रूपकालंकारः - लक्षण १४

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


तथा-

‘ सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे । वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र संदेह: ॥’

इत्यत्र सुन्दर्यां विषयभूतायां राकातादात्म्यावगमात्स्फुटमेव तावद्राका-रूपकम्‍ । तत्र चरणत्रयगतानि राकारूपकाण्यनुगुणतयोपात्तान्यपि नानुगु-ण्यमाचरन्ति । तारा-चंद्रिका-पूर्णचन्द्राणां मौक्तिक-धवलांशुक-वदना-भिन्नत्वे सिद्धेऽपि न सुन्दर्यां राकातादात्म्यं सेद्धुमीष्टे । प्रत्युत विपरीतं राकायां सुन्दरीतादूप्यम् , तेषां राकासंबन्धित्वात्सर्वमेव व्याकुलमिति ।

अत्र वदन्ति-अभेदस्तावद्विशेषणस्य संसर्गो भवति । स च यथा मुखं चन्द्र इत्यादौ वाक्यगते रूपके स्वप्रतियोगिनश्चन्द्रस्य स्वानुयोगिनि मुखे विशेषणताया निर्वाहकस्तथैव समासगते मुखचन्द्र इत्यादौ रूपके स्वानुयोगिनो मुखस्य प्रतियोगिनि चन्द्रे विशेषणताया: । एवं चोभयत्रापि वस्तुतश्चन्द्राभेद एव संसर्ग: । क्कचिदनुयोगित्वमुख:, क्कचिच्च प्रतियोगि-त्वमुख:, विशेषणविशेष्यभाववैचित्र्यात्‍ । न तु मुखचन्द्र इत्यत्र मुखाभेद:

संसर्ग: । तथा सति चन्द्ररूपकानापत्ते:, सुखरूपकापत्तेश्च । स्वप्रतियोगि-काभेद एव विशेषणसंसर्गो न तु स्वानुयोगिकाभेद इति तु दुराग्रह: । एवं च सौचन्यचन्द्रिकेत्यादौ वस्तुत: सौजन्याभेदो न सौजन्यस्य चन्द्रि-काविशेषणस्य संसर्ग:, अपि तु चन्द्रिकाऽभेद एव । तथा च सौजन्य-निष्ठाभेदप्रतियोगिनी चन्द्रिकेति पर्यवसितेऽर्थे, भड्रयन्तरेण सौजन्ये चन्द्रिकाऽभेदसिद्धौ जातायां राजनि चन्द्राभेदोऽपि निष्पद्यते इति परम्परिते नानुपपत्ति: । शशिपुण्डरीकमित्यादावपि शशिनिष्ठाभेदप्रतियोगि पुण्डरीकमिति पर्यवसिते‍ऽर्थे पुण्डरीकाभेदस्य भानात्पुण्डरीकरूपकमव्या-हतम्‍ । एवमन्येष्वप्यवयवरूपकेषु बोध्यम्‍ । एवं सुविमलमौक्तिकतारे

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP