श्रुत्युक्तार्थावगाहाय विदुषा ज्ञेयवस्तुनि ।
चित्तस्य सम्यगाधानं समाधानमितीर्यते ॥२१८॥
चित्तस्य साध्यैकपरत्वमेव
पुमर्थसिद्ध्येर्नियमेन कारणम् ।
नैवान्यथा सिद्ध्यति साध्यमीष -
न्मनःप्रमादे विफलः प्रयत्नः ॥२१९॥
चित्तं च दृष्टिं करणं तथान्य -
देकत्र बध्नाति हि लक्ष्यभेत्ता ।
किंचित्प्रमादे सति लक्ष्यभेत्तु -
र्बाणप्रयोगो विफलो यथा तथा ॥२२०॥
सिद्धेश्चित्तसमाधानमसाधारणकारणम् ।
यतस्ततो मुमुक्षूणां भवितव्यं सदामुना ॥२२१॥
अत्यन्ततीव्रवैराग्यं फललिप्सा महत्तरा ।
तदेतदुभयं विद्यात्समाधानस्य कारणम् ॥२२२॥
बहिरङ्गं श्रुतिः प्राह ब्रह्मचर्यादि मुक्तये ।
शमादिषट्कमेवैतदन्तरङ्गं विदुर्बुधाः ॥२२३॥
अन्तरङ्गं हि बलवद्बहिरङ्गाद्यतस्ततः ।
शमादिषट्कं जिज्ञासोरवश्यं भाव्यमान्तरम् ॥२२४॥
अन्तरङ्गविहीनस्य कृतश्रवणकोटयः ।
न फलन्ति यथा योद्धुरधीरस्यास्त्रसंपदः ॥२२५॥