रूपकालंकारः - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


इत्याहु: । तन्न । ‘ त्वप्ता-दनखरत्नानाम्‍ ’ इत्यादिनिदर्शनाव्यावृत्त्यर्थ्म बिम्बाविशिष्टत्वं विषयविशे-षणं तावदयुक्तमेव । यद्यत्र ‘ मुखं चन्द्र: ’ इत्यादिरूपकान्तर इव सत्यपि श्रौतारोपे नेदं रूपकम्‍, अपि तु निदर्शनेत्युच्यते, तद ‘ मुखं चन्द्र: ’ इत्यपि निदर्शनेत्युच्यताम्‍ । निरस्यतां च रूपकदाक्षिण्यकौपीनम्‍ । किं च ‘ त्वत्पाद-’ इत्यत्र किं पदार्थनिदर्शना, आहोस्विद्वाक्यार्थनिदर्शना ? नाद्य: । बिम्बप्रतिबिम्बभावापन्नपदार्थघटितविशिष्टार्थयोरेवात्राभेद-

प्रतीते: । कुवलयानन्दगतनिदर्शनाप्रकरणे त्वयोक्तमार्गेण धर्म्यन्तरे पदार्थे तदवृत्तिधर्मस्य पदार्थस्य भेदेनारोपस्याभावाच्च । न द्वितीय: । वाक्यार्थरूपकोच्छित्त्यापत्ते: । इष्टापत्तौ वैपरीत्यस्य सुवचत्वाच्च । अस्माभिर्निदर्शनाप्रकारणे वक्ष्यमाणया सरण्या अभेदस्य श्रौतत्वार्थत्वा-भ्यामुद्देश्यविधेयभावालिड्रनानालिड्रनाभ्यां च रूपकनिदर्शनयोर्वैलक्ष-ण्येन सकलव्यवस्थोपपत्ते: । तस्मादत्र वाक्यार्थरूपकमेव, न वाक्यार्थ-निदर्शना । तस्याश्चैवमुदाहरणं निर्मातव्यम्‍-

‘ त्वत्पादनखरत्नानि यो रञ्जयति यावकै: । इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि स: ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP