मनःप्रसादसिद्ध्यर्थं साधनं श्रूयतां बुधैः ।
मनःप्रसादो यत्सत्त्वे यदभावे न सिद्ध्यति ॥१०४॥
ब्रह्मचर्यमहिंसा च दया भूतेष्ववक्रता ।
विषयेष्वतिवैतृष्ण्यं शौचं दम्भविवर्जनम् ॥१०५॥
सत्यं निर्ममता स्थैर्यमभिमानविसर्जनम् ।
ईश्वरध्यानपरता ब्रह्मविद्भिः सहस्थितिः ॥१०६॥
ज्ञानशास्त्रैकपरता समता सुखदुःखयोः ।
मानानासक्तिरेकान्तशीलता च मुमुक्षुता ॥१०७॥
यस्यैतद्विद्यते सर्वं तस्य चित्तं प्रसीदति ।
न त्वेतद्धर्मशून्यस्य प्रकारान्तरकोटिभिः ॥१०८॥
स्मरणं दर्शनं स्त्रीणां गुणकर्मानुकीर्तनम् ।
समीचीनत्वधीस्तासु प्रीतिः संभाषणं मिथः ॥१०९॥
सहवासश्च संसर्गोऽष्टधा मैथुनं विदुः ।
एतद्विलक्षणं ब्रह्मचर्यं चित्तप्रसादकम् ॥११०॥
अहिंसा वाङ्मनःकायैः प्राणिमात्राप्रपीडनम् ।
स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा ॥१११॥
अनुकंपा दया सैव प्रोक्ता वेदान्तवेदिभिः ।
करणत्रितयष्वेकरूपताऽवक्रता मता ॥११२॥
ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु ।
यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥११३॥
बाह्यमाभ्यन्तरं चेति द्विविधं शौचमुच्यते ।
मृज्जलाभ्यां कृतं शौचं बाह्यं शारीरिकं स्मृतम् ॥११४॥
अज्ञानदूरीकरणं मानसं शौचमान्तरम् ।
अन्तःशौचे स्थिते सम्यग्बाह्यं नावश्यकं नृणाम् ॥११५॥
ध्यानपूजादिकं लोके द्रष्टर्येव करोति यः ।
पारमार्थिकधीहीनः स दंभाचार उच्यते ॥११६॥
पुंसस्तथानाचरणमदंभित्वं विदुर्बुधाः ।
यस्त्वेन दृष्टं सम्यक्च श्रुतं तस्यैव भाषणम् ॥११७॥
सत्यमित्युच्यते ब्रह्म सत्यमित्यभिभाषणम् ।
देहादिषु स्वकीयत्वदृढबुद्धिविसर्जनम् ॥११८॥
निर्ममत्वं स्मृतं येन कैवल्यं लभते बुधः ।
गुरुवेदान्तवचनैर्निश्चितार्थे दृढस्थितिः ॥११९॥
तदेकवृत्त्या तत्स्थैर्यं नैश्चल्यं न तु वर्ष्मणः ।
विद्यैश्वर्यतपोरूपकुलवर्णाश्रमादिभिः ॥१२०॥
संजाताहङ्कृतित्यागस्त्वभिमानविसर्जनम् ।
त्रिभिश्च करणैः सम्यग्धित्वा वैषयिकीं क्रियाम् ॥१२१॥
स्वात्मैकचिन्तनं यत्तदीश्वरध्यानभीरितम् ।
छायेव सर्वदा वासो ब्रह्मविद्धिः सहस्थितिः ॥१२२॥
यद्यदुक्तं ज्ञानशास्त्रे श्रवणादिकमेषु यः ।
निरतः कर्मधीहीनो ज्ञाननिष्ठः स एव हि ॥१२३॥
धनकान्ताज्वरादीनां प्राप्तकाले सुखादिभिः ।
विकारहीनतैव स्यात्सुखदुःखसमानता ॥१२४॥
श्रेष्ठं पूज्यं विदित्वा मां मानयन्तु जना भुवि ।
इत्यासक्त्या विहीनत्वं मानानासक्तिरुच्यते ॥१२५॥
सच्चिन्तनस्य सम्बाधो विघ्नोऽयं निर्जने ततः ।
स्थेयमित्येक एवास्ति चेत्सैवैकान्तशीलता ॥१२६॥
संसारबन्धनिर्मुक्तिः कदा झटिति मे भवेत् ।
इति या सुदृढा बुद्धिरीरिता सा मुमुक्षुता ॥१२७॥
ब्रह्मचर्यादिभिर्धमैर्बुर्द्धेर्दोशनिवृत्तये ।
दण्डनं दम इत्याहुर्दमशब्दार्थकोविदाः ॥१२८॥
तत्तद्वृत्तिनिरोधेन बाह्येन्द्रियविनिग्रहः ।
योगिनो दम इत्याहुर्मनसः शान्तिसाधनम् ॥१२९॥
इन्द्रियेष्विन्द्रियार्थेषु प्रवृत्तेषु यदृच्छया ।
अनुधावति तान्येव मनो वायुमिवानलः ॥१३०॥
इन्द्रियेषु निरुद्धेषु त्यक्त्वा वेगं मनः स्वयम् ।
सत्त्वभावमुपादत्ते प्रसादस्तेन जायते ॥
प्रसन्ने सति चित्तेऽस्य मुक्तिः सिद्ध्यति नान्यथा ॥१३१॥
मनःप्रसादस्य निदानमेव
निरोधनं यत्सकलेन्द्रियाणाम् ।
बाह्येन्द्रिये साधु निरुध्यमाने
बाह्यार्थभोगे मनसो वियुज्यते ॥१३२॥
तेन स्वदौष्ट्यं परिमुच्य चित्तम्
शनैः शनैः शान्तिमुपाददाति ।
चित्तस्य बाह्यार्थविमोक्षमेव
मोक्षं विदुर्मोक्षणलक्षणज्ञाः ॥१३३॥
दमं विना साधु मनःप्रसाद -
हेतुं न विद्मः सुकरं मुमुक्षोः ।
दमेन चित्तं निजदोषजातं
विसृज्य शान्तिं समुपैति शीघ्रम् ॥१३४॥
प्राणायामाद्भवति मनसो निश्चलत्वं प्रसादो
यस्याप्यस्य प्रतिनियतदिग्देशकालाद्यवेक्ष्य ।
सम्यग्दृष्ट्या क्वचिदपि तया नो दमो हन्यते तत्
कुर्याद्धीमान्दममनलसश्चित्तशान्त्यै प्रयत्नात् ॥१३५॥
सर्वेन्द्रियाणां गतिनिग्रहेण
भोग्येषु दोषाद्यवमर्शनेन ।
ईशप्रसादाच्च गुरोः प्रसादा -
च्छान्तिं समायात्यचिरेण चित्तम् ॥१३६॥
आध्यात्मिकादि यद्दुःखं प्राप्तं प्रारब्धवेगतः ।
अचिन्तया तत्सहनं तितिक्षेति निगद्यते ॥१३७॥
रक्षा तितिक्षासदृशी मुमुक्षो -
र्न विद्यतेऽसौ पविना न भिद्यते ।
यामेव धीराः कवचीव विघ्ना -
न्सर्वांस्तृणीकृत्य जयन्ति मायाम् ॥१३८॥
क्षमावतामेव हि योगसिद्धिः
स्वाराज्यलक्ष्मीसुखभोगसिद्धिः ।
क्षमाविहिना निपतन्ति विघ्नै -
र्वतैर्हतापर्णचया इव द्रुमात् ॥१३९॥
तितिक्षया तपोदानं यज्ञस्तीर्थं व्रतं श्रुतम् ।
भूतिः स्वर्गोऽपवर्गश्च प्राप्यते तत्तदर्थिभिः ॥१४०॥
ब्रह्मचर्यमहिंसा च साधूनामप्यगहर्णम् ।
पराक्षेपादिसहनं तितिक्षोरेव सिद्ध्यति ॥१४१॥
साधनेष्वपि सर्वेषु तितिक्षोत्तमसाधनम् ।
यत्र विघ्नाः पलायन्ते दैविका अपि भौतिकाः ॥१४२॥
तितिक्षोरेव विघ्नेभ्यस्त्वनिवर्तितचेतसः ।
सिद्ध्यन्ति सिद्धयः सर्वा अणिमाद्याः समृद्धयः ॥१४३॥
तस्मान्मुमुक्षोरधिका तितिक्षा
संपादनीयेप्सितकार्यसिद्ध्यै ।
तीव्रा मुमुक्षा च महत्युपेक्षा
चोभे तितिक्षासहकारिकारणम् ॥१४४॥
तत्तत्कालसमागतामयततेः शान्त्यै प्रवृत्तो यदि
स्यत्तत्तत्परिहारकौषधरतस्तच्चिन्तने तत्परः ।
तद्भिक्षुः श्रवणादिधर्मरहितो भूत्वा मृतश्चेत्ततः
किं सिद्धं फलमाप्नुयादुभयथा भ्रष्टो भवेत्स्वार्थतः ॥१४५॥
योगमभ्यस्यतो भिक्षोर्योगाच्चलितचेतसः ।
प्राप्य पुण्यकृतांलोकानित्यादि प्राह केशवः ॥१४६॥
न तु कृत्वैव संन्यासं तूष्णिमेव मृतस्य हि ।
पुण्यलोकगतिं ब्रूते भगवान्न्यासमात्रतः ॥१४७॥
न च संन्यसनादेव सिद्धिं समधिगच्छति ।
इत्यनुष्ठेयसंत्यागात्सिद्ध्यभावमुवाच च ॥१४८॥
तस्मात्तितिक्षया सोढ्वा तत्तद्दुःखमुपागतम् ।
कुर्याच्छक्त्यनुरूपेण श्रवणादि शनैः शनैः ॥१४९॥
प्रयोजनं तितिक्षायाः साधितायाः प्रयत्नतः ।
प्राप्तदुःखासहिष्णुत्वे न किंचिदपि दृश्यते ॥१५०॥