आशापाशशतेन पाशितपदो नोत्थातुमेव क्षमः
कामक्रोधमदादिभिः प्रतिभटैः संरक्षमाणोऽनिशम् ।
संमोहावरणेन गोपनवतः संसारकारागृहा -
न्निर्गतुं त्रिविधेषणापरवशः कः शक्नुयाद्रागिषु ॥४८॥
कामान्धकारेण निरुद्धदृष्टिर्मुह्यत्यसत्यप्यबलास्वरूपे ।
न ह्यन्धदृष्टेरसतः सतो वा सुखत्वदुःखत्वविचारणास्ति ॥४९॥
श्लेषोद्गारि मुखं स्रवन्मलवती नासाश्रुमल्लोचनम्
स्वेदस्रावि मलाभिपूर्णमभितो दुर्गन्धदुष्टं वपुः ।
अन्यद्वक्तुमशक्यमेव मनसा मन्तुं क्वचिन्नार्हति
स्त्रीरूपं कथमीदृशं सुमनसां पात्रीभवेन्नेत्रयोः ॥५०॥
दूरादवेक्ष्यग्निशिखां पतङ्गो रम्यत्वबुद्ध्या विनिपत्य नश्यति ।
यथा तथा नष्टदृगेष कथं निरीक्षेत् विमुक्तिमार्गम् ॥५१॥
कामेन कान्तां परिगृह्य तद्वज्जनोऽप्ययं नश्यति नष्टदृष्टिः ।
मांसास्थिमज्जामलमूत्रपात्रं स्त्रियं स्वयं रम्यतयैव पश्यति ॥५२॥
काम एव यमः साक्षात्कान्ता वैतरणी नदी ।
विवेकिनं मुमुक्षूणां निलयस्तु यमालयः ॥५३॥
यमालये वापि गृहेऽपि नो नृणां तापत्रयक्लेशनिवृत्तिरस्ति ।
किंचित्समालोक्य तु तद्विरामां सुखात्मना पश्यति मूढलोकः ॥५४॥
यमस्य कामस्य च तारतम्यं विचार्यमाणे महदस्ति लोके ।
हितं करोत्यस्य यमोऽप्रियः सन्कामस्त्वनर्थं कुरुते प्रियः सन् ॥५५॥
यमोऽसतामेव करोत्यनर्थं सतां तु सौख्यं कुरुते हितः सन् ।
कामः सतामेव गतिं निरुन्धन्करोत्यनर्थं ह्यसतां नु का कथा ॥५६॥
विश्वस्य वृद्धि स्वयमेव कांक्षन्प्रवर्तकं कामिजनं ससर्जम् .
तेनैव लोकः परिमुह्यमानः प्रवर्धते चन्द्रमसेव चाब्धिः ॥५७॥
कामो नाम महाञ्जगद्भ्रमयिता स्थित्वान्तरङ्गे स्वयम्
स्त्री पुंसावितरेतराङ्गकगुणैर्हासस्च भावैः स्फुटम् ।
अन्योन्यं परिमोह्य नैजतमसा प्रेमानुबन्धेन तौ
बद्ध्वा भ्रामयति प्रपञ्चरचनां संवर्धयन्ब्रह्महा ॥५८॥
अतोऽन्तरङ्गस्थितकामवेगाद्भोग्ये प्र्वृत्तिः स्वत एव सिद्धा ।
सर्वस्य जन्तोर्ध्रुवमन्यथा चेदबोधितर्थेषु कथं प्रवृत्तिः ॥५९॥
तेनैव सर्वजन्तूनां कामना बलवत्तरा ।
जीर्यत्यपि च देहेऽस्मिन्कामना नैव जीर्यते ॥६०॥
अवेक्ष्य विषये दोषं बुद्धियुक्तो विचक्षणः ।
कामपाशेन यो मुक्तः स मुक्तेः पथि गोचरः ॥६१॥
कामस्य विजयोपायं सूक्ष्मं वक्ष्यमहं सताम् ।
संकल्पस्य परित्याग उपायः सुलभो मतः ॥६२॥
श्रुते दृष्टेऽपि वा भोग्ये यस्मिन्कस्मिंश्च वस्तुनि ।
समीचीनत्वधीत्यागात्कामो नोदेति कर्हिचित् ॥६३॥
कामस्य बीजं संकल्पः संकल्पादेव जायते ।
बीजे नष्टेऽङ्कुर इव तस्मिन्नष्टे विनश्यति ॥६४॥
न कोऽपि सम्यक्त्वधिया विनैव भोग्यं नरः कामयितुं समर्थः ।
यतस्ततः कामजयेच्छुरेतां सम्यक्त्वबुद्धिं विषये निहन्यात् ॥६५॥
भोग्ये नरः कामजयेच्छुरेतां सुखत्वबुद्धिं विषये निहन्यात् ।
यावत्सुखत्वभ्रमधीः पदार्थे तावन्न जेतुं प्रभवेद्धि कामम् ॥६६॥
संकल्पानुदये हेतुर्यथाभूतार्थदर्शनम् ।
अनर्थचिन्तनं चाभ्यां नावकाशोऽस्य विद्यते ॥६७॥
रत्ने यदि शिलाबुद्धिर्जायते वा भयं ततः ।
समीचीनत्वधीर्नैति नोपादेयत्वधीरपि ॥६८॥
यतार्थदर्शनं वस्तुन्यनर्थस्यापि चिन्तनम् ।
संकल्पस्यापि कामस्य तद्वधोपाय इष्यते ॥६९॥