मनो मनोमयः कोशो भवेज्ज्ञानेन्द्रियैः सह ।
प्राचुर्य मनसो यत्र दृश्यतेऽसौ मनोमयः ॥३५५॥
चिन्ताविषादहर्षाद्याः कामाद्या अस्य वृत्तयः ।
मनुते मनसैवैष फलं कामयते बहिः ।
यतते कुरुते भुङ्क्ते तन्मनः सर्वकारणम् ॥३५६॥
मनो ह्यमुष्य प्रवणस्य हेतु -
रन्तर्बहिश्चार्थमनेन वेत्ति ।
शृणोति जिघ्रत्यमुनैव चेक्षते
वक्ति स्पृशत्यत्ति करोति सर्वम् ॥३५७॥
बन्धश्च मोक्षो मनसैव पुंसा -
मर्थोऽप्यनर्थोऽप्यमुनैव सिद्ध्यति ।
शुद्धेन मोक्षो मलिनेन बन्धो
विवेकतोऽर्थोऽप्यविवेकतोन्यः ॥३५८॥
रजस्तमोभ्यां मलिनं त्वशुद्ध -
मज्ञानजं सत्त्वगुणेन रिक्तम् ।
मनस्तमोदोषसमन्वितत्वा -
ज्जडत्वमोहालसताप्रमादैः ।
तिरस्कृतं सन्न तु वेत्ति वास्तवं
पदार्थतत्त्वं ह्युपलभ्यमानम् ॥३५९॥
रजोदोषैर्युक्तं यदि भवति विक्षेपकगुणैः
प्रतीपैः कामाद्यैरनिशमभिभूतं व्यथयति ।
कथंचित्सूक्ष्मार्थावगतिमदपि भ्राम्यति भृशं
मनोदीपो यद्वत्प्रबलमरुता ध्वस्तमहिमा ॥३६०॥
ततो मुमुक्षुर्भवबन्धमुक्त्यै
रजस्तमोभ्यां च तदीयकार्यैः ।
वियोज्य चित्तं परिशुद्धसत्त्वं
प्रियं प्रयत्नेन सदैव कुर्यात् ॥३६१॥
गर्भावासजनिप्रणाशनजराव्याध्यादिषु प्राणिनां
यद्दुःखं परिदृश्यते च नरके तच्चिन्तयित्वा मुहुः ।
दोषानेव विलोक्य सर्वविषयेष्वाषां विमुच्याभित -
श्चित्तग्रन्थिविमोचनाय सुमतिः सत्त्वं समालम्बताम् ॥३६२॥
यमेषु निरतो यस्तु नियमेषु च यत्नतः ।
विवेकिनस्तस्य चित्तं प्रसादमधिगच्छति ॥३६३॥
आसुरीं सम्पदं त्यक्त्वा भजेद्यो दैवसम्पदम् ।
मोक्षैककाङ्क्षया नित्यं तस्य चित्तं प्रसीदति ॥३६४॥
परद्रव्यपरद्रोहपरनिन्दापरस्त्रियः ।
नालम्बते मनो यस्य तस्य चित्तं प्रसीदति ॥३६५॥
आत्मवत्सर्वभूतेषु यः समत्वेन पश्यति ।
सुखं दुःखं विवेकेन तस्य चित्तं प्रसीदति ॥३६६॥
अत्यन्तं श्रद्धया भक्त्या गुरुमीश्वरमात्मनि ।
यो भजत्यनिशं क्षान्तस्तस्य चित्तं प्रसीदति ॥३६७॥
शिष्टन्नमीशार्चनमार्यसेवां
तीर्थाटनं स्वाश्रमधर्मनिष्ठाम् ।
यमानुषक्तिं नियमानुवृत्तिं
चित्तप्रसादाय वदन्ति तज्ज्ञाः ॥३६८॥
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविधायिनाम् ।
पूतिपर्युषितादीनां त्यागः सत्त्वाय कल्पते ॥३६९॥
श्रुत्या सत्त्वपुराणानां सेवया सत्त्ववस्तुनः ।
अनुवृत्त्या च साधूनां सत्त्ववृत्तिः प्रजायते ॥३७०॥
यस्य चित्तं निर्विषयं हृदयं यस्य शीतलम् ।
तस्य मित्रं जगत्सर्वं तस्य मुक्तिः करस्थिता ॥३७१॥
हितपरिमितभोजी नित्यमेकान्तसेवी
सकृदुचितहितोक्तिः स्वल्पनिद्राविहारः ।
अनुनियमनशीलो यो भजत्युक्तकाले
स लभत इह शीघ्रं साधु चित्तप्रसादम् ॥३७२॥
चित्तप्रसादेन विनावगन्तुं
बन्धं न शक्नोति परात्मतत्त्वम् ।
तत्त्वावगत्या तु विना विमुक्ति -
र्न सिद्ध्यति ब्रह्मसहस्रकोटिषु ॥३७३॥
मनःप्रमादः पुरुषस्य बन्धो
मनःप्रसादो भवबन्धमुक्तिः ।
मनःप्रसादाधिगमाय तस्मा -
न्मनोनिरासं विदधीत विद्वान् ॥३७४॥