रूपकालंकारः - लक्षण ७
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
तत्र-
परस्परसापेक्षनिष्पत्तिकानां रूपकाणां संघात: सावयवम् ॥
तत्रापि-
समस्तानि वस्तून्यारोप्यमाणानि शब्दोपात्तानि यत्र तत्समस्त-वस्तुविषयम् ॥
यत्र च क्कचिदवयवे शब्दोपात्तमारोप्यमाणं क्कचिच्चार्थसामर्थ्या-क्षिप्तं तदेकदेशे शब्दानुपात्तविषयिके अवयवरूपके विवर्तनात्स्वस्व-रूपगोपनेनाऽन्यथात्वेन वर्तनादेशविवर्ति ॥
यद्वा-
एकदेशे उपात्तविषयिके अवयवे विशेषेण स्फुटतया वर्तनादेक-देशवितर्ति ॥
समस्तवस्तुविषयं सावयवं यथा-
‘ सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे । वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र संदेह: ॥’
अत्र समुदायात्मकम्य सावयवरूपकस्यावयवानां सर्वेषामपि वस्तुत: समर्थ्यसमर्थकभावस्य परस्परं तुल्यत्वेऽपि कवे राकारूपस्यैव समर्थ्यत्वे-नाभिप्रेतत्वात्समर्थकतयोपादानमितरेषामिति गम्यते । एवं स्थिते समर्थ-करूपकाणां विषयविषयिणो: पृथग्विभक्तेरश्रवणादनुवाद्यत्वेऽपि समर्थ्य-रूपकस्य तयो: पृथग्विभक्तिश्रवणाद्विधेयतया तदादाय संघातात्मकस्य सावयवरूपकस्यापि विधेयत्वमत्र व्यपदिश्यते । यथा भटसंघान्तर्गतस्य मुख्यस्य कस्यापि भटम्य जयपराजयाभ्यां भटसंघातो जित: पराजित-श्चेत्युच्यते ।
‘ व्योमाड्रणे सरसि नीलिमदिव्यतोये तारावलीमुकुलमण्डलमण्डितेऽस्मिन् । आभाति षोडशकलादलमड्कभृड्रं सूराभिमुख्यविकचं शशिपुण्डरीकम् ॥’
अस्य तु सावयवरूपकस्यानुवाद्यत्वमेव । अत्र वर्ण्यस्य पूर्णचन्द्रस्य सूर्याभिमुख्यं ज्योति: शास्त्रसिद्धम् । तेन सूर्याभिमुख्ये चन्द्रस्य कथं विकास इति न शड्कनीयम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP