रूपकालंकारः - लक्षण २३
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अत्र सरोगशब्दादिरुपात्त एव प्रतीयते न लुप्त: । आद्यो ह्मभग्नो द्वितीयस्तु भग्न: ।
अयमेव साधारणो यत्र युक्तिरूपेणोपन्यस्यते तद्धेतुरूपकम् ।
यथा-
‘ पञ्चशाख: प्रभो यस्ते शाखा सुरतरोरसौ । अन्यथानेन पूर्यन्ते कथं सर्वमनोरथा: ॥ ’
एवम्-
‘ प्राणेशविरहक्लान्त: कपोलस्तव सुन्दरि । मनोभवव्याधिमत्त्वान्मृगाड्क: खलु निर्मल: ॥’
इह श्लेषेण रसचन्द्रयो: कपोले ताद्रूप्यप्रत्ययाहूइरूपकं निरवयवम् । हेतुस्तु त्रिषु श्लिष्ट एव " एवमन्येऽपि प्रकारा झेया: ।
‘ उल्लास: फुल्लपड्केरुहपटलपतन्मत्तपुष्पंधयानां निस्तार: शोकदावानलविकलह्लदां कोकसीमन्तिनीनाम् । उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपात: संघात: कोऽपि धाम्रामयमुदयगिरिप्रान्तत: प्रादुरासीत् ॥’
अत्रोपमेय उपमानस्य नारोप:, अपि तु कारणे कार्यस्येति रूपकं न भवतीति प्राञ्च: । एतन्मतानुसारेणैवास्माभिरपि लक्षितम् । उच्छृड्खला: पुनरारोपमात्रं रूपकं वदन्त इहापि रूपकमेवाचक्षत इति प्रागेव निरूपितम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP