रूपकालंकारः - लक्षण २२

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अयमवानुक्तो यथा-

‘ समृद्धं सौभाग्यं सकलवसुधाया: किमपि त-न्महैश्वर्यं लीलाजनितजगत: खण्डपरशो: ।

श्रुतीनां सर्वस्वं सकृतमथ मूर्तं सुमनसां सुधासाम्राज्यं ते सलिलमशिवं न शमयतु ॥’

अत्र सौभाग्यभागीरथ्यो: स्वाभावव्यापकदौर्भाग्यत्व-परमोत्कर्षा-धायकत्वादिरनुपात्त: प्रतीयमानो धर्म: । एवमीश्वरासाधारणधर्मत्व-परमगोप्यत्व-निरतिशयसुखजनकत्वान्यापामरसकलजनजरामृत्युहरण-क्षमत्वं चोत्तरोत्तरारोपेष्वनुगामीति । बिम्बप्रतिबिम्बभावमापन्नो विशिष्टरूपकप्रसड्रे निरूपित: ।

उपचरितो यथा-

‘ अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम्‍ । अपि च मानसमम्बुनिधिर्यशो विमलशारदचन्दिरचन्द्रिका ॥’

अत्रामृतरूपके विषये वचस्युपचरितो मधुरिमातिशय: शब्देनोपात्त: । अम्बुनिध्यादिरूपके च गाम्भीर्याद्यनुपात्तम्‍ ।

केवलशब्दात्मको यथा-

‘ अड्कितान्यक्षसंघातै: सरोगाणि सदैव हि । शरीरिणां शरीराणि कमलनि न संशय: ॥’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP