लक्षयत्यनया सम्यग्भाग्यलक्षणया ततः ।
सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमुद्वयम् ॥७६०॥
निर्विशेषं निराभासमतादृशमनीदृशम् ।
अनिर्देश्यमनाद्यन्तमनन्तं शान्तमच्युतम् ।
अप्रतर्क्यमविज्ञेयं निर्गुणं ब्रह्म शिष्यते ॥७६१॥
उपाधिवैशिष्ट्यकृतो विरोधो
ब्रह्मात्मनोरेकतयाधिगत्या ।
उपाधिवैशिष्ट्य उदस्यमाने
न कश्चिदप्यस्ति विरोध एतयोः ॥७६२॥
तयोरुपाधिश्च विशिष्टता च
तद्धर्मभाक्त्वं च विलक्षणत्वम् ।
भ्रान्त्या कृतं सर्वमिदं मृषैव
स्वप्नार्थवज्जाग्रति नैव सत्यम् ॥७६३॥
निद्रासूतशरीरधर्मसुखदुःखादिप्रपञ्चोऽपि वा
जीवेशादिभिदापि वा न च ऋतं कर्तुं क्वचिच्छक्यते ।
मायाकल्पितदेशकालजगदीशादिभ्रमस्तादृशः
को भेदोऽस्त्यनयोर्द्वयोस्तु कतमः सत्योऽन्यतः को भवेत् ॥७६४॥
न स्वप्नजागरणयोरुभयोर्विशेषः
संदृश्यते क्वचिदपि भ्रमजैर्विकल्पैः ।
यद्दृष्टदर्शनमुखैरत एव मिथ्या
स्वप्नो यथा ननु तथैव हि जागरोऽपि ॥७६५॥
अविद्याकार्यतस्तुल्यौ द्वावपि स्वप्नजागरौ ।
दृष्टदर्शनदृष्यादिकल्पनोभयतः समा ॥७६६॥
अभाव उभयोः सुप्तौ सर्वैरप्यनुभूयते ।
न कश्चिदनयोर्मेदस्तस्मान्मिथ्यात्वमर्हतः ॥७६७॥
भ्रान्त्या ब्रह्मणि भेदोऽयं सजातीयादिलक्षणः ।
कालत्रयेऽपि हे विद्वन् वस्तुतो नैव कश्चन ॥७६८॥
यत्र नान्यत्पश्यतीति श्रुतिर्द्वैतं निषेधति ।
कल्पितस्य भ्रमाद्भूम्नि मिथ्यात्वावगमाय तत् ॥७६९॥
यतस्ततो ब्रह्म सदाद्वितीयं
विकल्पशून्यं निरुपाधि निर्मलम् ।
निरन्तरानन्दघनं निरीहं
निरास्पदं केवलमेकमेव ॥७७०॥
नैवास्ति काचन भिदा न गुणप्रतीति -
र्नो वाक्प्रवृत्तिरपि वा न मनःप्रवृत्तिः ।
यत्केवलं परमशान्तमनन्तमाद्य -
मानन्दमात्रमवभाति सदद्वितीयम् ॥७७१॥
यदिदं परमं सत्यं तत्त्वं सच्चित्सुखात्मकम् ।
अजरामरणं नित्यं सत्यमेतद्वचो मम ॥७७२॥
न हि त्वं देहोऽसवसुरपि च वाप्यक्षनिकरो
मनो वा बुद्धिर्वा क्वचिदपि तथाहंकृतिरपि ।
न चैषं संघातस्त्वमु भवति विद्वन् श्रुणु परं
यदेतेषं साक्षी स्फुरणममलं तत्त्वमसि हि ॥७७३॥
यज्जायते वस्तु तदेव वर्धते
तदेव मृत्युं समुपैति काले ।
जन्मैव ते नास्ति तथैव मृत्यु -
र्नास्त्येव नित्यस्य विभोरजस्य ॥७७४॥
य एष दोहो जनितः स एव
समेधते नश्यति कर्मयोगात् ।
त्वमेतदीयास्वखिलास्ववस्था -
स्ववस्थितः साक्ष्यसि बोधमात्रः ॥७७५॥
यत्स्वप्रकाशमखिलात्मकमासुषुप्ते -
रेकात्मनाहमहमित्यवभाति नित्यम् ।
बुद्धेः समस्तविकृतेरविकारि बोद्धृ
यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥७७६॥
स्वात्मन्यनस्तमयसंविदि कल्पितस्य
व्योमादिसर्वजगतः प्रददाति सत्ताम् ।
स्फूर्तिं स्वकीयमहसा वितनोति साक्षात्
यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥७७७॥
सम्यक्समाधिनिरतैर्विमलान्तरङ्गे
साक्षादवेक्ष्य निजतत्त्वमपारसौख्यम् ।
सन्तुष्यते परमहंसकुलैरजस्रम्
यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥७७८॥
अन्तर्बहिः स्वयमखण्डितमेकरूप -
मारोपितार्थवदुदञ्चति मूढबुद्धेः ।
मृत्स्नादिवद्विगतविक्रियमात्मवेद्यं
यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥७७९॥
श्रुत्युक्तमव्ययमनन्तमनादिमध्य -
मव्यक्तमक्षरमनाश्रयमप्रमेयम् ।
आनन्दसद्धनमनामयमद्वितीयं
यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥७८०॥
शरीरतद्योगतदीयधर्मा -
द्यारोपणं भ्रान्तिवशात्त्वयीदम् ।
न वस्तुतः किंचिदतस्त्वजस्त्वं
मृत्योर्भयं क्वास्ति तवासि पूर्णः ॥७८१॥
यद्यद्दृष्टं भ्रान्तिमत्या स्वदृष्ट्या
तत्तत्सम्यग्वस्तुदृष्ट्या त्वमेव ।
त्वत्तो नान्यद्वस्तु किंचित्तु लोके
कस्माद्भीतिस्ते भवेदद्वयस्य ॥७८२॥
पश्यतस्त्वहमेवेदं सर्वमित्यात्मनाखिलम् ।
भयं स्याद्विदुषः कस्मात्स्वस्मान्न भयमिष्यते ॥७८३॥
तस्मात्त्वमभयं नित्यं केवलानन्दलक्षणम् ।
निष्कलं निष्क्रियं शान्तं ब्रह्मैवासि सदाद्वयम् ॥७८४॥
ज्ञातृज्ञानदेयविहीनं ज्ञातुरभिन्नं ज्ञानमखण्डम् ।
ज्ञेयाज्ञेयत्वादिविमुक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥७८५॥
अन्तःप्रज्ञत्वादिविकल्पैरस्पृष्टं यत्तद्दृशिमात्रम् ।
सत्तामात्रं समरसमेकं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥७८६॥
सर्वाकारं सर्वमसर्वं सर्वनिषेधावधिभूतं यत् ।
सत्यं शाश्वतमेकमनन्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥७८७॥
नित्यानन्दाखण्डैकरसं निष्कलमक्रियमस्तविकारम् ।
प्रत्यगभिन्नं परमव्यक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥७८८॥
त्वं प्रत्यस्ताशेशविशेषं व्योमेवान्तर्बहिरपि पूर्णम् ।
ब्रह्मानन्दं परमद्वैतं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥७८९॥
ब्रह्मैवाहमहं ब्रह्म निर्गुणं निर्विकल्पकम् ।
इत्त्येवाखण्डया वृत्त्या तिष्ठ ब्रह्मणि निष्क्रिये ॥७९०॥
अखण्डामेवैतां घटितपरमानन्दलहरीं
परिध्वस्तद्वैतप्रमितिममलां वृत्तिमनिशम् ।
अमुञ्चानः स्वात्मन्यनुपमसुखे ब्रह्मणि परे
रमस्व प्रारब्धं क्षपय सुखवृत्त्य त्वमनया ॥७९१॥
ब्रह्मानन्दरसास्वादतत्परेणैव चेतसा ।
समाधिनिष्ठतो भूत्वा तिष्ठ विद्वन्सदा मुने ॥७९२॥
शिष्यः -
अखण्डाख्या वृत्तिरेषा वाक्यार्थश्रुतिमात्रतः ।
श्रोतुः संजायते किं वा क्रियान्तरमपेक्षते ॥७९३॥
समाधिः कः कतिविधस्तत्सिद्धेः किमु साधनम् ।
समाधेरन्तरायाः के सर्वमेतन्निरुप्यताम् ॥७९४॥