जीवन्मुक्तिपदं त्यक्त्वा स्वदेहे कालसात्कृते ।
विश्त्यदेहमुक्तित्वं पवनोऽस्पन्दतामिव ॥९७९॥
ततस्तत्संबभूवासौ यद्गिरामप्यगोचरम् ।
यच्छुन्यवादिनां शून्यं ब्रह्म ब्रह्मविदां च यत् ॥९८०॥
विज्ञानं विज्ञानविदां मलानां च मलात्मकम् ।
पुरुषः सांख्यदृष्टीनामीश्वरोयोगवादिनाम् ॥९८१॥
शिवः शिवगमस्थानां कालः कालैकवादिनाम् ।
यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम् ।
यत्सर्वं सर्वगं वस्तु तत्तत्त्वंतदसौ स्मितः ॥९८२॥
ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते ।
चिन्मात्रमेव यस्तिष्ठेद्विदेहो मुक्त एव सः ॥९८३॥
यस्य प्रपञ्चभानं न ब्रह्माकारमपीह न ।
अतीतातीतभावो यो विदेहो मुक्त एव सः ॥९८४॥
चित्तवृत्तिरतीतो यश्चित्तवृत्त्यावभासकः ।
चित्तवृत्तिविहीनो यो विदेहो मुक्त एव सः ॥९८५॥
जीवात्मेति परात्मेति सर्वचिन्ताविवर्जितः ।
सर्वसंकल्पहीनात्मा विदेहो मुक्त एव सः ॥९८६॥
ओंकारवाच्यहीनात्मा सर्ववाच्यविवर्जितः ।
अवस्थात्रयहीनात्मा विदेहो मुक्त एव सः ॥९८७॥
अहिनिल्वयनीसर्पनिर्मोको जीववर्जितः ।
वल्मीके पतितस्तिष्ठेत्तं सर्पो नाभिमन्यते ॥९८८॥
एवं स्थूलं च सूक्ष्मं च शरीरं नाभिमन्यते ।
प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके ॥९८९॥
नेति नेतीत्यरूपत्वादशरीरो भवत्ययम् ।
विश्वश्च तैजसश्चैव प्राज्ञश्चेति च ते त्रयम् ॥९९०॥
विराङ् हिरण्यगर्भश्च ईश्वरश्चेति च ते त्रयम् ।
ब्रह्माण्डं चैव पिण्डाण्डं लोका भूरादयः क्रमात् ॥९९१॥
स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि ।
तूष्णीमेव ततस्तूष्णीं तूष्णीं सत्यं न किंचन ॥९९२॥
कालभेदं वस्तुभेदं देशभेदं स्वभेदकम् ।
किंचिद्भेदं न तस्यास्ति किंचिद्वापि न विद्यते ॥९९३॥
जीवेश्वरेति वाक्ये च वेदशास्त्रेष्वहं त्विति ।
इदं चैतन्यमेवेत्यहं चैतन्यमित्यपि ॥९९४॥
इति निश्चयशून्यो यो विदेहो मुक्त एव सः ।
ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽवस्तुतोऽपि च ॥९९५॥
तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखात्मकम् ।
शान्तं च तदतीतं च परं ब्रह्म तदुच्यते ॥९९६॥
सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि ।
नाविद्यास्तीह नो माया शान्तं ब्रह्मैव तद्विना ॥९९७॥
प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् ।
विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम् ॥९९८॥
यावद्यवच्च सद्बुद्धे स्वयं संत्यज्यतेऽखिलम् ।
तावत्तावत्परानन्दः परमात्मैव शिष्यते ॥९९९॥
यत्र यत्र मृतो ज्ञानी परमाक्षरवित्सदा ।
परे ब्रह्मणि लीयेत न तस्योत्कान्तिरिष्यते ॥१०००॥
यद्यत्स्वामिमतं वस्तु तत्त्यजन्मोक्षमश्नुते ।
असंकल्पेन शस्त्रेण छिन्नं चित्तमिदं यदा ॥१००१॥
सर्वं सर्वगतं शान्तं ब्रह्म संपद्यते तदा ।
इति श्रुत्वा गुरोर्वाक्यं शिष्यस्तु छिन्नसंशयः ॥१००२॥
ज्ञातज्ञेयः संप्रणम्य सद्गुरोश्चरणांबुजम् ।
स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ॥१००३॥
गुरुरेष सदानन्दसिन्धौ निर्मग्नमानसः ।
पावयन्सुधां सर्वं विचचार निरुत्तरः ॥१००४॥
इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् ।
निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ॥१००५॥
सर्ववेदान्तसिद्धान्तसारसंग्रहनामकः ।
ग्रन्थोऽयं हृदयग्रन्थिविच्छित्त्यै रचितः सताम् ॥१००६॥
इति
श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
सर्ववेदान्तसिद्धान्तसारसंग्रहः
संपूर्णः ॥
॥इति॥