अन्तःकरणतद्वृत्तिद्रष्टृ नित्यमविक्रियम् ।
चैतन्यं यत्तदात्मेति बुद्ध्या बुध्यस्व सूक्ष्मया ॥४५७॥
एष प्रत्यक्स्वप्रकाशो निरंशोऽ -
संगः शुद्धः सर्वदैकस्वभावः ।
नित्याखण्डानन्दरूपो निरीहः
साक्षी चेता केवलो निर्गुणश्च ॥४५८॥
नैव प्रत्यग्जायते वर्धते नो
किंचिन्नापक्षीयते नैव नाशम् ।
आत्मा नित्यः शाश्वतोऽयं पुराणो
नासौ हन्यो हन्यमाने शरीरे ॥४५९॥
जन्मास्तित्वविवृद्धयः परिणतिश्चापक्षतिर्नाशनम्
दृश्यस्यैव भवन्ति षड्विकृतयो नानाविधा व्याधयः ।
स्थूलत्वादि च नीलताद्यपि मितिर्वणार्श्रमादिप्रथा
दृश्यन्ते वपुषो न चात्मन इमे तद्विक्रियासाक्षिणः ॥४६०॥
अस्मिन्नात्मन्यनात्मत्वमनात्मन्यात्मतां पुनः ।
विपरीततयाध्यस्य संसरन्ति विमोहतः ॥४६१॥
भ्रान्त्या मनुष्योऽहमहं द्विजोऽहम्
तज्ज्ञोऽहमज्ञोऽहमतीव पापी ।
भ्रष्टोऽस्मि शिष्टोऽस्मि सुखी च दुःखी -
त्येव विमुह्यात्मनि कल्पयन्ति ॥४६२॥
अनात्मनो जन्मजरामृतिक्षुधा -
तृष्णासुखक्लेशभयादिधर्मान् ।
विपर्ययेण ह्यतथाविधेऽस्मि -
न्नरोपयन्त्यात्मनि बुद्धिदोषात् ॥४६३॥
भ्रान्त्या यत्र यदध्यासस्तत्कृतेन गुणेन वा ।
दोषेणाप्यगुमात्रेण स न सम्बध्यते क्वचित् ॥४६४॥
किं मरुन्मृगतृष्णाम्बुपूरेणाद्रर्त्वमृच्छति ।
दृष्टिसंस्थितपीतेन शङ्खः पीतायते किमु ॥४६५॥
वातकल्पितनैल्येन व्योम किं मलिनायते ।
शिष्यः ---
प्रत्यगात्मन्यविषयेऽनात्माध्यासः कथं प्रभो ॥४६६॥
पुरो दृष्टे हि विषयेऽध्यस्यन्ति विषयान्तरम् ।
तद्दृष्टं शुक्तिरज्ज्वादौ सादृश्याद्यनुबन्धतः ॥४६७॥
परत्र पूर्वदृष्टस्यावभासः स्मृतिलक्षणः ।
अध्यासः स कथं स्वामिन् भवेदात्मन्यगोचरे ॥४६८॥
नानुभूतः कदाप्यात्माननुभूतस्य वस्तुनः ।
सादृश्यं सिद्ध्यति कथमनात्मनि विलक्षणे ॥४६९॥
अनात्मन्यात्मताध्यासः कथमेष समागतः ।
निवृत्तिः कथमेतस्य केनोपायेन सिद्ध्यति ॥४७०॥
उपाधियोग उभयोः सम एवेशजीवयोः ।
जीवस्यैव कथं बन्धो नेश्वरस्यास्ति तत्कथम् ॥४७१॥
एतत्सर्वं दयादृष्ट्या करामलकवत्स्फुटम् ।
प्रतिपादय सर्वज्ञ श्रीगुरो करुणानिधे ॥४७२॥
श्रीगुरुः ---
न सावयव एकस्य नात्मा विषय इष्यते ।
अस्यास्मत्प्रत्यार्थत्वादपरोक्षाच्च सर्वशः ॥४७३॥
प्रसिद्धिरात्मनोऽस्त्येव न कस्यापि च दृश्यते ।
प्रत्ययो नाहमस्मीति न ह्यस्ति प्रत्यगात्मनि ॥४७४॥
न कस्यापि स्वसद्भावे प्रमाणमभिकाङ्क्ष्यते ।
प्रमाणानां च प्रामाण्यं यन्मूलं किं तु बोधयेत् ॥४७५॥
मायाकार्यैस्तिरोभूतो नैष आत्मानुभूयते ।
मेघवृन्दैर्यथा भानुस्तथायमहमादिभिः ॥४७६॥
पुरस्थ एव विषये वस्तुन्यध्यस्यतामिति ।
नियमो न कृतः सद्भिर्भ्रान्तिरेवात्र कारणम् ॥४७७॥
दृगाद्यविषये व्योम्नि नीलतादि यथा बुधाः ।
अध्यस्यन्ति तथैवास्मिन्नत्मन्यपि मतिभ्रमात् ॥४७८॥
अनात्मन्यात्मताध्यासे न सादृश्यमपेक्षते ।
पीतोऽयं शङ्ख इत्यादौ सादृश्यं किमपेक्षितम् ॥४७९॥
निरुपाधिभ्रमेष्वस्मिन्नेवापेक्षा प्रदृश्यते ।
सोपाधिष्वेव तद्दृष्टं रज्जुसर्पभ्रमादिषु ॥४८०॥
तथापि किञ्चिद्वक्ष्यामि सादृश्यं श्रुणु तत्परः ।
अत्यन्तनिर्मलः सूक्ष्म आत्मायमतिभास्वरः ॥४८१॥
बुद्धिस्तथैव सत्त्वात्मा साभासा भास्वरामला ।
सांनिध्यादात्मवद्भाति सूर्यवत्स्फटिको यथा ॥४८२॥
आत्माभासं ततो बुद्धिर्बुद्ध्याभासं ततो मनः ।
अक्षाणि मन आभासान्यक्षाभासमिदं वपुः ।
अत एवात्मताबुद्धिर्देहाक्षादवनात्मनि ॥४८३॥
मूढानां प्रतिबिम्बादौ बालानामिव दृश्यते ।
सादृश्यं विद्यते बुद्धावात्मनोऽध्यासकारणम् ॥४८४॥
अनात्मन्यहमित्येव योऽयमध्यास ईरितः ।
स्यादुत्तरोत्तराध्यासे पूर्वपूर्वस्तु कारणम् ॥४८५॥
सुप्तिमूर्छोत्थितेष्वेव दृष्टः संसारलक्षणः ।
अनादिरेषविद्यातः संस्कारोऽपि च तादृशः ॥४८६॥
अध्यासबाधागमनस्य कारणम्
श्रुणु प्रवक्ष्यामि समाहितात्मा ।
यस्मादिदं प्राप्तमनर्थजातम्
जन्माप्ययव्याधिजराधिदुःखम् ॥४८७॥
आत्मोपाधेरविद्याया अस्ति शक्तिद्वयं महत् ।
विक्षेप आवृतिश्चेति याभ्यां संसार आत्मनः ॥४८८॥
आवृतिस्तमसः शक्तिस्तद्ध्यावरणकारणम् ।
मूलाविद्येति सा प्रोक्ता यया संमोहितं जगत् ॥४८९॥
विवेकवानप्यतियौक्तिकोऽपि
श्रुतात्मतत्त्वोऽपि च पण्डितोऽपि ।
शक्त्या यया संवृतबोधदृष्टि -
रात्मानमात्मस्थमिमं न वेद ॥४९०॥
विक्षेपनाम्नी रजसस्तु शक्तिः
प्रवृत्तिहेतुः पुरुषस्य नित्यम् ।
स्थूलादिलिङ्गान्तमशेषमेतद् -
यया सदात्मन्यसदेव सूयते ॥४९१॥
निद्रा यथा पूरुषमप्रमत्तम्
समावृणोतीयमपि प्रतीचम् ।
तथा वृणोत्यावृतिशक्तिरन्त -
र्विक्षेपशक्तिं परिजृम्भयन्ति . ॥४९२॥
शक्त्या महत्यावरणाभिधानया
समावृते सत्यमलस्वरूपे ।
पुमाननात्मन्यहमेष एवे -
त्यात्मत्वबुद्धिं विदधाति मोहात् ॥४९३॥
यथा प्रसुप्तिप्रतिभासदेहे
स्वात्मत्वधीरेष तथा ह्यनात्मनः ।
जन्माप्ययक्षुद्भयत्रुट्छ्रमादी -
नारोपयत्यात्मनि तस्य धर्मान् ॥४९४॥
विक्षेपशक्त्या परिचोद्यमानः
करोति कर्माण्युभयात्मकानि ।
भुञ्जान एतत्फलमप्युपात्तं
परिभ्रमत्येव भवाम्बुराशौ ॥४९५ ॥
अध्यासदोषात्समुपागतोऽयम्
संसारबन्धः प्रबलः प्रतीचः ।
यद्योगतः क्लिश्यति गर्भवास -
जन्माप्ययक्लेशभयैरजस्रम् ॥४९६॥
अध्यासो नाम खल्वेष वस्तुनो योऽन्यथाग्रहः ।
स्वाभाविकभ्रान्तिमूलं संसृतेरादिकारणम् ॥४९७॥
सर्वानर्थस्य तद्बीजं योऽन्यथाग्रह आत्मनः ।
ततः संसारसम्पातः संततक्लेशलक्षणः ॥४९८॥
अध्यासादेव संसारो नष्टेऽध्यासे न दृश्यते ।
तदेतदुभयं स्पष्टं पश्य त्वं बद्धमुक्तयोः ॥४९९॥
बद्धं प्रवृत्तितो विद्धि मुक्तं विद्धि निवृत्तितः ।
प्रवृत्तिरेव संसारो निवृत्तिर्मुक्तिरिष्यते ॥५००॥
आत्मनः सोऽयमध्यासो मिथ्याज्ञानपुरःसरः ।
असत्कल्पोऽपि संसारं तनुते रज्जुसर्पवत् ॥५०१॥
उपाधियोगसाम्येऽपि जीववत्परमात्मनः ।
उपाधिभेदान्नो बन्धस्तत्कार्यमपि किञ्चन ॥५०२॥
अस्योपाधिः शुद्धसत्त्वप्रधाना
माया यत्र त्वस्य नास्त्यल्पभावः ।
सत्त्वस्यैवोत्कृष्टता तेन बन्धो
नो विक्षेपस्तत्कृतो लेशमात्रः ॥५०३॥
सर्वज्ञोऽप्रतिबद्धबोधविभवस्तेनैव देवः स्वयम्
मायां स्वामवलम्ब्य निश्चलतया स्वच्छन्दवृत्तिः प्रभुः ।
सृष्टिस्थित्यदनप्रवेशयमनव्यापारमात्रेच्छया
कुर्वन्क्रीडति तद्रजस्तम उभे संस्तभ्य शक्त्या त्वया ॥५०४॥
तस्मादावृतिविक्षेपौ किंचित्कर्तुं न शक्नुतः ।
स्वयमेव स्वतन्त्रोऽसौ तत्प्रवृत्तिनिरोधयोः ॥५०५॥
तमेव सा धीकर्मेति श्रुतिर्वक्ति महेशितुः ।
निग्रहानुग्रहे शक्तिरावृतिक्षेपयोर्यतः ॥५०६॥
राजसस्तमसश्चैव प्राबल्यं सत्त्वहानतः ।
जीवोपाधौ तथा जीवो तत्कार्यं बलवत्तरम् ॥५०७॥
तेन बन्धोऽस्य जीवस्य संसारोऽपि च तत्कृतः ।
संप्राप्तः सर्वदा यत्र दुःखं भूयः स ईक्षते ॥५०८॥
एतस्य संसृतेर्हेतुरध्यासोऽर्थविपर्ययः ।
अध्यासमूलमज्ञानमाहुरावृत्तिलक्षणम् ॥५०९ ॥