रूपकालंकारः - लक्षण १
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथाभेदप्रधानेषु रूपकं तावन्निरूप्यते-
उपमेयतावच्छेदकपुरस्कारेणोपमेये शब्दान्निश्र्चीयमानमुपमान-तादात्म्यं रूपकम् । तदेवोपस्कारकत्वविशिष्टमलंकार: ॥
उपमेयतावच्छेदकपुरस्कारेणेति विशेषणादपह्लुतिभ्रान्तिमदतिशयो-क्तिनिदर्शनानां निरास: । अपह्लुतौ स्वेच्छया निषिध्यमानत्वात्, भ्रान्तिमति च तज्जनकदोषेणैव प्रतिबध्यमानत्वात्, अतिशयोक्तिनिदर्श-नयोश्च साध्यवसानलक्षणामूलकत्वात्, उपमेयतावच्छेदकस्य नास्ति पुरस्कार: । शब्दादिति विशेषणात् ‘ मुखमिंद चन्द्र: ’ इति प्रात्यक्षिका-
हार्यनिश्वयगोचरचन्द्रतादात्म्यव्यवच्छेद: । निश्चीयमानमिति विशेषणा-त्संभावनात्मनो ‘ नूनं मुखं चन्द्र: ’ इत्याद्युत्प्रेक्षाया व्यावृत्ति: । उपमानो-पमेयविशेषणाभ्यां सादृश्यलाभात् ‘ मुखं मनोरमा रामा ’ इत्यादिशुद्धारोप-विषयतादात्म्यनिरास: । सादृश्यमूलकमेव च तादात्म्यं रूपकमामनन्ति ।
तथा चाहु:-
‘ तद्रूपकमभेदो य उपमानोपमेययो: । ’
‘ उपमैव तिरोभूतभेदा रूपकमुच्यते । ’ इति ।
तच्च यत्र विषयविषयिणोरेकविभक्त्यन्तत्वेन निर्देशस्तत्र संसर्ग:, अन्यत्र तु शब्दार्थतया क्कचिद्विशेषणं विशेष्यं चेति विवेचयिष्यते ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP