जिह्वाया वरुणो दैवं घ्राणस्य त्वश्विनावुभौ ।
वाचोऽग्निहर्स्तयोरिन्द्रः पादयोस्तु त्रिविक्रमः ॥४१७॥
षायोर्मृत्युरुपस्थस्य त्वधिदैवं प्रजापतिः ।
मनसो दैवतं चन्द्रो बुद्धेर्दैवं बृहस्पतिः ॥४१८॥
रुद्रस्त्वहंकृतेर्दैवं क्षेत्रज्ञश्चित्तदैवतम् ।
दिगाद्या देवताः सर्वाः खादिसत्त्वांशसंभवाः ॥४१९॥
संमिता इन्द्रियस्थानेष्विन्द्रियाणां समन्ततः ।
निगृह्णन्त्यनुगृह्णन्ति प्राणिकर्मानुरूपतः ॥४२०॥
शरीरकरणग्रामप्राणाहमधिदेवताः ।
पञ्चैते हेतवः प्रोक्ता निष्पत्तौ सर्वकर्मणाम् ॥४२१॥
कर्मानुरूपेण गुणोदयो भवे -
द्गुणानुरूपेण मनःप्रवृत्तिः ।
मनोनुवृत्तैरुभयात्मकेन्द्रियै -
निर्वर्त्यर्ते पुण्यमपुण्यमत्र ॥४२२॥
करोति विज्ञानमयोऽभिमानं
कर्ताहमेवेति तदात्मना स्थितः ।
आत्मा तु साक्षी न करोति किञ्चि -
न्न कारयत्येव तटस्थवत्सदा ॥४२३॥
द्रष्टा श्रोता वक्ता कर्ता भोक्ता भवत्यहङ्कारः ।
स्वयमेतद्विकृतीनां साक्षी निर्लेप एवात्मा ॥४२४॥
आत्मनः साक्षिमात्रत्वं न कर्तृत्वं न भोक्तृता ।
रविवत्प्राणिभिर्लोके क्रियमाणेषु कर्मसु ॥४२५॥
न ह्यर्कः कुरुते कर्म न कारयति जन्तवः ।
स्वस्वभावनुरोधेन वर्तन्ते स्वस्वकर्मसु ॥४२६॥
तथैव प्रत्यगात्मापि रविवन्निष्क्रियात्मना ।
उदासीनतयैवास्ते देहादीनां प्रवृत्तिषु॥४२७॥
अज्ञात्वैवं परं तत्त्वं मायामोहितचेतसः ।
स्वात्मन्यारोपयन्त्येतत्कर्तृत्वाद्यन्यगोचरम् ॥४२८॥
आत्मस्वरूपमविचार्य विमूढबुद्धि -
रारोपयत्यखिलमेतदनात्मकार्यम् ।
स्वात्मन्यसङ्गचितिनिष्क्रिय एव चन्द्रे
दूरस्थमेघकृतधावनवद्भ्रमेण ॥४२९॥