रूपकालंकारः - लक्षण २६

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


आनन्दवर्धनाचार्यास्तु-

“ प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदधा-न्निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि । सेतुं बघ्नाति भूय: किमिति दधत इवाभाति कम्प: पयोधे: ॥’

अत्र रूपकाश्रयेण काव्यचारुत्वव्यवस्थापनादूपकध्वनि: ” इत्याहु: । तच्चिन्त्यम्‍ । अत्र च जलधिकम्पहेतुत्वेन विकल्पत्रयं कल्प्यते । तच

प्रकृते राजविशेष्यिकां जलनिधिगतामनाहार्यविष्णुतादात्म्यज्ञानरूपां भ्रांतिमेवाक्षिपति, न रूपकम्‍ । तज्जीवातोराहार्यविष्णुतादात्म्यनिश्चयस्य कम्पाजनकत्वात्‍ । कविजलधिगतत्वेन वैयधिकरण्याच्च । अज्ञातमेव केबलं विष्णुतादात्म्यं जलधे: कम्पेऽनुपयुक्तमेव । चमत्कारिण्यपि चात्र भ्रान्तिरेवेति ध्वनिरपि तस्या एव युक्त: ।

अथास्यापि कविसमयविरुद्धतया चमत्कारापकर्षका लिड्रभेदादयो दोषा: संभवन्ति ।

यथा-

‘ बुद्धिरब्धिर्महीपाल यशस्ते सुरनिम्रगा । कृतयस्तु शरत्कालचारुचन्दिरचन्द्रिका ॥’

अत्र विषयविषयिणोर्लिड्रादिकृतं वैलक्षण्यं तयोस्तादूप्यबुद्धौ प्रतिकूलम्‍ । क्कचित्कविसमयसिद्धतया चमत्कारहानिराहित्ये तु नामी दोषा: । यथा ‘ संतापशान्तिकारित्वाद्वदनं तव चन्द्रमा: ’ इत्यादौ हेतुरूपके ।

इति रसगड्राधरे निरूपितं रूपकप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP