रूपकालंकारः - लक्षण १३
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
कासारसंबन्ध्यभेदारोपस्य कल्पनान्नानुपपत्ति: । कथ्म तर्हि परम्परितरूपके ‘ सौजन्यचन्द्रिकाचन्द्रो राजा ’ इत्यादौ रूपकत्वम्, अभेदारोपस्य
सत्त्वेऽपि तस्य सादृश्यमूलकत्वाभावात् । इति चेत् , न । समर्थकारोपेण धर्मैक्यसंपादने सादृश्यस्य निष्प्रत्यूहत्वात् । स्यादेतत् । सौजन्यचन्द्रि-काचन्द्र इत्यत्र तत्पुरुषावयवे समानाधिकरणतत्पुरुषे चन्द्रिकायामभेदसं-सर्गेण सौजन्यस्य विशेषणत्वात्प्रतीयमानश्चन्द्रिकागत: सौजन्याभेदो न राजनि चन्द्राभेदात्मकं रूपकं समर्थयितुं प्रभवति, यत्संबन्धिनि यत्सं-बन्घ्यभेद इत्यादिप्रागुक्तन्यायात् । अपि तु सौजन्ये विषये चद्रिन्काभेद: ।
यथा-‘ सौजन्यं ते धराधीश चन्द्रिका त्वं सुधानिधि: ।’
स च दुरुपपाद एव । न चानयो: समानवित्तिवेद्यत्वान्नानुपपत्तिरिति शक्यं वत्तुम्,
प्रात्यक्षिके हि सामग्र्यास्तुयल्त्वात्तत् । न तु शाब्दबोधे व्युत्पत्तिवैचित्र्य-नियन्त्रिते । एवमन्यत्रापि कथं समासगतशुद्धपरम्परिते द्वयोरारोपयो-र्निर्वाह्मनिर्वाहकभाव: । कथं च शशिपुण्डरीकमित्यादौ पुण्डरीकरूपक-मुच्यते ? पुण्डरीकाभेदात्मकस्य पुण्डरीकतादूप्यस्याभानात् । शश्य-भेदप्रत्ययाच्च पुण्डरीकं शशीत्यत्रेव शशिरूपकमुच्यताम् । एवं नीलिम-दिव्यतोये तारावलीमुकुलमण्डलमण्डिते षोडशकलादलमड्कभृड्रमित्यत्रा-प्युत्तरपदार्थे पूर्वपदार्थाभेदस्यैव भानात्पूर्वपदार्थरूपकापत्ति: ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP