रूपकालंकारः - लक्षण ६
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
इत्याद्यपह्लुत्युप्रेक्षादीनां बाधकत्वात्तत्परिगृहीतविषयातिरिक्तो रूपकस्य ‘ मुखं चन्द्र: ’ इत्यादिर्विषय: स्यात् । यथा ‘ शरमयं बर्हि: ’ इत्येतद्विषया-तिरिक्त: ‘ कुशमयं बर्हि: ’ इत्यस्य । यथा वा क्सादेशविषयातिरिक्तो विषय: सिच: । लोकेऽपि यथा ‘ ब्राह्मणेभ्यो दधि देयम६, तक्रं कौण्डि-न्याय’ इत्यत्र तक्तसंप्रदानातिरिक्तं दध्न: संप्रदानमिति वाच्यम् । वैष-
म्यात् । विशेषशास्त्रं हि स्वविषयातिरिक्तं विषयं ग्राहयत्सामान्यशास्त्रस्य बाधकमित्युच्यते । प्रकृते च रूपकस्य लक्षणं धर्म: । स यद्युत्प्रेक्षादिवृत्ति: स्यात् कस्तमस्माद्विषयान्निरस्य विषयान्तरं ग्राहयेत् । नहि घटत्वं स्वाधिकरणात्पृथिवीत्वं द्रव्यत्वं वा निरम्य विषयान्तरं ग्राहयितुमीष्टे । तस्मादतिप्रसक्तिर्लक्षणेऽस्मिन्दोष: । ननु संभावनात्मिकोत्प्रेक्षा, कथं तस्यामभेदत्वात्मकरूपकलक्षणातिप्रसक्तिरिति चेत् । नहि । विनिगमका-भावेन संभाव्यमानाभेदस्याप्युत्प्रेक्षास्वरूपत्वात् । विषयसंभावनाऽभेदा-भ्यामुत्प्रेक्षायामलंकारद्वयव्यवहारापत्तेश्च । निश्चीयमानत्वेनाभेदो विशेष-णीय इति चेदस्मदुक्त एव तर्हि पर्यवसितिरिति दिक् ।
तदिदं रूपकं सावयवं निरवयवं परम्परितं चेति तावत्रिविधम् । तत्राद्यं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विविधम् । द्वितीयमपि केवलं मालारूपकं चेति द्विविधम् । तृतीयं च श्लिष्टपरम्परितं शुद्धपरम्परितं चेति द्विविधं सत्प्रत्येकं केवलमालारूपत्वाभ्यां चतुर्विधमित्यष्टविधमाहु: ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP