रूपकालंकारः - लक्षण ४
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अत्र कर्त्रोरभेदस्य शाब्दत्वेऽपि क्तिययोरभेदस्याशाब्दत्वात्तस्यैव च समग्रभरसहिष्णुत्वान्निदर्शनैव । ननु यदीदमुदाहरणं निदर्शनायां न स्यात्तदा कथमलंकारसर्वस्वकृता तत्प्रकरण उदाह्लतमिति चेत्, भ्रान्तेनैव प्रतारितोऽसि । नहि प्रामाणिकेन भवता कदापि परेणानुक्तं किंचिदुच्यते । यदपि रूपके बिम्बप्रतिबिम्बभावो नास्तीत्युक्तं तदपि भ्रान्त्यैव । तथा च सर्वस्वटीकायां विमर्शिन्यामुदाह्लत्म बिम्बप्रतिबिम्बभावेन रूपकम्-
‘ कंदर्पद्विपकर्णकम्बु मलिनैर्दानाम्बुभिर्लाञ्छित्म संलग्नाञ्जनपुञ्जकालिमकलं गण्डोपधानं रते: । व्योमानोकहपुष्पगुच्छमलिभि: संछाद्यमानोदरं पश्यैतच्छशिन: सुधासहचरं बिभ्बं कलड्काड्कितम् ॥’
अत्र कलड्कस्य दानाम्ब्वादिभि: प्रतिबिम्बनम्, लञ्छितत्वाड्कितत्वयो: शुद्धसामान्यरूपत्वमित्युक्तं चेत्यास्तां तावत् । तथा निर्दिष्टे शब्देनाभिहिते इत्यस्य येनकेनचिदूपेण शब्देनाभिहित इत्यर्थ:, उताहो उपमेयतावच्छेदक-रूपेण शब्देनाभिहिते ? । आद्ये ‘ सुन्दरं कमलं भाति लतायामिदमद्भुतम् ’
इत्यत्रातिप्रसड्र । सुन्दरपदेन सुन्दरत्वेन रूपेण इदंपदेन च विषय-स्याननस्य प्रतिपादनात् । न चात्र सुन्दरपदार्थस्यारोप्यमाणकमलान्वय एव, न तु वदनरूपविषयान्वय इति वाच्यम् । कमलपदेन कमलतादूप्ये-णाननस्यैव लक्षणयोपस्थानात्तत्रैव सुन्दरादिपदार्थान्वयो युक्त:, न तु विशेषणीभूते कमले । अथ तादृशं विषयमुद्दिश्य विषयितादूप्यं यत्र विधीयते इत्यपि लक्षणवाक्यार्थ: । प्रकृते च सुन्दरत्वावच्छिन्नमुद्दिश्य कमलतादूप्यस्याविधानान्नातिप्रसड्र इति चेत् । न । मुखचन्द्रस्तु सुन्दर: ’ इत्यादिरूपके समासगतयोर्विषयविषयिणो: पृथग्विभक्तिमन्तरेणोद्देश्य-
N/A
References : N/A
Last Updated : January 17, 2018
TOP