रूपकालंकारः - लक्षण १८
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अथ बोधो विचार्यते-
तत्र प्राञ्च: -“विषयिवाचकपदेन विषयिवृत्तिगुणवतो लक्षणया सारोपयोपस्थितौ, विषये तस्याऽभेदेन संसर्गेण विशेषणतयान्वय: । एवं च मुखं चन्द्र इत्यत्र चन्द्रवृत्तिगुनवदभिन्नं सुखमिति धी: । अत एवालंकारभाष्यकार: ‘ लक्षणापरमार्थं यावता रूपकम् ’ इत्याह । न च चन्द्रसदृशं मुखमित्युपमातोऽस्य को भेद: । बोधवैलक्षण्याभावेन विच्छित्ति-वैलक्षण्याभावात् । वृत्तिमात्रवैलक्षण्यस्याप्रयोजकत्वादिति वाच्यम् । लाक्षणिकबोधोत्तरं जायमानेन प्रयोजनीभूतेनाभेदबोधेनैव वैलक्षण्यात् ।
निरूढलक्षणातिरिक्ताया लक्षणाया: प्रयोजनवत्तानियमात् । अभेदबुद्धेश्च वृत्तन्तरवित्तिभाव्यत्वेन न बाधबुद्धिप्रतिबध्यत्वम् ” इत्याहु: ।
नव्यास्तु-“ नामार्थयोरभेदसंसर्गेणान्वयम्य व्युत्यत्तिसिद्धत्वाच्चन्द्रा-
भिन्नं मुखमिति लक्षणां विनैव बोध: । फलस्यान्यथैवोपपत्तेर्लक्षणाकल्प-नस्यान्याय्यत्वात् । किं च यदि च रूपके लक्षणा स्यान्मुख चन्द्र इत्यत्रो-पमितविशेषणसमासयोरुत्तरपदस्य लाक्षणिकत्वाविशेषादेकस्योपमात्वम-न्यस्य रूपकत्वमिति व्याहतं स्यात् । अपि च मुखं न चन्द्रसदृशमपि तु चन्द्र इत्यादौ सादृश्यव्यतिरेकमिश्रिते सादृश्यबुद्धेरयोगात । एवं देव-दत्तमुखं चन्द्र एव, यज्ञदत्तमुखं तु न तथा, अपि तु चन्द्रसदृशमित्यादौ नञर्थस्य लक्ष्यमाणचन्द्रसदृशान्वयित्वात्,‘ न चन्द्रसदृशश्चन्द्रसदृशम् ’
इति बोधकदर्शनापत्तेश्च । नहि नञ: फलीभूतज्ञानविषयेणाभेदेनान्वयो युक्त:, एतदन्वयवेलायां तस्यानुपस्थिते: । तादृशाभेदबोधस्य चाहार्यत्वान्न बाधबुद्धिप्रतिबध्यत्वम् । यद्वा आहार्यान्यत्वस्येव शाब्दान्यत्वस्यापि बाध-निश्चयप्रतिबध्यतावच्छेदककोटौ निवेश: । सति च बाधनिश्चये तद्वत्ता-शाब्दबुद्धेरनुत्पाद:, योग्यताज्ञानविरहात् । सति च क्कचिदाहार्ये योग्य-ताज्ञाने तद्बुद्धेरिष्टत्वात् । अत एव योग्यताज्ञानस्य बाधनिश्चयपराहतस्यापि शाब्दधीहेतुत्वम् । तस्मादेतदन्यतरप्रकारेण काव्ये सर्वत्र बोधोपपत्ति: ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP