रूपकालंकारः - लक्षण १७
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
भावो नास्ति इति केनाप्यालंकारिकंमन्येन प्रतारितस्य दीर्घश्रवस उक्तिर-पद्धेयैव । ययोरिवादिशब्दप्रयोगे उपमा तयोरेकत्रान्यारोपे रूपकमिति नियमात् । अत्र यदि रूपकं नाड्रीकुरुषे मैवाड्रीकुर, तर्हि तत्रेवयथादि-शब्दप्रयोगे उपमामपि । एवं ‘ त्वयि कोपो महीपाल सुधांशाविव पावक : ’ इत्यादौ स्वकल्पितेन विशिष्टेन धर्मिणा सादृश्यस्य प्रत्ययादुपमां ब्रूषे, ब्रूहि
तर्हि तत्रैवेवस्य निरासे ‘ त्वयि कोपो महीपाल सुधांशौ हव्यवाहन: ’
इत्यादौ रूपकमपि ।
तथा-
‘ कुड्कुमद्रवलिप्ताड्र: काषायवसनो यति: । कोमलातपबालाभ्र: संध्याकालो न संशय: ॥ ’
इत्यादावपि विशिष्टरूपकं बोध्यम् । त्वयि कोप इत्यत्र विषयिण: । स्वबुद्धिकल्पितत्वात्कल्पितं विशिष्टरूपकम् । इह तु न तथेति विशेष: । न चैवमादौ प्रतीयमानोत्प्रेक्षा वक्तुं शक्या, अभेदस्य निश्चीयमान-त्वात् । उत्प्रेक्षायां च सत्यां संभाव्यमानता स्यात् । अन्यथा मुखं चन्द्र इत्यादावपि प्रतीयमानोत्प्रेक्षापत्त्या रूपकविलोपापत्ते: ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP