रूपकालंकारः - लक्षण १५
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
इत्यादावपि ताराद्यभेद एव मौक्तिकादिगतो मौक्तिकादीनां तारादि-विशेषणानां संसर्गीभन्राकारूपकस्य समर्थको भवतीति सर्वं सुस्थम् ।
सोऽयमभेदो यत्रानुयोगित्वमुखस्तत्र रूपकस्य विधेयता । यत्र च प्रतियोगित्वमुखस्तत्रानुवाद्यत्वमिति दिक् ।
तर ‘ प्राचीसंघ्यासमुद्यन्महिमदिनमणे: ’ इत्यत्रारोप्यमाणयो: परस्परमारोपविषययोश्चानुकूल्ये रूपकयोरनुग्राह्यानुग्राहकभावो दर्शित: ।
प्रातिकूल्ये यथा-
‘ आनन्दमृगदावाग्नि: शीलशाखिमदद्विप: । ज्ञानदीपमहावायुरयं खलसमागम: ॥ ’
यथा वा-
‘ कारुण्यकुसुमाकाश: कारुण्यकुसुमाकाश: शान्तिशैत्यहुताशन: । यश:सौरभ्यलशुन: पिशुन: केन वर्ण्यते ॥’
एकत्र नाश्यनाशकभावरूपमपरत्र चात्यन्तिकसंसर्गशून्यतारूपं प्राति-कूल्यमुपमानयोस्तथैवोपमेययोश्च । अनुग्राह्यानुग्राहकभाव: पुनरारोपयोर-विशिष्ट एव ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP