संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|रूपकालंकारः| लक्षण २ रूपकालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २१ लक्षण २२ लक्षण २३ लक्षण २४ लक्षण २५ लक्षण २६ रूपकालंकारः - लक्षण २ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण २ Translation - भाषांतर यत्तु “ सादुश्यप्रयुक्त: संबन्धान्तरप्रयुक्तो वा यावान् भिन्नयो: सामानाधिकरण्यनिर्देश: स सर्वोऽपि रूपकम् । सारोपलक्षणामूलकत्वस्य तुल्यत्वेन साद्रुश्यप्रयुक्तस्य तादात्म्यस्येव संबन्धान्तरप्रयुक्तस्यापि तादा-त्म्यस्य संग्रहीतुमौचित्यात् । तस्मात् दुराग्रह एवायं प्राचाम्-उपमानो-पमेययोरभेदो रूपकम्, न तु कार्यकारणयो: ”इति रत्नाकरेणोक्तम्, तन्न । अपह्लुत्यादौ भिन्नयो: सामानाधिकरण्यस्य सत्त्वात्तत्रातिव्याप्ते: ।किं च ‘ सादृश्यमूलकं स्मरणं स्मरणालंकार:, न तु चिन्तादिमूलम् ’ इति भवतैव पूर्वमुदितम् । तत्र यदि सादृश्यामूलकस्यापि कार्यकारणादिकयो: कल्पितस्य तादूप्यस्य रूपकत्वमभ्युपेयते तदा सादृश्यामूलकस्य चिन्ता-दिमूलस्य स्मरणस्याप्यलंकारत्वमभ्युपेयताम् । न च स्मरणस्य भावत्वमु-च्यमानं निर्विषयं स्यादिति वाच्यम् । तस्य व्यज्यमानविषयत्वेनोपपत्ते: ।अप्ययदीक्षितास्तु-“-‘ बिम्बाविषिष्टे निर्दिष्टे विषये यद्यनिह्लुते । उपरञ्जकतामेति विषयी रूपकं तदा ॥’अत्र बिम्बाविशिष्ट इति विषयविशेषणात् ‘ त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधो: ॥’इति निदर्शनाया निरास: । तत्र विषयस्य मार्जनस्यालक्तकादिरूप-बिम्बविशिष्टत्वात् । निर्दिष्ट इति विशेषणान्निगीर्णविषयायाम् ‘ कमल-मनम्भसि कमले च कुवलये तानि कनकलतिकायाम् ’ इत्याद्यतिशयोक्तौ नातिव्याप्ति: । अनिह्लुते निषेधास्पृष्ट इति विशेषणादपह्लुतौ नातिव्याप्ति: । उपरञ्जकतामाहार्यतादूप्यनिश्चयगोचरतामेतीत्यनेन ससंदेहोत्प्रेक्षासमासो-क्तिपरिणामभ्रान्तिमत्स्वतिव्याप्तिनिरास: । ससंदेहोत्प्रेक्षयोर्निश्चयस्यैवा-भावात् । समासोक्तिपरिणामयोर्विषयितादूप्यस्यागोचरत्वात्, समासोक्तौ व्यवहारमात्रसमारोपात् । परिणामे चारोप्यमाणस्यैव विषयतादूष्यगो-चरत्वात् । भ्रान्तिमति च सत: कल्पितम्य वा प्रवृत्त्यादिपार्यन्तिकस्वार-सिकभ्रमस्यैव निबन्धनेन तस्यानाहार्यत्वात् । ” N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP