ब्रह्मात्मैकत्वविज्ञानाद्यद्विद्वान्मोक्तुमिच्छति ।
संसारपाशबन्धं तन्मुमुक्षुत्वं निगद्यते ॥२२६॥
साधनानां तु सर्वेषां मुमुक्षा मूलकारणम् ।
अनिच्छोरप्रवृत्तस्य क्व श्रुतिः क्व नु तत्फलम् ॥२२७॥
तीव्रमध्यममन्दातिमन्दभेदाश्चतुर्विधाः ।
मुमुक्षा तत्प्रकारोऽपि कीर्त्यते श्रूयतां बुधैः ॥२२८॥
तापैस्त्रिभिर्नित्यमनेकरूपैः
संतप्यमानो क्षुभितान्तरात्मा ।
परिग्रहं सर्वमनर्थबुद्ध्या
जहाति सा तीव्रतरा मुमुक्षा ॥२२९॥
तापत्रयं तीव्रमवेक्ष्य वस्तु
दृष्ट्वा कलत्रं तनयान्विहातुम् ।
मध्ये द्वयोर्लोडनमात्मनो यत्
सैषा मता माध्यमिकी मुमुक्षा ॥२३०॥
मोक्षस्य कालोऽस्ति किमद्य मे त्वरा
भक्त्यैव भोगान्कृतसर्वकार्यः ।
मुक्त्यै यतिष्येऽहमथेति बुद्धि -
रेषैव मन्दा कथिता मुमुक्षा ॥२३१॥
मार्गे प्रयातुर्मणिलाभवन्मे
लभेत मोक्षो यदि तर्हि धन्यः ।
इत्याशया मूढधियां मतिर्या
सैषातिमन्दाभिमता मुमुक्षा ॥२३२॥
जन्मानेकसहस्रेषु तपसाराधितेश्वरः ।
तेन निःशेषनिर्धूतहृदयस्थितकल्मषः ॥२३३॥
शास्त्रविद्गुणदोषज्ञो भोग्यमात्रे विनिस्पृहः ।
नित्यानित्यपदार्थज्ञो मुक्तिकामो दृढव्रतः ॥२३४॥
निष्टप्तमग्निना पात्रमुद्वास्य त्वरया यथा ।
जहाति गेहं तद्वच्च तीव्रमोक्षेच्छया द्विजः ॥२३५॥
स एव सद्यस्तरति संसृतिं गुर्वनुग्रहात् ।
यस्तु तीव्रमुमुक्षुः स्यात्स जीवन्नेव मुच्यते ॥२३६॥
जन्मान्तरे मध्यमस्तु तदन्यस्तु युगान्तरे ।
चतुर्थः कल्पकोट्यां वा नैव बन्धाद्विमुच्यते ॥२३७॥
नृजन्म जन्तोरतिदुर्लभं विद्दु -
स्ततोऽपि पुंस्त्वं च ततो विवेकः ।
लब्ध्वा तदेतत्त्रितयं महात्मा
यतेत मुक्त्यै सहसा विरक्तः ॥२३८॥
पुत्रमित्रकलत्रादिसुखं जन्मनि जन्मनि ।
मर्त्यत्वं पुरुषत्वं च विवेकश्च न लभ्यते ॥२३९॥
लब्ध्वा सुदुर्लभतरं नरजन्म जन्तु -
स्तत्रापि पौरुषमतः सदसद्विवेकम् ।
संप्राप्य चैहिकसुखाभिरतो यदि स्या -
द्धिक्तस्य जन्म कुमतेः पुरुषाधमस्य ॥२४०॥
खादते मोदते नित्यं शुनकः सूकरः खरः ।
तेषामेषां विशेषः को वृत्तिर्येषां तु तैः समा ॥२४१॥
यावन्नाश्रयते रोगो यावन्नाक्रमते जरा ।
यावन्न धीर्विपर्येति यावन्मृत्युं पश्यति ॥२४२॥
तावदेव नरः स्वस्थः सारग्रहणतत्परः ।
विवेकी प्रयतेताशु भवबन्धविमुक्तये ॥२४३॥
देवर्षिपितृमर्त्यर्णबन्धमुक्तास्तु कोटिशः ।
भवबन्धविमुक्तस्तु यः कश्चिद्ब्रह्मवित्तमः ॥२४४॥
अन्तर्बन्धेन बद्धस्य किं बहिर्बन्धमोचनैः ।
तदन्तर्बन्धमुक्त्यर्थं क्रियतां कृतिभिः कृतिः ॥२४५॥
कृतिपर्यवसानैव मता तीव्रमुमुक्षुता ।
अन्या तु रञ्जनामात्रा यत्र नो दृश्यतेकृतिः ॥२४६॥
गेहादिसर्वमपहाय लघुत्वबुद्ध्या
सौख्येच्छया स्वपतिनानलमाविविक्षोः ।
कान्ताजनस्य नियता सुदृढा त्वरा या
सैषा फलान्तगमने करणं मुमुक्षोः ॥२४७॥
नित्यानित्यविवेकश्च देहक्षणिकतामतिः ।
मृत्योर्भीतिश्च तापश्च मुमुक्षावृद्धिकारणम् ॥२४८॥
शिरो विवेकस्त्वत्यन्तं वैराग्यं वपुरुच्यते ।
शमादयः षडङ्गानि मोक्षेच्छा प्राण इष्यते ॥२४९॥
ईदृशाङ्गसमायुक्तो जिज्ञासुर्युक्तिकोविदः ।
शूरो मृत्युं निहन्त्येव सम्यग्ज्ञानासिना ध्रुवम् ॥२५०॥
उक्तसाधनसंपन्नो जिज्ञासुर्यतिरात्मनः ।
जिज्ञासायै गुरुं गच्छेत्समित्पाणिर्नयोज्जलः ॥२५१॥
श्रोत्रियो ब्रह्मनिष्ठो यः प्रशान्तः समदर्शनः ।
निर्ममो निरहङ्कारो निर्द्वन्द्वो निष्परिग्रहः ॥२५२
अनपेक्षः शुचिर्दक्षः करुणामृतसागरः ।
एवंलक्षणसंपन्नः स गुरुर्ब्रह्मवित्तमः ॥
उपासाद्यः प्रयत्नेन जिज्ञासोः स्वार्थसिद्धये ॥२५३॥
जन्मानेकशतैः सदादरयुजा भक्त्या समाराधितो
भक्तैर्वैदिकलक्षणेन विधिना संतुष्ट ईश स्वयम् ।
साक्षाच्छ्रीगुरुमेत्य कृपया दृग्गोचरः सन्प्रभुः
तत्त्वं साधु विबोध्य तारयति तन्संसारदुःखार्णवात् ॥२५४॥
अविद्याहृदयग्रन्थिविमोक्षोऽपि भवेद्यतः ।
तमेव गुरुरित्याहुर्गुरुशब्दार्थवेदिनः ॥२५५॥
शिव एव गुरुः साक्षात् गुरुरेव शिवः स्वयम् ।
उभयोरन्तरं किंचिन्न द्रष्टव्यं मुमुक्षुभिः ॥२५६॥
बन्धमुक्तं ब्रह्मनिष्ठं कृतकृत्यं भजेद्गुरुम् ।
यस्य प्रसादात्संसारसागरो गोष्पदायते ॥२५७॥
शुश्रूषया सदा भक्त्या प्रणामैर्विनयोक्तिभिः ।
प्रसन्नं गुरुमासाद्य प्रष्टव्यं ज्ञेयमात्मनः ॥२५८॥
भगवन्करुणासिन्धो भवसिन्धोर्भवांस्तरिः ।
यमाश्रित्याश्रमेणैव परं पारं गता बुधाः ॥२५९॥
जन्मान्तरकृतानन्तपुण्यकर्मफलोदयः ।
अद्ये संनिहितो यस्मात्त्वत्कृपापात्रमस्म्यहम् ॥२६०॥
संप्रीतिमक्ष्णोर्वदनप्रसाद -
मानन्दमन्तःकरणस्य सद्यः ।
विलोकनं ब्रह्मविदस्तनोति
छिनत्ति मोहं सुगतिं व्यनक्ति ॥२६१॥
हुताशनानां शशिनामिनाना -
मप्यर्बुदं वापि न यन्निहन्तुम् ।
शक्नोति तद्धान्तमनन्तमान्तरं
हन्त्यात्मवेत्ता सकृदीक्षणेन ॥२६२॥
दुष्पारे भवसागरे जनिमृतिव्याध्यादिदुःखोत्कटे
घोरे पुत्रकलत्रमित्रबहुलग्राहाकरे भीकरे ।
कर्मोत्तुङ्गतरङ्गभङ्गनिकरैराकृष्यमाणो मुहु -
र्यातायातगतिर्भ्रमेण शरणं किंचिन्न पश्याम्यहम् ॥२६३॥
केन वा पुण्यशेषेण तव पादांबुजद्वयम् ।
दृष्टवानस्मि मामार्तं मृत्योस्त्राहि दयादृशा ॥२६४॥
वदन्तमेवं त्वं शिष्यं दृष्ट्यैव दयया गुरुः ।
दद्यादभयमेतस्मै मा भैष्टेति मुहुर्मुहुः ॥२६५॥
विद्वन्मृत्युभयं जहीहि भवतो नास्त्येव मृत्युः क्वचि -
न्नित्यस्य द्वयवर्जितस्य परमानन्दात्मनो ब्रह्मणः ।
भ्रान्त्या किंचिदवेक्ष्य भीतमनसा मिथ्या त्वया कथ्यते ।
मां त्राहीति हि सुप्तवत्प्रलपनं शून्यात्मकं ते मृषा ॥२६६॥
निद्रागाढतमोवृतः किल जनः स्वप्ने भुजङ्गादिना
ग्रस्तं स्वं समवेक्ष्य यत्प्रलपति त्रासाद्धतोऽस्मीत्यलम् ।
आप्तेन प्रतिबोधितः करतलेनातड्य पृष्टः स्वयं
किंचिन्नेति वदत्यमुष्य वचनं स्यात्तत्किमर्थं वद ॥२६७॥
रज्जोस्तु तत्त्वमनवेक्ष्य गृहीतसर्प -
भावः पुमानयमहिर्वसतीति मोहात् ।
आक्रोशति प्रतिबिभेति च कंपते त -
न्मिथ्यैव नात्र भुजगोऽस्ति विचार्यमाणे ॥२६८॥
तद्वत्त्वयाप्यात्मन उक्तमेत -
ज्जन्माप्ययव्याधिजराधिदुःखम् ।
मृषैव सर्वं भ्रमकल्पितं ते
सम्यग्विचार्यात्मनि मुञ्च भीतिम् ॥२६९॥
भवाननात्मनो धर्मानात्मन्यारोप्य शोचति ।
तदज्ञानकृतं सर्वं भयं त्यक्त्वा सुखी भव ॥२७०॥
शिष्यः -
श्रीमद्भिरुक्तं सकलं मृषेति
दृष्टान्त एव ह्युपपद्यते तत् ।
दार्ष्ट्राऽन्तिकेनैव भवादिदुःखं
प्रत्यक्षतः सर्वजनप्रसिद्धम् ॥२७१॥
प्रत्यक्षेणानुभूतार्थः कथं मिथ्यात्वमर्हति ।
चक्षुषो विषयं कुम्भं कथं मिथ्या करोम्यहम् ॥२७२॥
विद्यमानस्य मिथ्यात्वं कथं नु घटते प्रभो ।
प्रत्यक्षं खलु सर्वेषां प्रमाणं प्रस्फुटार्थकम् ॥२७३॥
मर्त्यस्य मम जन्मादिदुःखभाजोऽल्पजीविनः ।
ब्रह्मत्वमपि नित्यत्वं परमानन्दता कथम् ॥२७४॥
क आत्मा कस्त्वनात्मा च किमु लक्षणमेतयोः ।
आत्मन्यनात्मधर्माणामारोपः क्रियते कथम् ॥२७५॥
किमज्ञानं तदुत्पन्नभयत्यागोऽपि वा कथम् ।
किमु ज्ञानं तदुत्पन्नसुखप्राप्तिश्च वा कथम् ॥२७६॥
सर्वमेतद्यथापूर्वं करामलकवत्स्फुटम् ।
प्रविपादय मे स्वामिन् श्रीगुरो करुणानिधे ॥२७७॥
श्रीगुरुः -
धन्यः कृतार्थस्त्वमहो विवेकः
शिवप्रसादस्तव विद्यते महान् ।
विसृज्य तु प्राकृतलोकमार्गं
ब्रह्मावगन्तुं यतसे यतस्त्वम् ॥२७८॥
शिवप्रसादेन विना न सिद्धिः
शिवप्रसादेन विना न बुद्धिः ।
शिवप्रसादेन विना न युक्तिः
शिवप्रसादेनविना न मुक्तिः ॥२७९॥
यस्य प्रसादेन विमुक्तसङ्गाः
शुकादयः संसृतिबन्धमुक्ताः ।
तस्य प्रसादो बहुजन्म लभ्यो
भक्त्यैकगम्यो भवमुक्तिहेतुः ॥२८०॥
विवेको जन्तूनां प्रभवति जनिष्वेव बहुषु
प्रसादादेवैशाद्बहुसुकृतपाकोदयवशात् ।
यतस्तस्मादेव त्वमपि परमार्थावगमने
कृतारम्भः पुंसामिदमिह विवेकस्य तु फलम् ॥२८१॥
मर्त्यत्वसिद्ध्येरपि पुंस्त्वसिद्धे -
र्विप्रत्वसिद्धेश्च विवेकसिद्धेः ।
वदन्ति मुख्यं फलमेव मोक्षं
व्यर्थं समस्तं यदि चेन्न मोक्षः ॥२८२॥
प्रश्नः समीचीनतरस्तवायं
यदात्मतत्त्वावगमे प्रवृत्तिः ।
ततस्तवैतत्सकलं समूलं
निवेदयिष्यामि मुदा शृणुष्व ॥२८३॥
मर्त्यत्वं त्वयि कल्पितं भ्रमवशात्तेनैव जन्मादतः
तत्सम्भावितमेव दुःखमपि ते नो वस्तुतस्तन्मृषा ।
निद्रमोहवशादुपागतसुखं दुःखं च किं नु त्वया
सत्यत्वेन विलोकितं क्वचिदपि ब्रूहि प्रबोधागमे ॥२८४॥
नाशेषलोकैरनुभूयमानः
प्रत्यक्षतोऽयं सकलप्रपञ्चः ।
कथं मृषा स्यादिति शङ्कनीयं
विचारशून्येन विमुह्यता त्वया ॥२८५॥
दिवान्धदृष्टेस्तु दिवान्धकारः
प्रत्यक्षसिद्धोऽपि स किं यथार्थः ।
तद्वद्भ्रमेणावगतः पदार्थो
भ्रान्तस्य सत्यः सुमतेर्मृषैव ॥२८६॥
घटोऽयमित्यत्र घटाभिधानः
प्रत्यक्षतः कश्चिदुदेति दृष्टेः ।
विचार्यमाणे स तु नास्ति तत्र
मृदस्ति तद्भावविलक्षणा सा ॥२८७॥
प्रादेशमात्रः परिदृश्यतेऽर्कः
शास्त्रेण संदर्शितलक्षयोजनः ।
मानान्तरेण क्वचिदेति बाधां
प्रत्यक्षमप्यत्र हि न व्यवस्था ॥२८८॥
तस्मात्त्वयीदं भ्रमतः प्रतीतं
मृषैव नो सत्यमवेहि साक्षात् ।
ब्रह्म त्वमेवासि सुखस्वरूपं
त्वत्तो न भिन्नं विचिनुष्व बुद्धौ ॥२८९॥
लोकान्तरे वात्र गुहान्तरे वा
तीर्थान्तरे कर्मपरम्परान्तरे ।
शास्त्रान्तरे नास्त्यनुपश्यतामिह
स्वयंपरं ब्रह्म विचार्यमाणे ॥२९०॥
तत्त्वमात्मस्थमज्ञात्वा मूढः शास्त्रेषु पश्यति ।
गोपः कक्षगतं छागं यथा कूपेषु दुर्मतिः ॥२९१॥
स्वमात्मानं परं मत्वा परमात्मानमन्यथा ।
विमृग्यते पुनः स्वात्मा बहिः कोशेषु पण्डितैः ॥२९२॥
विस्मृत्य वस्तुनस्तत्वमध्यारोप्य च वस्तुनि ।
अवस्तुतां च तद्धर्मान्मुधा शोचति नान्यथा ॥२९३॥
आत्मानात्मविवेकं ते वक्ष्यामि श्रुणु सादरम् ।
यस्य श्रवणमात्रेण मुच्यतेऽनात्मबन्धनात् ॥२९४॥
इत्युक्त्वाभिमुखीकृत्य शिष्यं करुणया गुरुः ।
अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्चयन् ॥२९५॥
सम्यक्प्राबोधयत्तत्वं शास्त्रदृष्टेन वर्त्मना ।
सर्वेषामुपकाराय तत्प्रकारोऽत्र दर्श्यते ॥२९६॥