व्यष्टिर्मलिनसत्त्वैषा रजसा तमसा युता ।
ततो निकृष्टा भवति योपाधिः प्रत्यगात्मनः ॥३१८॥
चैतन्यं व्यष्ट्यवच्छिन्नं प्रत्यगात्मेति गीयते ।
साभासं व्यष्ट्युपहितं सत्तादात्म्येन तद्गुणैः ॥३१९॥
अभिभूतः स एवात्मा जीव इत्यभिधीयते ।
किंचिज्ज्ञत्वानीश्वरत्वसंसारित्वादिधर्मवान् ॥३२०॥
अस्य व्यष्टिरहङ्कारकारणत्वेन कारणम् ।
वपुस्तत्राभिमान्यात्मा प्राज्ञ इत्युच्यते बुधैः ॥३२१॥
प्राज्ञत्वमस्यैकाज्ञानभासकत्वेन संमतम् ।
व्यष्टेर्निकृष्टत्वेनास्य नानेकाज्ञानभासनम् ॥३२२॥
स्वरूपाच्छादकत्वेनाप्यानन्दप्रचुरत्वतः ।
कारणं वपुरानन्दमयः कोश इतीर्यते ॥३२३॥
अस्यावस्था सुषुप्तिः स्याद्यत्रानन्दः प्रकृश्यते ।
एषोऽहं सुखमस्वाप्सं न तु किंचिदवेदिषम् ॥३२५॥
अभेद एव नो भेदो जात्येकत्वेन वस्तुतः ।
अभेद एव ज्ञातव्यस्तथेशप्राज्ञयोरपि ॥३२६॥
सत्युपाध्योरभिन्नत्वे क्व भेदस्तद्विशिष्टयोः ।
एकीभावे तरङ्गाब्ध्योः को भेदः प्रतिबिम्बयोः ॥३२७॥
अज्ञानतदवच्छिन्नाभासयोरुभयोरपि ।
आधारं शुद्धचैतन्यं यत्तत्तुर्यमितीर्यते ॥३२८॥
एतदेवाविविक्तं सदुपादिभ्यां च तद्गुणैः ।
महावाक्यस्य वाच्यार्थो विविक्तं लक्ष्य इष्यते ॥३२९॥