रूपकालंकारः - लक्षण ११

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


तदेव मालारूपं यथा-
‘ प्राचीसंध्यासमुद्यन्महिमदिनमणेर्मानमाणिक्यकान्ति-र्ज्वालामाला कराला कवलितजगत: क्तोधकालानलस्य । आज्ञा कान्तापदाम्भोरुहतलविगलन्मञ्जुलाक्षारसानां क्षोणीन्दो संगरे ते लसति नयनयोरुद्भटा शोणिमश्री: ॥

यद्यपि सावयवेऽप्यारोपे आरोपान्तरस्योपायस्तथापि तत्रारोपाति-रिक्तेन कविसमयसिद्धसादृश्येनाप्यारोपान्तरसिद्धि: संभवति । यथा प्रागुक्ते ‘ सुन्दरि राकासि नात्र संदेह: ’ इत्यत्र मौक्तिकादीनां तारात्वाद्या-रोपं विनाप्यौज्ज्वल्यमात्रेणापि सुन्दर्यां राकारोपसिद्धे:, इह तु नयन-शोणिम्रि ज्वालाद्यारोपोऽनलसमारोपं नियमेनापेक्षते । एवं ‘ कारुण्यकुसु-माकाश: खल: ’ इत्यत्राकाशखलयो: सादृश्यस्याप्रसिद्धतयारोपसिद्धयर्थ-मारोप एवोपाय इति वैलक्षण्यम्‍ ।

कश्चित्तु बह्लारोपात्मकात्सावयवादारोपद्वयात्मकमेवास्य वैलक्षण्ये बीजमित्याह ।

काव्यं सुधा रसज्ञानां कामिनां कामिनी सुधा । धनं सुधा सलोभानां शान्ति: संन्यासिनां सुधा ॥’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP