन्यासादिभिः साधनै -
र्युक्तः सः श्रवणे सतामभिमतो मुख्याधिकारि द्विजः ॥७९६॥
अध्यारोपापवादक्रममनुसरता देशिकेनात्र वेत्रा
वाक्यार्थे बोध्यमाने सति सपदि सतः शुद्धबुद्धेरमुष्य ।
नित्यानन्दाद्वितीयं निरुपमममलं यत्परं तत्त्वमेकम्
तद्ब्रह्मैवाहमस्मीत्युदयति परमाखण्डताकारवृत्तिः ॥७९७॥
अखण्डाकारवृत्तिः सा चिदाभाससमन्विता ।
आत्माभिन्नं परं ब्रह्म विषयीकृत्य केवलम् ॥७९८॥
बाधते तद्गताज्ञानं यदावरणलक्षणम् ।
अखण्डाकारया वृत्त्या त्वज्ञाने बाधिते सति ॥७९९॥
तत्कार्यं सकलं तेन समं भवति बाधितम् ।
तन्तुदाहे तु तत्कार्यपटदाहो यथा तथा ॥८००॥
तस्य कार्यतया जीववृत्तिर्भवति बाधिता ।
उपप्रभा यथा सूर्यं प्रकाशयितुमक्षमा ॥८०१॥
तद्वदेव चिदाभासचैतन्यं वृत्तिसंस्थितम् ।
स्वप्रकाशं परं ब्रह्म प्रकाशयितुमक्षमम् ॥८०२॥
प्रचाण्डातपमध्यस्थदीपवन्नष्टदीधितिः ।
तत्तेजसाभिभूतं सल्लीनोपाधितया ततः ॥८०३॥
बिम्बभूतपरब्रह्ममात्रं भवति केवलम् ।
यथापनीते त्वादर्शे प्रतिबिम्बमुखं स्वयम् ॥८०४॥
मुखमात्रं भवेत्तद्वदेतच्चोपाधिसंक्षयात् ।
घटाज्ञाने यथा वृत्त्या व्याप्तया बाधिते सति ॥८०५ ,,
घटं विस्फुरयत्येषः चिदाभासः स्वतेजसा ।
न तथा स्वप्रभे ब्रह्मण्याभास उपयुज्यते ॥८०६॥
अत एव मतं वृत्तिव्याप्यत्वं वस्तुनः सताम् ।
न फलव्याप्यता तेन न विरोधः परस्परम् ॥८०७॥
श्रुत्योदितस्ततो ब्रह्म ज्ञेयं बुद्ध्यैव सूक्ष्मया ।
प्रज्ञामान्द्यं भवेद्येषां तेषां न श्रुतिमात्रतः ॥८०८॥
स्यादखण्डाकारवृत्तिर्विना तु मननादिना ।
श्रवणान्मननाद्ध्यानात्तात्पर्येण निरन्तरम् ॥८०९॥
बुद्धेः सूक्ष्मत्वमायाति ततो वस्तूपलभ्यते ।
मन्दप्रज्ञावतां तस्मात्करणीयं पुनः पुनः ॥८१०॥
श्रवणं मननं ध्यानं सम्यग्वस्तूपलब्धये ।
सर्ववेदान्तवाक्यानां षड्भिर्लिङ्गैः सदद्वये ॥८११॥
परे ब्रह्मणि तात्पर्यनिश्चयं श्रवणं विदुः ।
श्रुतस्यैवाद्वितीयस्य वस्तुनः प्रत्यगात्मनः ॥८१२॥
वेदान्तवाक्यानुगुणयुक्तिभिस्त्वनुचिन्तनम् ।
मननं तत्च्छृतार्थस्य साक्षात्करणकारणम् ॥८१३॥
विजातीयशरीरादिप्रत्ययत्यागपूर्वकम् ।
सजातीयात्मवृत्तीनां प्रवाहकरणं यथा ॥८१४॥
तैलधारावदच्छिन्नवृत्त्या तद्ध्यानमिष्यते ।
तावत्कालं प्रयत्नेन कर्तव्यं श्रवणं सदा ॥८१५॥
प्रमाणसंशयो यावत्स्वबुद्धेर्न निवर्तते ।
प्रमेयसंशयो यावत्तावत्तु श्रुतियुक्तिभिः ॥८१६॥
आत्मयातार्थ्यनिश्चित्त्यै कर्तव्यं मननं मुहुः ।
विपरीतात्मधीर्यावन्न विनश्यति चेतसि ।
तावन्निरन्तरं ध्यानं कर्तव्यं मोक्षमिच्छता ॥८१७॥
यावन्न तर्केण निरासितोऽपि
दृश्यप्रपञ्चस्त्वपरोक्षबोधात् ।
विलीयते तावदमुष्य भिक्षो -
र्ध्यानादि सम्यक्करणियमेव ॥८१८॥