श्रुणुष्वावहितो विद्वन्नद्य ते फलितं तपः ।
वाक्यार्तहश्रुतिमात्रेण सम्यग्ज्ञानं भविष्यति ॥७०३॥
यावन्न तत्त्वंपदयोरर्थः सम्यग्विचार्यते ।
तावदेव नृणां बन्धो मृत्युसंसारलक्षणः ॥७०४॥
अवस्था सच्चिदानन्दाखण्डैकरसरूपिणी ।
मोक्षः सिद्ध्यति वाक्यार्थापरोक्षज्ञानतः सताम् ॥७०५॥
वाक्यार्थ एव ज्ञातव्यो मुमुक्षोर्भवमुक्तये ।
तस्मादवहितो भूत्वा श्रुणु वक्ष्ये समासतः ॥७०६॥
अर्था बहुविधाः प्रोक्ता वाक्यानां पण्डितोत्तमैः ।
वाच्यलक्ष्यादिभेदेन प्रस्तुतं श्रूयतां त्वया ॥७०७॥
वाक्ये तत्त्वमसीत्यत्र विद्यते यत्पदत्रयम् ।
तत्रादौ विद्यमानस्य तत्पदस्य निगद्यते ॥७०८॥