रूपकालंकारः - लक्षण ८

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


एकदेशविवर्ति सावयवं यथा-

‘ भवग्रीष्मप्रौढातपनिवहसंतप्तवपुषो बलादुन्मूल्य द्राडिगडमविवेकव्यतिकरम्‍ । विशुद्धे‍ऽस्मिन्नात्मामृतसरसि नैराश्यशिशिरे विगाहन्ते दूरीकृतकलुषजाला: सुकृतिन: ॥’

अत्र सहचरैर्निगडादिरूपकै: सुकृतिषु गजरूपकमाक्षिप्यते । यथा वा-

‘ रूपजला चलनयना नाभ्यावर्ता कचावलीभुजगा । मज्जन्ति यत्र सन्त: सेयं तरुणीतरड्रिणी विषमा ॥’

पूर्व तु कवे: समर्थ्यत्वेनाभिमतस्य रूपकस्याक्षेप:, इह तु समर्थ-

कत्वेनाभिमतस्य नयनयोर्मीनरूपकस्येति विशेष: । अत्र च चमत्कार-विशेषजनकतया रूपकसंघातात्मकमपि सावयवरूपकं रूपकालंकृतिभेद-गणनायां गण्यते । यथा मौक्तिकालंकृतिभेदगणनायामेकं नासामौक्तिक-मिव संघातात्मकमौक्तिकमञ्जर्यादयोऽपि गण्यन्ते । अन्यथा मालारूप-स्योपमादेस्तद्भेदगणनेऽगणनप्रसड्रात्‍ । एतेन ‘ गवां संघातो गोभेदानां कपिलादीनां गणनायां यथा न गण्यते तथा रूपकभेदगणनाप्रस्तुतौ न

तत्संघातात्मकं सावयवं गणनीयम्‍ ’ इति परास्तम्‍ । एवमस्मात्संघाता-त्मकात्सावयवान्मालारूपकस्य संघातात्मकत्वेनाविशेषेऽप्येकविषयकत्व-परस्परनिरपेक्षत्वाभ्यामस्ति महान्विशेष: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP