रूपकालंकारः - लक्षण ५

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


विधेयभावाभावादव्याप्त्यापते: । द्वितीये त्वनिह्लुत इति विशेषणवैयर्थ्यम्‍ । अपह्लुताबुपमेयतावच्छेद्यस्य निषिध्यमानतया तेन रूपेण विषयस्यानिर्दिष्ट-त्वादेव लक्षणस्याप्रसक्ते: । निश्चयगताहार्यत्वविशेषणवैयर्थ्यं च । भ्रान्तिमति दोषविशेषेण प्रतिबध्यमानतया नास्त्युपरमेयतावच्छेदकसंस्पर्श इति तावतैव वारणात्‍ । अपि च ‘ नायं सुधांशु: किं तर्हि सुधांशु: प्रेयसीमुखम्‍ ’ इति कुवलयानन्दे त्वयोक्तायामपह्लुतावतिप्रसड्र: । अत्र सुधांशौ सुधांशुत्वनिह्लुवेऽप्यारोपविषयस्यानिह्लवात्‍ । न चेदं रूपकमेवेति

वाच्यम्‍ । त्वदुक्तिविरोधापत्ते: । यच्चाप्युक्तम व्यंग्यत्वविशेषणाच्चेदमेव लंकारभूतस्य रूपकस्य लक्षणमिति, तदपि न । नहि व्यड्रयत्वालंकार-त्वयोर्विरोधोऽस्ति । प्रधानव्यड्रयरूपकवारणाय पुनरुपस्कारकत्वं विशे-षणमुचितमित्यसकृदावेदनात्‍ । अनलंकारत्वस्य तुल्यतया प्रधानव्यड्रयरू-पकस्येव प्रधानवाच्यरूपकस्यापि वारणीयत्वेन तद्वारकविशेषणाभावेन तत्रातिप्रसड्राच्च ।

यच्च ‘ तद्रूपकमभेदोय उपमानोपमेययो: ’ इत्यादि प्राचीनैरुक्तम्‍, तच्चि-न्त्यम्‍ । अपह्लुत्यादाबुपमानोपमेययोरभेदस्य प्रतीतिसिद्धतया तत्रातिप्रस-ड्रात्‍ । अथोपमानोपमेययोरित्युक्त्या उपमेयताच्छेदकं पुसस्कृत्योप-मानतावच्छेदकावच्छिन्नाभेद इत्यर्थलाभादपह्लुतौ चोपमेयतावच्छेदकस्य पुरस्काराभावान्नातिप्रसड्र इति चेत्‍ । न । ‘ नूनं मुखं चन्द्र: ’ इत्याद्युत्प्रे-क्षायां तथाप्यतिप्रसक्ते: । न च-

‘ प्रकृतं यन्निषिघ्यान्यत्साघ्यते सा त्वपह्लुति: ।’
‘ संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्‍ । ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP