रूपकालंकारः - लक्षण २५

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


यथा वा-

‘ अविरलविगलद्दानोदकधाराऽऽसारसिक्तधरणितल: । धनदाग्रमहितमूर्तिर्देव त्वं सार्वभौमोऽसि ॥’

अर्थशक्तिमूलो यथा-

‘ कस्तूरिकातिलकमालि विधाय सायं स्मेरानना सपदि शीलय सौधमौलिम्‍ । प्रौढिं भजन्तु कुभुदानि मुदामुदारा-मल्लासयन्तु परितो हरितो मुखानि ॥’

अत्र त्वदीयमाननं कलड्क-चन्द्रिका-विशिष्टचन्द्राभिन्नमिति रूपकं कुमु-दविकासादिना धन्यते, न तु भ्रांतिमान्‍ । कुमुदानां हरितां चाचेतन-त्वात्‍ । न चाचेतनेषु मुदामसंभवादवश्यं कुमुदादिषु चेतनत्वारोपेण भा-व्यम्‍, तेन च भ्रान्तिसिद्धिरिति वाच्यम्‍ । मुत्पदस्य विकासे लाक्षणिकत्वात्‍ ।

इदं वा विविक्तमुदाहरणम्‍-
‘ तिमिरं हरन्ति हरितां पुर: स्थितं तिरयन्ति तापमथ तापशालिनाम्‍ । वदनत्विषस्तव चकोरलोचने परिमुद्रयन्ति सरसीरुहश्रिय: ॥’

इहापि वदनं चन्द्र इति गम्यते ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP