रूपकालंकारः - लक्षण २१

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


एवं मुखचन्द्र इत्यादाबुपमितसमासे तावदुपमैव । विशेषणसमासे तु रूपकम्‍ । बोधश्च शशिपुण्डरीकमित्यादाविव प्राक्प्रतिपादितदिशा बोध्य: ।

‘ मीनवती नयनाभ्यां करचरणाभ्यां प्रफुल्लकमलवती । शैवालिनी च केशै: सुरसेयं सुन्दरीसरसी ॥’

इत्यादौ तृतीयाया अभेदार्थकत्वात्तस्य च प्रागुक्तदिशा प्रतियोगि-त्वमुखस्यार्थवशादन्वये, नयननिष्ठाभेदप्रतियोगिमीनवतीति बोध: । मीनवत्त्वं च स्वाभिन्नद्वारकम्‍ । एतत्स्फोरणायैव नयनाभ्यामित्युक्तम्‍ । मीनाभिन्ननयनवतीति तु पर्यवसितम्‍ । नयनाभेदे तु मीनेषु गृह्यमाणे सरसीरूपकापोषणादित्युक्तमेव ।

साधारणधर्मश्चात्राप्युपमायामिव क्कचिदनुगामी क्कचिद्विम्बप्रति-

बिम्बभावमापत्र: क्कचिदुपचरित: क्कचिच्च केवलशब्दात्मा । सोऽपि क्कचिच्छब्देनोपात्त:, क्कचित्प्रतीयमानतया नोपात्त: ।

उपात्तोऽनुगामी यथा-

‘ जडानन्धान्पड्‍गून्प्रकृतिबधिरानुक्तिविकला-न्ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणीन्‍ । निलिम्पैर्निर्मुक्तानपि च निरयान्तर्निपततो नरानम्ब त्रातुं त्वमिह परमं भेजषमसि ॥’

अत्र त्रातुमिति तुमुन्नन्तेन शब्देनोपात्तं जडान्धादित्राणं भेषज भागीरथ्यो: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP