जरायुजाण्डजस्वेदजोद्भिज्जाद्याश्चतुर्विधाः ।
स्वस्वकर्मानुरूपेण जातास्तिष्ठन्ति जन्तवः ॥४३४॥
यत्र जाता जरायुभ्यस्ते नराद्या जरायुजाः ।
अण्डजास्ते स्युरण्डेभ्यो जाता ये विहगादयः ॥४३५॥
स्वेदाज्जाताः स्वेदजास्ते यूका लूक्षादयोऽपि च ।
भूमिमुद्धिद्य ये जाता उद्धिज्जास्ते द्रुमादयः ॥४३६॥
इदं स्थूलवपुर्जातं भौतिकं च चतुर्विधम् ।
सामान्येन समष्टिः स्याआदेकधीविषयत्वतः ॥४३७॥
एतत्समष्ट्यवच्छिन्नं चैतन्यं फलसंयुतम् ।
प्राहुर्वैष्वानर इति विराडिति च वैदिकाः ॥४३८॥
वैश्वानरो विश्वनरेष्वात्मत्वेनाभिमानतः ।
विराट् स्याद्विविधत्वेन स्वयमेव विराजनात् ॥४३९॥
चतुर्विधं भूतजातं तत्तज्जातिविशेषतः ।
नैकधीविषयत्वेन पूर्ववद्व्यष्टिरिष्यते ॥४४०॥
साभासं व्यष्ट्युपहितं तत्तादात्म्यमुपगतम् ।
चैतन्यं विश्व इत्याहुर्वेदान्तनयकोविदाः ॥४४१॥
विश्वोऽस्मिन्स्थूलदेहेऽत्र स्वाभिमानेन तिष्ठति ।
यतस्ततो विश्व इति नाम्ना सार्थो भवत्ययम् ॥४४२॥
व्यष्टिरेषास्य विश्वस्य भवति स्थूलविग्रहः ।
उच्च्यतेऽन्नविकारित्वात्कोशोऽन्नमय इत्ययम् ॥४४३॥
देहोऽयं पितृभुक्तान्नविकाराच्छुक्ल शोणितात् ।
जातः प्रवर्धतेऽन्नेन तदभावे विनश्यति ॥४४४॥
तस्मादन्नविकारित्वेनायन्नमयो मतः ।
आच्छादकत्वादेतस्याप्यसेः कोशवदात्मनः ॥४४५॥
आत्मनः स्थूलभोगानामेतदायतनं विदुः ।
शब्दादिविषयान्भुङ्क्ते स्थूलान्स्थूलात्मनि स्थितः ॥४४६॥
बहिरात्मा ततः स्थूलभोगायतनमुच्यते ।
इन्द्रियैरुपनीतानां शब्दादीनामयं स्वयम् ।
देहेन्द्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः ॥४४७॥
एकादशद्वारवतीह देहे
सौधे महाराज इवाक्षवर्गैः ।
संसेव्यमानो विषयोपभोगा -
नुपादिसंस्थो बुभुजेऽयमात्मा ॥४४८॥
ज्ञानेन्द्रियाणि निजदैवतचोदितानि
कर्मेन्द्रियाण्यपि तथा मन आदिकानि ।
स्वस्वप्रयोजनविधौ नियतानि सन्ति
यत्नेन किङ्करजना इव तं भजन्ते ॥४४९॥
यत्रोपभुङ्क्ते विषयान्स्थूलानेष महामतिः ।
अहं ममेति सैषास्यावस्था जाग्रदितीर्यते ॥४५०॥
एतत्समष्टिव्यष्ट्योश्चोभयोरप्यभिमानिनोः ।
तद्विश्ववैश्वानरयोरभेदः पूर्ववन्मतः ॥४५१॥
स्थूलसूक्ष्मकारणाख्याः प्रपञ्चा ये निरूपिताः ।
ते सर्वेऽपि मिलित्वैकः प्रपञ्चोऽपि महान्भवेत् ॥४५२॥
महाप्रपञ्चावच्छिन्नं विश्वप्राज्ञादिलक्षणम् ।
विराडादीशपर्यन्तं चैतन्यं चैकमेव तत् ॥४५३॥
यदनाद्यन्तमव्यक्तं चैतन्यमजमक्षरम् ।
महाप्रपञ्चेन सहाविविक्तं सदयोऽग्निवत् ॥४५४॥
तत्सर्वं खल्विदं ब्रह्मेत्यस्य वाक्यस्य पण्डितैः ।
वाच्यार्थ इति निर्णीतं विविक्तं लक्ष इत्यपि ॥४५५॥
स्थूलाद्यज्ञानपर्यन्तं कार्यकारणलक्षणम् ।
दृश्यं सर्वमनात्मेति विजानीहि विचक्षण ॥४५६॥