पञ्चानामेव भूतानां रजोंशेभ्योऽभवन् क्रमात् ।
वाक्पाणिपादपायूपस्थानि वर्मेन्द्रियाण्यनु ॥३७५॥
समस्तेभ्यो रजोंशेभ्यो व्योमादीनां क्रियात्मकाः ।
प्राणादयः समुत्पन्नाः पञ्चाप्यान्तरवायवः ॥३७६॥
प्राणः प्राग्गमनेन स्यादपानोऽर्वाग्गमनेन च ।
व्यानस्तु विष्वग्गमनादुत्क्रान्त्योदान इष्यते ॥३७७॥
अशितानरसादीनां समीकरणधर्मतः ।
समान इत्यभिप्रेतो वायुर्यस्तेषु पञ्चमः ॥३७८॥
क्रियैव दिश्यते प्रायः प्राणकर्मेन्द्रियेष्वलम् ।
ततस्सेषां रजोंशेभ्यो जनिरङ्गीकृता बुधैः ॥३७९॥
राजसीं तु क्रियाशक्तिं तमःशक्तिं जडात्मिकाम् ।
प्रकाशरूपिणीं सत्त्वशक्तिं प्राहुर्महर्षयः ॥३८०॥
एते प्राणादयः पञ्च पञ्चकर्मेन्दियैः सह ।
भवेत्प्राणमयः कोशः स्थूलो येनैव चेष्टते ॥३८१॥
यद्यान्निष्पाद्यते कर्म पुण्यं वा पापमेव वा ।
वागादिभिश्च वपुषा तत्प्राणमयकर्तृकम् ॥३८१॥
वायुनोच्चालितो वृक्षो नानारूपेण चेष्टते ।
तस्मिन्विनिश्चले सोऽपि निश्चलः स्याद्यथा तथा ॥३८२॥
प्राणकर्मेन्द्रियैदेहः प्रेर्यमाणः प्रवर्तते ।
नानाक्रियासु सर्वत्र विहिताविहितादिषु ॥३८४॥
कोशत्रयं मिलित्वैतद्वपुः स्यात्सूक्ष्ममात्मनः ।
अतिसूक्ष्मतया लीनस्यात्मनो गमकत्वतः ॥३८५॥
लिङ्गमित्युच्यते स्थूलापेक्षया सूक्ष्ममिष्यते ।
सर्वं लिङ्गवपुर्जातमेकधीविषयत्वतः ॥३८६॥
समष्टिः स्यात्तरुगणः सामान्येन वनं यथा ।
एतत्समष्ट्युपहितं चैतन्यं सफलं जगुः ॥३८७॥
हिरण्यगर्भः सूत्रात्मा प्राण इत्यपि पण्डिताः ।
हिरण्मये बुद्धिगर्मे प्रचकास्ति हिरण्यवत् ॥३८८॥
हिरण्यगर्भ इत्यस्य व्यपदेशस्ततो मतः ।
समस्त लिङ्गदेहेषु सूत्रवन्मणिपङ्तिषु ।
व्याप्य स्थितत्वात्सूत्रात्मा प्राणनात्प्राण उच्यते ॥३८९॥
नैकधीविषयत्वेन लिङ्गं व्यष्टिभवत्यथ ।
यदेतद्व्यष्ट्युपहितं चिदाभाससमन्वितम् ॥३९०॥
चैतन्यं तैजस इति निगदन्ति मनीषिणः ।
तेजोमयान्तःकरणोपादित्वेनैव तैजसः ॥३९१॥
स्थूलात्सूक्ष्मतया व्यष्टिरस्य सूक्ष्मवपुर्मतम् ।
अस्य जागरसंस्कारमयत्वाद्वपुरुच्यते ॥३९२॥
स्वप्ने जागरकालीनवासनापरिकल्पितान् ।
तैजसो विषयान्भुङ्क्ते सूक्ष्मार्थान्सूक्ष्मवृत्तिभिः ॥३९३॥
समष्टेरपि च व्यष्टेः सामान्येनैव पूर्ववत् ।
अभेद एव ज्ञातव्यो जात्यैकत्वे कुतो भिदा ॥३९४॥
द्वयोरुपाध्योरेकत्वे तयोरप्यभिमानिनोः ।
सूत्रान्मनस्तैजसस्याप्यभेदः पूर्ववन्मतः ॥३९५॥
एवं सूक्ष्मप्रपञ्चस्य प्रकारः शास्त्रसंमतः ।
अथ स्थूलप्रपञ्चस्य प्रकारः कथ्यते शृणु ॥३९६॥
तान्येव सूक्ष्मभूतानि व्योमादीनि परस्परम् ।
पञ्चीकृतानि स्थूलानि भवन्ति शृणु तत्क्रमम् ॥३९७॥
खादीनां भूतमेकैकं सममेव द्विधा द्विधा ।
विभज्य भागं तत्राद्यं त्यक्त्वा भागं द्वितीयकम् ॥३९८॥
चतुर्धा सुविभज्याथ तमेकैकं विनिक्षिपेत् ।
चतुर्णा प्रथमे भागे क्रमेण स्वार्धमन्तरा ॥३९९॥
ततो व्योमादिभूतानां भागाः पञ्च भवन्ति ते ।
स्वस्वार्धभागेनान्येभ्यः प्राप्तं भागचतुष्टयम् ॥४००॥
संयोज्य स्थूलतां यन्ति व्योमादीनि यथाक्रमम् ।
अमुष्य पञ्चीकरणस्याप्रामाण्यं न शङ्क्यताम् ॥४०१॥
उपलक्षणमस्यापि तत्त्रिवृत्करणश्रुतिः ।
पञ्चानामपि भूतानां श्रूयतेऽन्यत्र संभवः ॥४०२॥
ततः प्रामाणिकं पञ्चीकरणं मन्यतां बुधैः ।
प्रत्यक्षादिविरोधः स्यादन्यथा क्रियते यदि ॥४०३॥
आकाशवाय्वोधर्मर्स्तु वह्न्यादावुपलभ्यते ।
यथा तथाकाशवाय्वोर्नाग्न्यादेर्धमर् ईक्ष्यते ॥४०४॥
अतोऽप्रामाणिकमिति न किञ्चिदपि चिन्त्यताम् ।
खांशव्याप्तिश्च खव्याप्तिर्विद्यते पावकादिषु ॥४०५॥
तेनोपलभ्यते शब्दः कारणस्यातिरेकतः ।
तथा नभस्वतो धर्मोऽप्यग्न्यादावुपलभ्यते ॥४०६॥
न तथा विद्यते व्याप्तिर्वह्न्यादेः खनभस्वतोः ।
सूक्ष्मत्वादंशकव्याप्तेस्तद्धर्मो नोपलभ्यते ॥४०७॥
कारणस्यानुरूपेण कार्यं सर्वत्र दृश्यते ।
तस्मात्प्रामाण्यमेष्टव्यं बुधैः पञ्चीकृतेरपि ॥४०८॥