॥ दुःखप्रदं वस्तु सुखं दातुं न समर्हति ॥
श्रीगुरुः :
आनन्दरूपमात्मानमज्ञात्वैव पृथग्जनः ।
बहिःसुखाय यतते न तु कश्चिद्विदन्बुधः ॥६३५॥
अज्ञात्वैव हि निक्षेपं भिक्षामटति दुर्मतिः ।
स्ववेश्मनि निधिं ज्ञात्वा को नु भिक्षामटेत्सुधीः ॥६३६॥
स्थूलं च सूक्ष्मं च वपुः स्वभावतो
दुःखात्मकं स्वात्मतया गृहीत्वा ।
विस्मृत्य च स्वं सुखरूपमात्मनो
दुःखप्रदेभ्यः सुखमज्ञ इच्छति ॥६३७॥
नहि दुःखप्रदं वस्तु सुखं दातुं समर्हति ।
किं विषं पिबतो जन्तोरमृतत्वं प्रयच्छति ॥६३८॥
आत्मान्यः सुखमन्यच्चेत्येवं निश्चित्य पामरः ।
बहिःसुखाय यतते सत्यमेव न संशयः ॥६३९॥
इष्टस्य वस्तुनो ध्यानदर्शनाद्युपभुक्तिषु ।
प्रतीयते य आनन्दः सर्वेषामिह देहिनाम् ॥६४०॥
स वस्तुधर्मो नो तस्मान्मनस्येवोपलभ्यते ।
वस्तुधर्मस्य मनसि कथं स्यादुपलम्भनम् ॥६४१॥
अन्यत्र त्वन्यधर्माणामुपलम्भो न दृश्यते ।
तस्मान्न वस्तुधर्मोऽयममानन्दस्तु कदाचन ॥६४२॥
नाप्येष धर्मो मनसोऽसत्यर्थे तददर्शनात् ।
असति व्यञ्जके व्यङ्ग्यं नोदेतीति न मन्यताम् ॥६४३॥
सत्यर्थेऽपि च नोदेति ह्यानन्दस्तूक्तलक्षणः ।
सत्यपि व्यञ्जके व्यङ्ग्यानुदयो नैव संमतः ॥६४४॥
दुरदृष्टादिकं नात्र प्रतिबन्धः प्रकल्प्यताम् ।
प्रियस्य वस्तुनो लाभे दुरदृष्टं न सिद्ध्यति ॥६४५॥
तस्मान्न मानसो धर्मो निर्गुणत्वान्न चात्मनः ।
किं तु पुण्यस्य सांन्निध्याधिष्टस्यापि च वस्तुनः ॥६४६॥
सत्त्वप्रधाने चित्तेऽस्मिंस्त्वात्मैव प्रतिबिम्बति ।
आनन्दलक्षणः स्वच्छे पयसीव सुधाकरः ॥६४७॥
सोऽयमाभास आनन्दश्चित्ते यः प्रतिबिम्बितः ।
पुण्योत्कर्षापकर्षभ्यां भवत्युच्चावचः स्वयम् ॥६४८॥
सार्वभौमादिब्रह्मान्तं श्रुत्या यः प्रतिपादितः ।
स क्षयिण्णुः सातिशयः प्रक्षीणे कारणे लयम् ॥६४९॥
यात्येष विषयानन्दो यस्तु पुण्यैकसाधनः ।
ये तु वैषयिकानन्दं भुञ्जते पुण्यकारिणः ॥६५०॥
दुःखं च भोगकालेऽपि तेषामन्ते महत्तरम् ।
सुखं विषयसंपृक्तं विषसंपृक्तभक्तवत् ॥६५१॥
भोगकालेऽपि भोगान्ते दुःखमेव प्रयच्छति ।
सुखमुच्चावचत्वेन क्षयिष्णुत्वभयेन च ॥६५२॥
भोगकाले भवेन्नॄणां ब्रह्मादिपदभाजिनाम् ।
राजस्थानप्रविष्टानां तारतम्यं मतं यथा ॥६५३॥
तथैव दुःख जन्तूनां ब्रह्मादिपदभाजिनाम् ।
न काङ्क्षणीयं विदुषा तस्माद्वैषयिकं सुखम् ॥६५४॥
यो बिम्बभूत आनन्दः स आत्मानन्दलक्षणः ।
शाश्वतो निर्द्वयः पूर्णो नित्य एकोऽपि निर्भयः ॥६५५॥
लक्ष्यते प्रतिबिम्बेनाभासानन्देन बिम्बवत् ।
प्रतिबिम्बो बिम्बमूलो विना बिम्बं न सिद्ध्यति ॥६५६॥
यत्ततो बिम्ब आनन्दः प्रतिबिम्बेन लक्ष्यते ।
युक्त्यैव पण्डितजनैर्न कदाप्यनुभूयते ॥६५७॥
अविद्याकार्यकरणसंघातेषु पुरोदितः ।
आत्मा जाग्रत्यपि स्वप्ने न भवत्येष गोचरः ॥६५८॥
स्थूलस्यापि च सूक्ष्मस्य दुःखरूपस्य वर्ष्मणः ।
लये सुषुप्तौ स्फुरति प्रत्यगानन्दलक्षणः ॥६५९॥
न ह्यत्र विषयः कश्चिन्नापि बुद्ध्यादि किंचन ।
आत्मैव केवलानन्दमात्रस्तिष्ठस्ति निर्द्वयः ॥६६०॥
प्रत्यभिज्ञायते सर्वैरेष सुप्तोत्थितैर्जनैः ।
सुखमात्रतया नात्र संशयं कर्तुमर्हसि ॥६६१॥
त्वयापि प्रत्यभिज्ञातं सुखमात्रत्वमात्मनः ।
सुषुप्तादुत्थितवता सुखमस्वाप्समित्यनु ॥६६२॥
दुःखाभावः सुखमिति यदुक्तं पूर्ववादिना ।
अनाघ्रातोपनिषदा तदसारं मृषा वचः ॥६६३॥
दुःखाभावस्तु लोष्टादौ विद्यते नानुभूयते ।
सुखलेशोऽपि सर्वेषां प्रत्यक्षं तदिदं खलु ॥६६४॥
सदयं ह्येष एवेति प्रस्तुत्य वदति श्रुतिः ।
सद्धनोऽयं चिद्धनोऽयमानन्दघन इत्यपि ॥६६५॥
आनन्दघनतामस्य स्वरूपं प्रत्यगात्मनः ।
धन्यैर्महात्मभिधीरैर्ब्रह्मविद्भिः सदुत्तमैः ॥६६६॥
अपरोक्षयैवात्मा समाधावनुभूयते ।
केवलानन्दमात्रत्वेनैवमत्र न संशयः ॥६६७॥
स्वस्वोपाध्यनुरूपेण ब्रह्माद्याः सर्वजन्तवः ।
उपजीवन्त्यमुष्येव मात्रामानन्दलक्षणाम् ॥६६८॥
आस्वाद्यते यो भक्ष्येषु सुखकृन्मधुरो रसः ।
स गुडस्यैव नो तेषां माधुर्यं विद्यते क्वचित् ॥६६९॥
तद्वद्विषयसांनिध्यादानन्दो यः प्रतीयते ।
बिम्बानन्दांशविस्फूर्तिरेवासौ न जडात्मनाम् ॥६७०॥
यस्य कस्यापि योगेन यत्र कुत्रापि दृश्यते ।
आनन्दः स परस्यैव ब्रह्मणः स्फूर्तिलक्षणः ॥६७१॥
यथा कुवलयोल्लासश्चन्द्रस्यैव प्रसादतः ।
तथानन्दोदयोऽप्येषां स्फुरणादेव वस्तुनः ॥६७२॥