रूपकालंकारः - लक्षण २४

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


ननु-

‘ यश:सौरभ्यलशुन: शान्तिशैत्यहुताशन: । कारुण्यकुसुमाकाश: पिशुन: केन वर्ण्यते ॥’

इत्यत्र लशुनहुताशनाकाशै: पिशुनस्य किं साधर्म्यम्‍, येन तेषामस्मिन्‍-रूपकमुच्यत इति चेत्‍, यश:सौरभ्ययो: शान्तिशैत्ययो: कारुण्यकुसुमयोश्च तादूप्ये शब्दादुपस्थापितेऽनन्तरमुपस्थितं यशोरूपसौरभ्याद्यभाववत्त्वमे-तत्‍ । एवमपि लशुनखलयोस्तादूप्यसिद्धौ सत्यां लशुनरूपखलावृत्तित्वेन

यश: सौरभ्ययोस्तादूप्यं सिद्धयेत्‍, यश:सौरभ्ययोस्तादूप्यसिद्धौ च यशो-रूपसौरभ्यशून्यत्वेन लशुनखलयोस्तादूप्यम्‍, इत्यन्योन्याश्रयो नाशड्क-नीय: । सकलसिद्धे: कल्पनामयत्वेन, कल्पनायाश्च स्वप्रतिभाधीनत्वात्‍ । शिल्पिभि: परस्परावष्टम्भमात्राधीनस्थितिकामि: शिलेष्टकाभिर्गृहविशेष-निर्माणाच्च ।

अथास्य ध्वनि:-
तत्र शब्दशक्तिमूलो यथा-
‘ विज्ञत्वं विदुषां गणे सुकवितां सामाजिकानां कुले माड्रल्यं स्वजनेषु गौरवमथो लोकेषु सर्वेष्वपि ।

दुर्वृत्ते शनितां नृलोकवलये राजत्वमव्याहतं मित्रत्वं च वहन्नकिंचनजने देव त्वमेको भुवि ॥’

अत्र शक्तिनियन्त्रणेऽपि बुधत्वशुक्तत्वादीनि बुधाद्यभेदरूपाणि राजनि व्यज्यन्ते ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP